श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ तिलकैबीजपूरैश्च धवैः शुकदुमैस्तथा । पुष्पितैः करवीरैश्च पुन्नागैश्च सुपुष्पितैः ॥ १६ ॥ मालतीकुन्दगुल्मैश्च भाण्डीरैर्निचुलैस्तथा ॥ अशोकैः सप्तपणैश्च केतकैरतिमुक्तकैः ।। १७ ।। अन्यैश्च विविधैर्वथैः प्रमदामिव भूषिताम् । सैमीक्षमाणौ पुष्पाढ्यं सर्वतो विपुलदुमम् ।। १८ ।। कोयष्टिकैश्चार्जुनकैः शतपत्रैश्च कीरकैः । एतैश्चान्यैश्च विहगैनदितं तुं वनं महत् ॥ १९ ॥ ततो जग्मतुरव्यग्रौ रौघवौ सुसमाहितौ । तद्वनं चैव सरसः पश्यन्तौ शकुनैर्युतम् ॥ २० ॥ स ददर्श ततः पम्पां शीतैवारिनिधिं शुभाम् । प्रहृष्टनानाशकुनां पादपैरुपशोभिताम् । तिलकाशोकपुन्नागबकुलोद्दालकाशिनीम् ।। २१ ।। स रामो विविधान्वृक्षान्सरांसि विविधानि च ॥ पश्यन्कामाभिसंतप्तो जगाम परमं हृदम्॥२२॥ पुष्पितोपवनोपेतां सालचम्पकशोभिताम् ।। षट्पदौघसमाविष्टां श्रीमतीमतुलप्रभाम् ॥ २३ ॥ स्फटिकोपैमतोयाढ्यां श्लक्ष्णवालुकसंतताम् । स तां दृष्टा पुनः पम्पां पद्मसौगन्धिकैर्युताम् । इत्युवाच तदा वाक्यं लक्ष्मणं सैत्यविक्रमः ॥ २४ ।। ऑस्यास्तीरे तु पूर्वोक्तः पर्वतो धातुमण्डितः ।। ऋश्यमूक इति ख्यातः पुण्यः पुष्पितपादपः॥२५॥ हैंरेक्षरजोनास्रः पुत्रस्तस्य महात्मनः ॥ अध्यास्ते तं महावीर्यः सुग्रीव इति विश्रुतः ॥ २६ ॥ सुग्रीवमभिगच्छ त्वं वानरेन्द्रं नरर्षभ । इत्युवाच पुनर्वाक्यं लक्ष्मणं सत्यविक्रमम् ॥ २७ ॥ राज्यभ्रष्टेन 'दीनेन तस्यामासक्तचेतसा । कथं मया विना शैक्यं सीतां लक्ष्मण जीवितुम् ॥२८॥ इत्येवमुक्त्वा मदनाभिपीडितः स लक्ष्मणं वाक्यमैनन्यचेतसम् ॥ विवेश पम्पां नलिनीं मैनोहरां रघूत्तमः शोकविषादयत्रितः ॥ २९ ॥ सन्तौ । तद्वनं जग्मतुरिति संबन्धः । अतो न वनश- | तं ऋश्यमूकं ।। २६ । अभिगच्छेत्यनन्तरमित्यु ब्दद्वयदोषः ।। १५-२० । समीपतःपम्पाद्र्शनमा- | क्लेवेति शेषः । इति क्ष्यमाणप्रकारेण । सुग्रीवम ह-स ददृशेति ।। २१ । अथ पम्पाप्राप्तिमाह-स | भिगच्छेत्युक्त्वा लक्ष्मणंपुनरित्युवाचेत्यन्वयः ॥२७॥ राम इति । परमंहदं पम्पाख्यं सरः।। २२। प्रास्य- | राज्यभ्रष्टेन अतएव दीनेन सर्वदैन्यपरिहारार्थ नन्तरं पम्पां दृष्टा लक्ष्मणं प्रत्याह-पुष्पितेत्यादि- | तस्यां सीतायां । आसक्तचेतसा मया सीतांविना सार्धश्लोकद्वयं । सालाः सर्जकवृक्षाः । चम्पकाः | कथंजीवितुं शक्यं ।। २८ । अनन्यचेतसं स्ववाक्य चाम्पेयवृक्षा: ।। २३-२४ । पूर्वोक्तः कबन्धेनेति |श्रवणेसावधानं । विवेश रुन्नानायेति शेषः । नलिनीं शेषः ।। २५ । हरेः वानरस्य । तस्य प्रसिद्धस्य । | सरसीं । शोकः दुःखं विषाद:तत्कृतःकार्यकरणापाटव शि० अनन्यचेतनः न अन्यस्मिन् सीतातिरिक्तवस्तुनि चेतनंबित्तं यस्यसः । रघूत्तमः सरामः ॥ २९ ॥ [पा०] १ ख. घ. च. छ. वरैः. २ क.-ड. झ. अ. ट. समीक्षमाणः. ३ ख. पुष्पाढ्यांफलपुष्पसमाकुलां. ४ ड. झ कोयष्टिभिश्चा. ५ झ. कीचकैः. ख. घ. किंशुकैः. ६ क. ख. घ. च. अ. विविधैः. ड. झ. ट. बहुभिः. ७ क. ख. घ.-ट तद्वनै. ८ च. छ. ज. ट. समाजग्मतुः. ड. झ. अ. तत्रजग्मतुः. ९ ड. झ. अ. राघवेौहि. १० ख. वारिधरां. ११ क. ख अ. तोयांतां. १२ ख. ग. झ. ट. पुनर्वाक्यं. १३ ख. च. छ. ज. ट. सत्यविक्रमं. १४ . तस्यास्तीरेतु. ग. अस्यातुतीरे १५ क. ख. घ. ड. चित्रपुष्पितकाननः. ड. झ. ट. चित्रपुष्पितपादपः. ग. सदापुष्पितपादपः. च. छ. ज. अ. सदापुष्पि तकाननः. १६ क. ख. हरिक्ष. १७ ग. मभिगच्छावो. १८ घ. च.-झ. इत्युक्त्वाच. १९ घ. हीनेन. २० क. ख. ग. ड ज.-अ. सीतांशक्यं. २१ ड. झ. अ. ट. मनन्यचेतनः. क. मदीनचेतसं. च. छ. ज. मदीनसत्वः. २२ क. घ. च. छ झ, ल. ट. मनोरमां
पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२५४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति