पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ ऐनां विरूपामसतीं करालां निर्णतोदरीम् ॥ वृद्धां भार्यामवष्टभ्य मां न त्वं बहुमन्यसे ॥ अद्येमां भक्षयिष्यामि पश्यतस्तव मानुषीम् ॥ त्वया सह चरिष्यामि निःसैपला यथासुखम् ॥ १६ ॥ इत्युक्त्वा मृगशावाक्षीमलातसदृशेक्षणा । अभ्यधावत्सुसंक्रुद्धा महोल्का रोहिणीमिव ।। १७ ।। तां मृत्युपाशप्रतिमामापतन्तीं महाबलः ॥ निगृह्य रामः कुपितस्ततो लक्ष्मणमब्रवीत् ।। १८ ।। क्रूरैरनायैः सौमित्रे परिहासः कथंचन । न कार्यः पश्य वैदेहीं कथंचित्सौम्य जीवतीम् । इमां विरूपामसतीमतिमत्तां महोदरीम् ।। राक्षसीं पुरुषव्याघ्र विरूपयितुमर्हसि ।। २० ।। इत्युक्तो लक्ष्मणस्तस्याः कुद्धो रामस्य पार्श्वतः । उद्धृत्य खङ्गं चिच्छेद कैर्णनासं महाबलः ॥ २१ ॥ निकृत्तकर्णनासा तु विस्खरं सा विनद्य च । यथागतं प्रदुद्राव घोरा शूर्पणखा वनम् ॥ २२ ॥ सा विरूपा महाघोरा राक्षसी शोणितोक्षिता । ननाद विविधान्नादान्यथा प्रावृषि तोयदः ॥२३॥ सा विक्षरन्ती रुधिरं बहुधा घोरदर्शना । प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम् ॥ २४ ॥ ततस्तु सा राक्षससंघसंवृतं खरं जनस्थानगतं विरूपिता । उपेत्य तं भ्रातरमुग्रदर्शनं पपात भूमौ गगनाद्यथाऽशनिः ॥ २५ ॥ ततः सभार्य भयमोहमूच्छिता सलक्ष्मणं राघवमागतं वनम् । विरूपणं चात्मनि शोणितोक्षिता शशंस सर्व भगिनी खरस्य सा ।। २६ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे अष्टादशः सर्गः ॥ १८ ॥ ॥१४॥ अवष्टभ्य अवलम्ब्य ॥१५॥ पश्यतस्तव त्वयि | प्राण्यङ्गत्वादेकवद्भावः । रामे बद्धभावाया अपि शूर्प पश्यति । निःसपत्ना निष्प्रतिबन्धिका ॥ १६ ॥ | णखायास्तदीयापचारेण हानिजीतेत्यनुसन्धेयं ॥२१ ॥ अलातसदृशेक्षणा निज्वलकाष्ठान्नितुल्यक्षणा । उल्का | यथागतं आगतमार्गमनतिक्रम्य । वनं प्रदुद्रावेति निर्गतज्वाला सा चोत्पातकालभाविनी प्रकृते विवक्षि- | संबन्धः ।। २२ ।।' शोणितोक्षिता रतेन सिक्ता । ता ॥ १७ ॥ निगृह्य हुंकारेण प्रतिषिध्य ।। १८ । अ-| नादान्ननाद् नादांश्चकारेत्यर्थः । ओोदनपाकं पचतीति नायैः दुर्जनैः । कथंचिज्जीवतीं शूर्पणखायाः क्रौर्य-| वत् । प्रावृषि वर्षाकाले ॥२३॥ विसरन्ती स्रवन्ती । मालोक्य कथंचित्स्वास्थ्यमापन्नां ।। १९ । पूर्वमेव | रुधिरं रक्तं । प्रगृह्य उद्यम्य ।। २४ । तं रामवध्यत्वेन विरूपां पुनर्विरूपयेति भावः । एतावत्पर्यन्तमपरा- | प्रसिद्धं । यथाऽशनिः अशनिरिव । गगनात् भूमाँ धाभावातूष्णीं स्थितं अद्य सीताक्रमणव्याजेनेमां | पपात ।। २५ । उत्तरसर्गार्थमेकेन संगृहाति-तत विरूपयेत्यर्थः ।। २० । तस्याः कर्णनासमित्यन्वयः । | सभार्यमिति । भयजो मोहो भयमोहः निःसंज्ञता तनुमध्यामित्यर्थः । वृद्धां ज्ञानशीलगुणवृद्धामित्यर्थः ॥ ११ ॥ ति० अनायैः परिहासोनकथमपिकार्यइत्यत्रानुभवंप्रमाणयति । पश्यवैदेहींभक्षयितुमुद्युक्ता । अस्मत्कृतपरिहासदोषादितिशेषः । हेसौम्य कथंचिज्जीवतीमेवेत्युत्तरश्लोकान्वयि । कतक० इदं परिहासेनाप्यनृतवचनंसल्यनिष्ठस्यरामस्यसर्वानर्थमूलं । मूलाविद्यायांमायायांबीजावेशमूलंच ॥ १९ ॥ टीका० कर्णनासमित्युप लक्षणे । स्तनोष्ठमपीत्यर्थः । उक्तंचभारते “ निकृत्तकर्णनासोष्ठांचकारघुनन्दनः ?' इति । स्कान्देच “ लक्ष्मणस्तूर्णमुत्थायकर वालेनवीर्यवान् । कणस्तनौनासिकांचअच्छिनद्रामशासनात्' । स० कर्णनासेइतिपाठे छान्दसएकवद्भावाभावः । यद्वा कर्णश्च नासाचकर्णनासं । कर्णनासंचकर्णनासंचकर्णनासेइत्येकशेषाद्विवचनोपपत्तिः ॥२१॥ति० अत्रेदंबोध्यं—दशवर्षगमनोत्तरंपुनस्सुती क्षणाश्रमगमनंरामस्य । तत्रचवर्षाकालापगमपर्यन्तंस्थित्वा िकंचिच्छिष्टएकादशेऽगस्त्याश्रमगमनं । ततोवर्षाकालारंभेपञ्चवट्यांवासः। मयूरनादितारम्याः” इतितत्रोक्तः । एवंवसतस्तस्यशरद्यपायेहेमन्तर्तुःप्रविष्टइत्युक्तरत्रद्वादशवर्षपूर्तिः। “पञ्चमेपञ्चमेवर्षेद्वैौद्वावधि [ पा० ] १ ख.-च. ज.-ट, इमां. २ ड. झ. ट. नमांखं. च. छ. अ. मांख्खंन. ३ ड, निस्सपत्नी. ४ ड. झ. ट अभ्यगच्छत्, ५ ट. प्रगृह्य. ६ क.-ट. पश्यतः. ७ ड. झ. ज, ट. कर्णनासे. ८ ख. ग. घ. विकृत्त. ९ च. छ. ज: महानादा. १० ड. झ. ट. मुग्रतेजसं