श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ भक्षयन्तं महाघोरानृक्षसिंहमृगद्विपान् ।। घोरौ भुजौ विकुर्वाणमुभौ योजनमायतौ ॥ ३१ ॥ कराभ्यां विविधान्गृह्य ऋक्षान्पक्षिगणान्मृगान् ॥ आकर्षन्तं विकर्षन्तमनेकान्मृगयूथपान् ।। स्थितमावृत्य पन्थानं तयोभ्रात्रोः प्रपन्नयोः ॥ ३२ ॥ अथ तौ समभिक्रम्य क्रोशमात्रे ददर्शतुः । महान्तं दारुणं भीमं कबन्धं भुजसंवृतम् ॥ कबन्धमिव संस्थानादतिघोरप्रदर्शनम् ।। ३३ ।। स महाबाहुरत्यर्थ प्रसार्य विपुलौ भुजौ । जग्राह संहितावेव राघवौ पीडयन्बलात् ॥ ३४ ॥ खङ्गिनौ दृढधन्वानौ तिग्मतेजोवपुर्धरौ ॥ भ्रातरौ विवशं प्राप्तौ कृष्यमाणौ महाबलौ ।। ३५ ।। तत्रं धैर्येण शूरस्तु राघवो नैव विव्यथे । बाल्यांदनाश्रयत्वाच लक्ष्मणस्त्वतिविव्यथे । उवाच च विषण्णः सत्राघवं राघवानुजः ॥ ३६ ॥ पश्य मां वीर विवंशं राक्षसस्य वशं गतम् । मैयैकेन विनिर्युक्तः परिमुञ्वख राघव । मां हि भूतबलिं दत्त्वा पलायख यथासुखम् ॥ ३७ ।। अधिगन्ताऽसि वैदेहीमचिरेणेति मे मतिः ।। ३८ ।। प्रतिलभ्य च काकुत्स्थ पितृपैतामहीं महीम् ॥ तत्र मां राम राज्यस्थः स्मर्तुमर्हसि सर्वदा ॥ ३९ ॥ लक्ष्मणेनैवमुक्तस्तु रामः सौमित्रिमब्रवीत् । मा स त्रासं कृथा वीर न हि त्वादृग्विषीदति ॥४०॥ ॥ २७-३२ । अथेति सार्धश्लोक एकान्वयः । अथ | वपुर्धरौ विवशं पारवश्यं । प्राप्तौ॥३५॥ तत्र तस्यामव आसादनानन्तरं । समभिक्रम्य आभिमुख्येनगत्वा । | स्थायां। बाल्यातू बालबुद्धित्वात् । रामवद्द्रौढबुद्धित्वा क्रोशमात्रे समीपे । ददर्शतुः ददृशतुः । दारुणं भीमं |दित्यर्थः अन्नाश्रयत्वात् धैर्यानालम्बनात् । अतिविव्यथे अतिशयेन भीमं भुजाभ्यां मृगान् संवृणोतीतेि भुजसं- | अत्यन्तं खिन्नोऽभूत् उवाच च ॥३६॥ राक्षसस्य वशं वृतं। संस्थानात् देहस्थित्या । कबन्धमिव सर्वदाअशिर-|गतत्वेन विवशमिति योजना । विनिर्युक्तः वियुक्तः। स्कत्वलक्षणकबन्धवत्स्थितं ॥३३॥ सहितावेव नैकमपि | एतस्यैवविवरणं मामिति । भूतबलिं भूतस्य कबन्धस्य मुक्त्वेत्यर्थः॥३४॥ तिग्मं खरं तेजो यस्यतत्तथा तादृश- | बलिं ॥३७॥ अधीत्येकाधै।॥३८॥ तत्र मह्यां ॥३९ अन्तरुपलभ्यमानेननयनेनोपलक्षितंमुखंलेलिहानं ॥ ३० ॥ ति० तिग्मतेजौ तिग्मतेजसौ ॥ ३५ ॥ ति० अनाश्रयात् धैर्यस्ये तिशेषः । धैर्यानालंबनादित्यर्थः । तत्रहेतुबल्यं बालबुद्धिखं । शुद्धसत्वाप्रधानखं । अनाश्रयखादितिपाठे आश्रयभूतस्यरामस्या पि कबन्धभुजावृतत्वादितिभाव ॥ ३६ ॥ ति० निर्युक्तः नियोजितरक्षोबलिस्संस्खं किंचित्खवशमात्मानंपरिमुचख । पलायने नेतिशेषः ॥ शि० मांभूतबालिंदत्वा पिशाचाकारराक्षसायसमप्येत्यर्थः । एकेनमयानिर्युक्तः वियुक्तस्त्वं पलायख राक्षसमिति शेषः । अतएव यथासुखंपरिमुञ्चख । आत्मानमितिशेषः । मांभूतबलिंदत्वेत्यनेनमांप्राप्य संतोषप्राप्स्यापराक्रमाद्राक्षसोनिवर्ति घ्यतइति सूचितं । तेन सीतान्वेषणेविलंबोनकार्यइतिध्वनितं । तेन लक्ष्मणस्यसीताविषयकप्रेमातिशयोव्यञ्जितः ॥ ३७ ॥ [ पा० ] १ ख. च. छ. ज. . रुद्विपान्. ड. झ. ट. मृगद्विजान्. २ ट. विकुर्वन्तमुभौ. ३ घ. गणान्बहून्. ४ च छ. ज. अ. ट. तत्समतिक्रम्य. ख. ग. घ. झ. तंसमतिक्रम्य. ५ घ. ड. छ. झ. अ. ट. क्रोशमात्रं. ६ च. छ. ज. अ. भूतं ७ ड. झ. ट. सहितावेष. ८ घ.–ट. तिग्मतेजौमहाभुजौ. ख. तिग्मतेजौधनुर्धरौ. ९ ख. च. छ. ज. अ. ट. तत्रधैर्याच १० झ. दनाश्रयाचैव. ११ ख. अ. ट, स्खभिविव्यथे. १२ ड.–ट. विवशंवीर . १३ क .-घ. च. छ. ज. मयैकेनतुनिर्युक्तः. १४ प्रतिलभ्यचकाकुत्स्थेतिश्लोकात्परं एतस्मिन्नन्तरे इतिश्लोकात्पूर्व लक्ष्मणेनैवमुक्तस्खितिश्लोकस्यस्थाने क. च. छ. ज. पाठेषु. नहिमेखत्समोबन्धुः कश्चनानघविद्यते । नमातुश्चममाख्येयोविनाशश्वकथंचन । विषीदत्यतिमात्रंहिप्रि यपुत्राहिसाभृशम् ॥ १ ॥ तंतुसंपन्नयावाचापरितापार्तमातुरम् । आश्वासहेतोर्वचनमिदमाहपरंतपः ।। २ ॥ पुत्रोदशरथस्या सीद्वितीयोममचानुजः । सप्राकृतइवोदारःकथंनामविषीदसि ॥ ३ ॥ मांसराशिमयःपापोरूपमात्रंहिभीषणम् । मासंत्रासंकृ थावीरनहित्वादृग्विषीदति ॥ ४ ॥ ततःसखानितद्रक्षःक्षुधयाह्यग्रसत्तदा ॥ ५ ॥ खङ्गिनौदृढधन्वानौतिग्मबाणौधनुर्धरौ । भ्रातरावरणींप्राप्यकृष्यमाणैौददर्शतुः ॥ ६ ॥ महाजगरसंकशौखङ्गरोमभिरावृतौ । तीक्ष्णरोमनखौबाहूपश्चास्याविवपन्नगौ ॥ ७ ॥ ताभ्यांतुकृष्यमाणौतौबाणपातमिवागतौ । कृच्छेणदूरतस्तस्यतत्रदृष्टाव्यवस्थितौ ॥ ८ ॥ इत्यष्टौश्लोकादृश्यन्ते
पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२३६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति