श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ अदृष्टपूर्व संक्रुद्धं दृष्टा रामं तुं लक्ष्मणः ॥ अब्रवीत्प्राञ्जलिर्वाक्यं मुखेन परिशुष्यता ।। ३ ।। पुरा भूत्वा मृदुर्दान्तः सर्वभूतहिते रतः । न क्रोधवशमापन्नः प्रकृतिं हातुमर्हसि ।। ४ ।। चन्द्रे लक्ष्मीः प्रभा सूर्ये गतिर्वायौ भुवि क्षमा । एतच नियतं सर्वं त्वयि चानुत्तमं यशः ॥५॥ एकस्य नापराधेन लोकैान्हन्तुं त्वमर्हसि । न तु जानामि कस्यायं भग्रः सांग्रामिको रथः ।। केन वा कस्य वा हेतोः सायुधः सपरेिच्छदः ॥ ६ ॥ खुरनेमिक्षतश्चायं सिंक्तो रुधिरबिन्दुभिः ।। देशो निवृत्तसंग्रामः सुघोरः पार्थिवात्मज ॥ ७ ॥ एकस्य तु विमर्दोयं न द्वयोर्वदतां वर । न हि वृत्तं हि पश्यामि बलस्य महतः पदम् ॥ ८ ॥ नैकस्य तु कृते लोकान्विनाशयितुमर्हसि । युक्तदण्डा हि मृदवः प्रशान्ता वसुधाधिपाः ॥ ९ ॥ सदा त्वं सर्वभूतानां शरण्यः परमा गतिः ॥ को नु दारप्रणाशं ते साधु मन्येत राघव ॥ १० ॥ सरितः सागराः शैला देवगन्धर्वदानवाः ॥ नालं ते विप्रियं कर्तु दीक्षितस्येव साधवः ॥ ११ ॥ येन राजन्हृता सीता तमैन्वेषितुमर्हसि ॥ मद्वितीयो धनुष्पाणिः सहायैः परमर्षिभिः ।। १२ ।। समुद्रं च विचेष्यामः पर्वतांश्च वनानि च । गुहाश्च विविधा घोरा नदीः पद्मावनानि च ।। १३ ।। देवगन्धर्वलोकांश्च विचेष्यामः समाहिताः ॥ यावन्नाधिगमिष्यामस्तव भार्यापहारिणम् ।। १४ ।। न चेत्साम्रा प्रदास्यन्ति पलीं ते त्रिदशेश्वराः ॥ कोसलेन्द्र ततः पश्चात्प्राप्तकालं करिष्यसि ॥ १५ ॥ पूर्वाइत्युच्यते । रामंदृष्टा राममन्नवीदिति क्रियाभे- | जनस्य हेतोः । * षष्ठी हेतुप्रयोगे ?' इति षष्ठी । दान्नपुनरुक्तिदोषः । अभवे विनाशे । युक्तं उद्युक्तं । |प्रकृताद्न्यस्माद्वा निमित्तादिति न जानामि । तचि संवर्तकं संहारकं । अदृष्टपूर्वमिति क्रोधनक्रियाविशे-|न्तनीयमित्यर्थः । सपरिच्छदः सपरिकरः ।। ६ ।। षणं । परिशुष्यता लोकविनाशभयेनेति भावः |खुरेति अश्वानां खुरैः रथनेमिभिः रथाङ्गेश्च क्षत ॥ १-३ ॥ ोधवशमापन्नःसन् प्रकृतिं मृदु- | निवृत्तसंग्रामः दृश्यत इति शेषः ।। ७ । विमर्द त्वादिनिजस्वभावं । न हातुमर्हसि ॥ ४ ॥ लक्ष्म्या-| संप्रहारः । तत्र हेतुमाह-नहीति । वृत्तं संक्रान्तं दिकमेकैकस्य प्रतिनियतं त्वयितु एतत्सर्वच यशश्च |॥ ८ ॥ वक्तव्यमुक्त्वा प्रकृतमाह-नैकस्येति प्रतिनियतमित्यर्थ ५ । मम दान्ततयैवैतादृशी-|युक्तदण्डाः अपराधोचितशिक्षणप्रवर्तका ॥ ९ ॥ दशाजाता अधुनापियदिक्रोधोनस्यात् कोवाममवि-|विशिष्य तवायं धर्म इत्याह-सदेति । शरण्य त्रस्येत् कथंचसीताप्राप्तिरित्याशङ्कयाह-एकस्येति । | शरणार्हः । परमा गतिः परमप्राप्यः । देवादिकृतो अर्धत्रयमेकान्वयं । अयंभावः । एकोरथोदृश्यते ए- |ऽयमपराधो नेत्याह-को न्विति ॥१०॥ दीक्षितस्य कस्यैवपदंप्रतीयते । तेन एक एवापराधीतिनिश्चीयते । |उपक्रान्तयज्ञानुष्ठानस्य । साधवः ऋत्विजः ।। ११ । । एकस्यचापराधेन सर्वान् हन्तुंनार्हसि । तर्हिकोवाऽप-|परमार्षिभिः एतद्वनस्थैः ॥ १२ ॥ विचेष्यामः अन्वे राधीत्यत्राह-नत्विति । केन प्रतिपक्षिणा कस्य प्रयो- ! षिष्यामहे ॥ १३-१४ । प्राप्तश्चतुर्थोपायकालोय - स० अदृष्टपूर्वमितिविशेष्येणखरसान्वयिसत् विशेषणीभूतेक्रोधेऽन्वेति । ततश्चादृष्टपूर्वकोधवन्तमित्यर्थः ॥ ३ ॥ तनि० न“नतस्येशेकश्चनतस्यनाममहंद्यश इत्युक्तनिस्सीमाभ्यधिकत्वादिगुणाः प्रतिनियताइत्युपलक्ष्यन्ते शि० एकस्यराक्षसस्यापराधेन लोकान्सर्वजनान् हन्तुंत्वंनार्हसि । एतेनविभीषणकर्मकविघातजनितभीतिमत्त्वंलक्ष्मणस्यसूचितं ॥ ६ ॥ स० बलस्य सैन्यस्य । वृत्तं भुविकृतचिहं ॥ ८ ॥ ती० युक्तदण्डाः यथापराधदण्डाः ॥ ९ ॥ ती० दीक्षितस्य प्रक्रान्तयज्ञानुष्ठानस्य । साधवः ज्ञानसंपन्ना ऋत्विजः । विप्रियं शापाद्यपचारं । कर्तुनसमर्थाः । “ नैनंशनाभिचरितमागच्छ ति इत्यादिश्रुतिबलादितिभावः ॥ ११ ॥ स० पर्वताश्चअनिश्चतत्रलाः प्राणिनश्च वनानिचेत्येतानि ॥१३॥ ति० यद्यस्मात् [ पा०]१ क. ड ट. सलक्ष्मणः. २ ड. झ. ट. नित्यंखयि. ३ ड. च. छ. ज. आ. लोकांस्त्वंहन्तुमर्हसि. ४ ड. झ संयुगः. ५ ख. च. छ. ज. अ. रथनेमि. ६ क. सिक्तःशोणितबिन्दुभिः. ग. सिक्तःक्षतजविन्दुभिः. ७ क. च. छ. ज. ल मन्वेष्टुंत्वमर्हसि. ८ ठ. पर्वतानिवनानिच. ९ ड. झ. ट. ६मिन्योविविधास्तथा. क, ख, च. छ. ज. ज. नलिनी:पार्वतीश्वह १० क. च. छ. ज, अ. पश्चाद्वाणमोक्षं. ११ घ. विधास्यति
पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२२२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति