पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ अनागतविधानं तु कर्तव्यं शुभमिच्छता । आपदं शङ्कमानेन पुरुषेण विपश्चिता ।। ११ ।। तसादृहीत्वा वैदेहीं शरपाणिर्धनुर्धरः । गुहामाश्रय शैलस्य दुर्गा पादपसंकुलाम् ॥ १२ ॥ प्रतिकूलितुमिच्छामि न हि वाक्यमिदं त्वया ॥ शापितो मम पादाभ्यां गम्यतां वैत्स मा चिरम्॥१३ त्वं हि शूरश्च बलवान्हन्या खेतान्न संशयः ॥ खेयं तु हन्तुमिच्छामि सर्वानेव निशाचरान् ॥१४॥ एवमुक्तस्तु रामेण लक्ष्मणः सह सीतया । शरानादाय चापं च गुहां दुर्गा समाश्रयत् ।। १५ ।। तस्मिन्प्रविष्टे तु गुहां लक्ष्मणे सह सीतया । हन्त निर्युक्तमित्युक्त्वा रामः कवचर्माविशत् ॥१६॥ स तेनाग्रिनिकाशेन कवचेन विभूषितः । बभूव रामस्तिमिरे विधूमोन्निरिवोत्थितः ॥ १७ ॥ स चापमुद्यम्य महच्छरानादाय वीर्यवान् । बभूवावस्थितस्तत्र ज्यास्वनैः पूरयन्दिशः ।। १८ ।। ततो देवाः सगन्धर्वाः सिद्धाश्च संह चारणे: ।। संमेयुश्च महात्मानो युद्धदर्शनकड़िणः ॥ १९ ॥ ऋषयश्च महात्मानो लोके ब्रह्मर्षिसत्तमाः ।। समेत्य चोचुः संहिता अन्योन्यं पुण्यकर्मणः ।। २० ।। स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकानां *येऽभिसङ्गताः॥ जयतांराघवो युद्धे पौलस्त्यात्रजनीचरान् ॥२१॥ चंक्रहस्तो यथा युद्धे सर्वानसुरपुङ्गवान् ॥ [एतचान्यच बहवो बुवाणाः परमर्षयः ॥ ] एवमुक्त्वा पुनः प्रोचुरालोक्य च परस्परम् ।। २२ ।। नामिति ॥९-१०॥ आपदं निमित्तवशाच्छङ्कमानेन | हन्तेति हर्षे । निर्युक्तं निश्चयेन उपायश्चिन्तित इत्यर्थः। शुभं आपत्परिहारं । इच्छता विपश्चिता दूरदर्शिना |“योगः सन्नहनोपायध्यानसंगतियुक्तिषु ? इत्यमरः । पुरुषेण अनागतविधानं अनागतस्य भाविनोऽनर्थस्य | आविशत् प्राविशत् अधारयदित्यर्थः ।। १६ । अत्रो विधानं प्रतिविधानं कर्तव्यं ॥११॥ गृहीत्वा रक्ष्यत्वेन |पमालंकारेण क्षणेन रक्षःक्षयो ध्वन्यते ॥१७-१८॥ गृहीत्वा । पादपसंकुलां वृक्षावृतां ।। १२ । अहमेव | ततो दुवा इत्यादि । पूर्वसर्गे समागमनमुत्तं अत्र योत्स्यामीति वक्तुमुद्यतं प्रत्याह-प्रतिकूलितुमिति । | सन्निधानं । चारणाः देवजातिविशेषाः ।।१९।। लोके इदं वाक्यं प्रतिकूलितुं नेच्छामि । मयाशापितोसीति | त्रैलोक्ये । ब्रह्मर्षिसत्तमाः भृग्वाद्यः । पुण्यकर्मण वक्तव्ये मम पादाभ्यामित्युक्तिर्लक्ष्मणव्यवहारानुसा- | पुण्यकर्माणः॥२०॥ लोकानांयेभिसंगता इति ये लोका रेण ॥ १३ ॥ त्वन्निवर्तनं न त्वदशक्तया किंतु मुनि- | नामभिसंगता। Iः अनुकूलाः । तभ्यापस्वस्त्यास्त्वत्य भय: प्रतिज्ञानान्मयैव तद्वधः कर्तव्य इत्याशयेनाह– |देवाद्यः समेत्य स्वस्तीत्यायूचुः । तएवैवमुक्त्वा कथं त्वं हीति ॥ १४ ॥ दुर्गा अन्यैर्तुरासदां ।। १५ ॥ | युद्धं भविष्यतीत्यन्तं पुनः प्रोचुरिति संबन्धः ॥२१ ॥ ति० प्रतिकूलितुं विपरीतंकतुं नेच्छामि । भिन्नकर्तृके तुमुनार्षः । ती० प्रतिकूलितमितिपाठे त्वयाप्रतिकूलितं त्वत्कर्तृकप्रा तिकूल्यवद्वाक्यंनेच्छामीत्यर्थः । स० इदंवाक्यंत्वयाप्रतिकूलितुंनेच्छामीतिभिन्नकर्तृकत्वेपिभोक्तुमनुजानामीत्यादिवतुमुन्संभवति । यद्वा इदंखयेत्येकंपदं अयंचासौखंचइदंत्वंतेन प्रतिकूलितुं । भवान्युवल्यासहगच्छतीतिशङ्कामारोपयितुंवाक्यंनेच्छामीतिपादाभ्यांश पितोसि । अतश्चिरंमामाकुरु । यद्वा इदं वाक्यं चिरमुत्तरं प्रत्युत्तररूपं मामाकार्षीः ॥१३॥ ती० निर्युक्त अस्मदुक्तं लक्ष्मणेन िनर्युक्तं नितरांयुक्तंकृतमित्युक्त्वा रामः कवचमाविशत् धृतवानित्यर्थः । स० निर्युक्त अतिशोभनं । इत्युक्त्वा । यथोक्तंकर्मनिर्णयटीकायां युक्तशब्दश्शोभनपर्याय । यथाहभिक्षुः” इति । तट्टिप्पण्यांच यथाहभिक्षुः “बालक्रीडावासुदेवस्ययुक्ता” इतीति ॥१६॥ ती० येलोकानामभिसंगताः हविर्मुखेनानुकूलाभवन्तीत्यर्थः । तदुक्तं आदित्याज्जायतेवृष्टि “ अम्रौप्रास्ताहुतिस्सम्यगादित्यमुपतिष्ठते । पा० ] १ ख. घ. जयमिच्छता. २ झ. आपदा. ३ ख. च. छ. ज. अ. तत्र. ४ ख. बलवानेतांहन्तुंन. ५ क. ग ड. च. छ. झ. अ. ट. खयंनिहन्तुं. ख. अहंतुहन्तुं. ६ ख. निर्यामिचेत्युक्त्वा . ७ घ. मादधत्. ८ क. ग. ड. ट. महानन्निः ९ ग. च्छरमादाय. १० ड. झ. ट. संबभूवास्थितः. ११ ख. च. छ. ज. अ. परमर्षय १२ ख. समेताश्च. च. छ. ज. ज समेयुश्चारणैस्तत्र. १३ क. ड.-ट. काङ्कया. १४ क. ग. ड.-ट, सहितास्तेऽन्योन्यं. १५ क. ग च. झ. ट. ब्राह्मणानांच. ख. ब्राह्मणेभ्यश्च. १६ ड. झ. ट. चेतिसंस्थिताः. घ. च. छ. ज. येहिसंगताः. क. ख. ग. चेतिसंगताः. १७ क सत्तमानू. १८ इदमधे क, च. छ, ज. पाठेषुदृश्यते