पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८६ श्रीमद्वाल्मीकिरामायणम् । दुष्प्रेक्षः सोभवत्कुद्धो युगान्तान्निरिव ज्वलन् ॥ तं दृष्ट्रा तेजसाऽऽविष्टं प्राद्रवन्वनदेवताः ॥ ३४॥ तस्य कुंद्धस्य रूपं तु रामस्य दैदृशे तदा ।। दक्षखेव क्रतुं हन्तुमुद्यतस्य पिनाकिनः ।। ३५ ॥ आविटं तेजसा रामं संग्रामशिरसि स्थितम् ।। दृष्टा सर्वाणि भूतानि भयार्तानि प्रदुद्रुवुः ॥ ३६ ॥ तत्कार्मुकैराभरणैध्र्वजैश्च तैर्वर्मर्भिश्चाग्रिसमानवणैः ।। बभूव सैन्यं पिशिताशनानां सूर्योदये नीलमिवाभ्रवृन्दम् ॥ ३७ । । इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे चतुर्विशः सर्गः ॥ २४ ॥ पञ्चविंशः सर्गः ॥ २५ ॥ रामस्यखरसैन्येनसहसंकुलयुद्धम् ॥ अवष्टब्धधर्नु रामं कुंद्धं च रिपुघातिनम् ॥ ददशश्रममागम्य खरः सह पुंरःसरैः ॥ १ ॥ तं दृष्टा संशरं चापमुद्यम्य खैरनिःस्वनम् ।। रामस्याभिमुखं सूतं चोद्यतामित्यचोदयत् ।। २ ।। स खरस्याज्ञया सूतस्तुरगान्समचोदयत् । यत्र रामो महाबाहुरेको धून्वन्स्थितो धनुः ॥ ३ ॥ तं तु निष्पतितं दृष्टा सर्वे ते रजनीचराः । नदमाना महानादं सचिवाः पर्यवारयन् ।। ४ ।। स तेषां यातुधानानां मध्ये रथगतः खरः ॥ बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः ॥ ५ ॥ ततः शरसहस्रण राममप्रतिमौजसम् ॥ अर्देयित्वा महानादं ननाद समरे खरः ।। ६ ।। ततस्तं भीमधन्वानं कुद्धाः सर्वे निशाचराः ।। रामं नानाविधैः शत्रैरभ्यवर्षन्त दुर्जयम् ॥ ७ ॥ मुरैः पट्टिशैः शूलैः सैः खडैः परश्वधैः ।। राक्षसाः समरे रामं निजघू रोषतत्पराः ॥ ८ ॥ ते वलाहकसंकाशा मेहानादा महौजसः । अभ्यधावन्त काकुत्स्थं १थैर्वाजिभिरेव च ।। गैजैः पर्वतटाभै रामं युद्धे जिघांसवः ।। ९ ।। वितत्य सर्वरक्षसां वधार्थ क्रोधमाहारयदित्यन्वयः | मस्जिभ्यउ:? इत्यौणादिकसूत्रेण उप्रत्ययः । “धनुषां ॥ ३३-३४ । दक्षस्येति क्रोधातिशयमात्रे दृष्टान्तः |च धतुं विदुः धनुरिवाजनिवक्रः” इति कविकाव्यप्रयो ॥३५-३६ ॥ कवचसूर्यकिरणयोः साम्यं । नीलाभ्रा-|गश्च ।। १ । चोद्यतामिति रथ इतिशेषः ॥२-३॥ णां रक्षसां च कार्मुकवत्वं ध्वजवत्वं च तुल्यं मेघे | निष्पतितं युद्धोन्मुखं । सचिवाः श्येनगाम्यादयः ॥४॥ उत्पातध्वजसंभवात् । अत्र सार्धसप्तत्रिंशच्छोकाः | लोहिताङ्गः अङ्गारकः ॥ ५॥ अर्दयित्वा पीडयित्वा । ॥३७॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण महानादं नन्नाद् चकारेत्यर्थः ।। ६ । भीमधन्वानं भूषणे रत्रमेखलाख्याने आरण्यकाण्डव्याख्याने च धनुषश्च' इत्यनङ्समासान्तः । शस्र: आयुधैः । तुर्विशः सर्गः ॥ २४ ॥ शस्रमायुधलोहयोः ?' इत्यमरः ।। ७ । मुरै:स्थू- तुमुलयुद्धं पञ्चविंशे। धन्यत इति धनुः । धन धान्य | लगदाभिः । प्रासैः कुन्तैः। रोषतत्पराः क्रोधपरवशाः इत्यस्माद्धातोः “ भृमृशीङ्तृचरितत्सरितनिधनिमी- ! ।। वलाहकसंकाशाः मेघतुल्याः । कूटं शृङ्गं । | ८ [पा०] ३ ख. ददृशुस्तदा. ४ च. छ. ज. ज हन्तुंकुद्धस्येव. ५ ख. ग. घ. प्रविष्टं. ६ ख. ड. झ. ट. तद्वर्मभिः. ७ ग. ड. झ. अ. ट. जालं. ८ ड. झ• अ. ट. कुद्धंतं ९ क. ग. पुरस्सर १० ख. ग. ड. च. छ. झ. अ. ट. सगुणं. ११ क. च. छ. ज. अ. खरनिस्खनः. १२ ख. चोदयामा सराक्षसं. १३ .-ट. धुन्वन्धनुस्थितः. १४ ड. झ. ट. सर्वतो. घ. सर्वेपि. १५ डः -ट. मुञ्चमानाः. १६ क. सचापाः १७ क. चव. ज. अ. ट. इवोत्थितः. ड. झ. इवोद्धत . १८ क. ख. ग. ड.-ट, मुद्ररैरायसैः, १९ ख. खङ्गःप्रासैः २० ङ,-ट, महाकायामहाबलाः, २१ ख, गजैर्वाजिभिः. २२ ख, रथैः, २३ क. संकाशै | [ आरण्यकाण्डम् ३ {{