पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६९] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २३५ एतस्मिन्नन्तरे क्रूरो भ्रातरौ रामलक्ष्मणौ ॥ पेप्रच्छ घननिघोषः कबन्धो दानवोत्तमः ॥ ४१ ॥ कौ युवां वृषभस्कन्धौ महाखङ्गधनुर्धरौ ।। घोरं देशैमिमं प्राप्तौ मम भक्षावुपस्थितौ ।। ४२ ।। वदतं कार्यमिह वां किमर्थ चागतौ युवाम् ॥ इमं देशमनुप्राप्तौ क्षुधार्तस्येह तिष्ठतः ।। ४३ ।। सैबाणचापखङ्गौ च तीक्ष्णशृङ्गाविवर्षभौ । मैमास्यमनुसंप्राप्तौ दुर्लभं जीवितं पुनः ॥ ४४ ।। तस्य तद्वचनं श्रुत्वा कबन्धस्य दुरात्मनः । उवाच लक्ष्मणं रामो मुखेन परिशुष्यता ।। ४५ ।। कृच्छूत्कृच्छतरं प्राप्य दारुणं सत्यविक्रम । व्यसनं जीवितान्ताय प्राप्तमप्राप्य तां प्रियाम् ॥४६॥ कालस्य सुमहद्वीर्य सर्वभूतेषु लक्ष्मण । त्वां च मां च नरव्याघ्र व्यसनैः पश्य मोहितौ ।। ४७ ।। नीतिभारोस्ति दैवस्य सर्वभूतेषु लक्ष्मण ॥ शूराश्च बलवन्तश्च कृतास्राश्च रणाजिरे ।। कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः ।। ४८ ॥ इति बुवाणो दृढसत्यविक्रमो महायशा दाशरथिः प्रतापवान् । अवेक्ष्य सौमित्रिमुदग्रपौरुषं स्थिरां तदा खां मतिमात्मनाऽकरोत् ॥ ४९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे एकोनसप्ततितमः सर्गः ।। ६९ ॥ ४० । एतस्मिन्नन्तरे लक्ष्मणाश्चासनावसरे ।। ४१ । | तरं राज्यभ्रंशवनवाससीताहरणपर्यन्तं प्राप्यावस्थि भक्षौ आहारौ ।। ४२॥ इह वने । वां युवयोः । कार्य | तयोः पुनश्चतां प्रियामप्राप्यैव आवयोजीवितान्ताय वदतं । लोण्मध्यमपुरुषद्विवचनं । वामिह वने किं | दारुणं व्यसनं दुःखं प्राप्त ।। ४६ । अत्र हेतुमाह कार्य किं कर्तव्यं । किमर्थ कस्य प्रयोजनाय । आगतौ |कालस्येति । सर्वभूतेष्वपि कालस्य वीर्य सुमहत् न किमप्यस्यत्रवां प्रयोजनं । प्रत्युतास्मत्प्रयोजनमेव | अनर्गलमित्यर्थः । त्वां च मां च महाबलपराक्रमावपि सिद्धमित्याह-इममिति । इह तिष्ठत: ममेति शेषः । | व्यसनैर्मोहितौ करोति पश्य ।। ४७ । उक्तमर्थमुप क्षुधार्तस्य मम संबन्धिनमिमं देशमनुप्राप्तावित्यनेन |पादयति-नातीति । सार्धश्लोकएकान्वयः । वालुक मम क्षुन्निवृत्त्यर्थमेव वामागमनमिति भावः ।। ४३ । । सेतवः सिकतामयसेतवः ।। ४८ ॥ सैौमित्रिं दीनम आगमने आवयो:काहानिरित्यत्राह-सबाणेति ।४४॥ |वेक्ष्य स्वांमतिं आत्मनैव स्थिरामकरोत् ॥ ४९ ॥ मुखेन उपलक्षित इति शेषः ।। । कृच्छ्रात्कृच्छू- ) इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे ४५ शि० दानवोत्तमइत्युक्तयादनुवंशोद्रवत्वेपिकर्मणाराक्षसखादन्यत्रराक्षसखोक्तिर्नविरुध्यते ॥ ४१ ॥ शि० जीवितान्ताय अवध्यतिक्रमणहेतुकायोध्यावासिजीवनविध्वंसाय व्यसनं राक्षसग्रहृजनितदुःखं प्राप्तम् ॥ ४६ ॥ ती० सर्ववाक्यंसावधारणं इतिन्यायेनात्रैवकारोद्रष्टव्यः । अस्यार्थः—सर्वभूतेषुमध्ये कालस्यैवसुमहद्वीर्य । अस्तीतिशेषः । कुतः खांखादृशं । मांमादृशंच । व्यसनैः कालकृतैरितिशेषः । मोहितैौपश्येत्यर्थः ॥ ४७ ॥ ती० नातीति । दैवस्यकालस्यसर्वभूतेषुविषये । यद्वा सर्वभूतेषु सर्वभूतानां संहारइतिशेषः । नातिभारोस्ति नप्रयाससाध्यइत्यर्थः । कुतः । शूराश्चेति । समहाबाहुरित्यारभ्य ' तत्रमांराम राज्यस्थः ' इत्यन्तस्यवास्तवार्थेऽयमर्थः । सकबन्धस्तौजग्राह्यद्यपि । तथापि तौविवशं। विवेतिनिपातौपादपूरणार्थौं । शंसुखं प्राप्तौ । यद्वा विवशं वे:पक्षिणःगरुत्मतः वशंप्राप्तौ गरुडारूढावित्यर्थः । तौसजग्राहेतिपूर्वेणसंबन्धः । तत्र लक्ष्मणस्यमनुष्यनाट्यं दर्शयति--तत्रेति । तुइवार्थे । अभिविव्यधइव ॥ कृच्छूात्कृच्छूतरमित्यादेर्वास्तवार्थस्तु दारुणंकृच्छूतरंप्राप्यापि तांप्रियामप्राप्य जौवितान्ताय व्यसनंप्राप्तमित्यादि लोकरीतिमनुसृत्य सीतादर्शनव्याजेनोक्तिः ॥ ४८ ॥ इत्येकोनसप्ततितमः सर्गः ॥ ६९ ॥ [ पा० ] १ एतस्मिन्नन्तरेइतिश्ोकस्यस्थाने ख. पाठे. ततःपिपासाविक्षिप्तः क्षुधयानिभृतस्तदा । विक्षिप्तांसबाहुभ्यांमृगै सहमहावने । भ्रातरौनिकटंप्राप्य कृष्यमाणौददर्शह । तावुवाचमहाबाहुःकबन्धोदानवोत्तमः । इतिश्लोकादृश्यते. २ ड.-ट. तावुवाचमहाबाहुः. ३ घ. मनुप्राप्तौ. ४ ड. झ. ट. दैवेनममचाक्षुषौ. ५च. छ. ज. चागतावुभौ. ६ घ. च. छ. ज. अ. सचा पबाणखौोच. ख. ट. सचापबाणखङ्गेन. ७ ड. झ. मांतूर्णमनुसंप्राप्तौ. ८ ड. झ. ट. जीवितंहिवां. ९ च. छ. ज. महात्मन १० ड. झ. अ. नहिभारोस्ति. ११ च. छ. ज. अ. महारणे. १२ क. ख. ग. कालावुपन्ना १३ घ. महारथो. १४ ख ग. च. छ. ज. मुदारविक्रमं. ड. झ. अ. मुदारविक्रमः वा. रा. ११७