पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ वाक्यमेतैत्ततः श्रुत्वा रामस्य विदितात्मनः । तथेति लक्ष्मणो वाक्यं रौमस्य प्रत्यपूजयत्. ॥ ५ ॥ राघवोपि मुहचापं चामीकरविभूषितम् ।चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत् ।। ६ ।। पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ । प्रविष्टौ सीतया सार्ध दुश्चरं दण्डकावनम् ॥ ७ ॥ फलमूलाशनौ दान्तौ तापसौ धैर्मचारिणौ ॥ वसन्तौ दण्डकारण्ये किमर्थमुपहिंसथ ॥ ८ ॥ युष्मान्पपात्मकान्हन्तुं विप्रकारान्महाहवे ।। ऋषीणां तु नियोगेन प्राप्तोऽहं संशरायुधः ॥ ९ ॥ तिष्ठतैवात्र संतुष्टा नोपावर्तितुमर्हथ । यदि प्राणैरिहार्थो वै निवर्तध्वं निशाचराः ॥ १० ॥ तस्य तद्वचनं श्रुत्वा राक्षसास्ते चतुर्दश ।। ऊचुर्वच सुसंक्रुद्धा ब्रह्मन्नाः शूलपाणयः ॥ ११ ॥ संरक्तनयना घोरा रामं संरक्तलोचनम् ॥ पैरुषं मधुराभार्ष हँष्टा दृष्टपराक्रमम् ।। १२ ।। क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः । त्वमेव हास्यसे ऑणानद्यास्माभिर्हतो युधि ।। १३ ।। का हि ते शक्तिरेकस्य बहूनां रणमूर्धनि । अस्माकमग्रतः स्थातुं किं पुनर्योदुमाहवें ॥ १४ ॥ एँहि बैंॉहुप्रयुतैर्नः परिवैः शूलंपट्टिशैः ॥ प्राणांस्त्यक्ष्यसि वीर्य च धनुश्च करपीडितम् ॥ १५ ॥ इत्यवमुक्त्वा सैकुंद्धा राक्षसास्त चतुर्दश ।। [ उँद्यतायुधनित्रिंशा रौममेवाभिदुद्रुवुः ।।] चिक्षिपुस्तानि शूलानि राघवं प्रति दुर्जयम् ॥ १६ ॥ यावत् । अस्याः पदवीमागतानेित्यन्वयः । ४ ॥ | ॥ ९ । अत्रैव संतुष्टाः अभीता इति यावत् । तिष्ठत प्रत्यपूजयत् परिपालितवान् ॥ ५ । चामीकरं स्वर्ण | नोपावर्तितुमर्हथेति मा पलायध्वमित्यर्थः । यदि वा ॥ ६।। खस्यं कपटवेषत्वं परिहरन्नाह-पुत्रावित्यादि । |प्राणैः अर्थः प्रयोजनं प्राणापेक्षास्ति चेन्निवर्तध्वमित्यर्थः आवां किमर्थमुपहिंसथ ॥७-८॥ प्रत्युत युष्मानेवाहं | ॥ १० ॥ ब्रह्मन्नाः ब्राह्मणन्नाः ॥११-१३॥ शक्तिः हन्तुमागत इत्याह-युष्मानिति । विप्रकारान् हिंस- | बलं । * शक्तिर्बले प्रभावादौ ? इतिविश्वः ।। १४ । कान् । भवतां प्रथमप्रवृत्तिमाकाङ्कन्स्थितोस्मीत्यर्थः | परिधैः गदाभेदैः । पट्टिशैः असिभेदैः ॥१५॥ तानि ति० अनपकारिणामस्माकंहिंसार्थया युष्मत्प्रवृत्या युष्मद्वधार्थमस्मदपेक्षितनिमित्तं संपन्नमित्याह-युष्मानिति । विप्र कारात् भवत्कृतपीडारूपान्निमित्ताज्जातनियोगेन युष्मान्हन्तुं सशरासनोऽहं संप्राप्तः संप्राप्तनिमित्तः । यद्वा विप्रकारानित्यर्श आद्यजन्तं । अस्माखस्मदीयेषुच वृथावैरवतोयुष्मानित्यर्थः ॥ ९ ॥ ती० हेसंदुष्टाः अतिदुष्टाः ॥ १० ॥ शि० संरक्तनयाः रामवचनश्रवणजनितकोपहेतुकारुण्यविशिष्टनेत्रवन्तः । संरक्तलोचनं खाभाविकारुण्यविशिष्टनयनविशिष्टं ॥ ति० अदृष्टपराक्र ममितिच्छेदः संधिरार्षः ॥ १२ ॥ ती० कोधमुत्पाद्येत्यादिश्लोकत्रयस्यप्रातीतिकार्थस्पष्टः । वस्तुतस्तु सुमहात्मनः सुमहानाः त्माशरीरंयस्यसः भर्तृराज्ञःखरस्य क्रोधमुत्पाद्य । तत्प्रेरितैरस्माभिरतितुच्छै:हतः ताडितोपिलवं प्राणान्नोहास्यस्येव । अत्रहेतु काहीति । रणमूर्धन्येकस्यतेऽग्रतः स्थातुंबहूनामप्यस्माकंकाशक्तिः शक्तिर्नास्ति तदा किंपुनर्योदुमितियोजना । अतएव खरनिर्बन्धेनागतानामस्माकमित्यत्राप्याकृष्यते । परिघादिभिरुपलक्षितानामस्माकंप्राणान् । वीर्यमित्यादिजाल्येकवचनं । वीर्या दिकंच त्यक्ष्यसि । गर्भितणिच् । त्याजयिष्यसि । नसंदेहः । अतएवहीतिसंबन्धः । इतःपरावृत्यगतानामस्माकंखरहस्तवधाद्वरं खद्धस्तेनवधइतिभाव १३- १५ [पा०] १ ख. ग. ज. मेततुतच्छुखा. २ घ. ड. झ . राघवस्यप्रपूजयन्. ३ ब्रह्मचारिणौ. ४ च. ज. अ. पापात्मनो हन्तुं. ५ क. घ. च. छ. ज. अ. न्महावने. ६ ड.-ट. संप्राप्तः. ७ ड. झ. ट. सशरासनः• ८ च. संदुष्टाः. ९ क• ड - ज. अ. ट. नोपसर्पितुं. ख. ग. घ. नोपासर्पितुं. १० ख. ग. च.-आ. वो. ११ ख. र्वचः. ग. र्वचनसंकुद्धाः . १२ क. ग. च. छ. ज. अ. रक्तान्तलोचनं. १३ क. ख. ड.-ट. पुरुषः. १४ ख. दृष्टाधृष्ट. १५ क. प्राणानिहास्माभिः. ड. झ. प्राणान्सद्यो स्माभिः. च. छ. ज. अ. प्राणात्रामास्माभिः. १६ क. ख. घ. ड. च. ज.-ट. एभिः. १७ छ. ल. बाहुविनिर्मुक्तैः. च. ज बाहुविमुतैर्नः. ड. झ. बाहुप्रत्युतैश्चक.-घ. पट्टसैः. . ख. बाहुप्रत्युत्तस्तु. १०८ १९ क. ड. च. छ. झ. अ. ट. संरब्धाः ज. संरुद्धाः. २० क. ख. ड.-ट. पाठेष्विदमर्धदृश्यते. २१ ख. तावुभावभिदुद्रुवुः