पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २५ ] श्रीमद्वोविन्दराजीयव्याख्यासमलंकृतम् । ८७ ते रामे शरवर्षाणि व्यसृजत्रक्षसां गणाः । शैलेन्द्रमिव धाराभिर्वर्षमाणा वैलाहकाः ॥ १० ॥ सं तैः परिवृतो घोरै राघवो रक्षसां गणैः ॥ तिथिष्वेिव महादेवो वृतः पारिषदां गणैः ॥ ११ ॥ । तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः । प्रतिजग्राह विशिखैर्नद्योघानिव सागरः ॥१२॥ स तैः प्रहरणैधेरैर्भिन्नगात्रो न विव्यथे । रामः प्रदीतैर्बहुभिर्वत्रैरिव महाचलः ।। १३ ।। स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः । बभूव रामः सन्ध्याभैर्दिवाकर इवावृतः ॥ १४ ॥ विषेदुर्देवगन्धर्वाः सिद्धाश्च परमर्षयः । एकं सहस्रर्बहुभिस्तदा दृष्टा समावृतम् ॥ १५ ॥ ततो रौमः सुसंक्रुद्धो मण्डलीकृतकार्मुकः । ससर्ज *विशिखान्बाणाञ्शतशोथ सहस्रशः ।। १६ ।। दुरावारान्दुर्विषहान्कालदण्डोपमान्नणे । मुमोच लीलया रामः कङ्कपत्रानजिह्मगान् ।। १७ ।। ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया । आद्दू रक्षसां प्राणान्पाशाः कालकृता इव ॥१८॥ र्भित्वा राक्षसदेहांस्तांस्ते शरा रुधिराप्ताः । अन्तरिक्षगता रेजुदर्दीप्ताग्सिमतेजसः ॥ १९ ॥ औसंख्येयास्तु रामस्य सायकाश्चापमण्डलात् । विनिष्पेतुरतीवोग्रा रक्ष:प्राणापहारिणः ॥ २० ॥ तैर्धनंषि ध्वजाग्राणि वैर्माणि च शिरांसि च । बाहून्सहस्ताभरणानूरून्करिकरोपमान् । चिच्छेद रामः समरे शतशोथ सहस्रशः ।। २१ ।। हयान्काञ्चनसन्नाहात्रथयुक्तान्ससारथीन् । गजांश्च संगजारोहान्सहयान्सादिनस्तथा ।। [*चिच्छिदुबिभिदुश्चैव रामबाणा गुणच्युताः ] ॥ २२ ॥ अभ्यधावन्त आभिमुख्येनाधावन्त ॥ ९ । शेलैन्द्र- | कालदण्डोपमान् यमदण्डतुल्यान् । अजिह्मगान् मिवेत्युपमानेन रामस्य निदुःखत्वमुक्तं ।। १०-११॥ | अवक्रगामिनः । अस्खलितलक्ष्यकानित्यर्थः । कङ्कप विशिखैः बाणैः । प्रतिजग्राह प्रतिरुरोध । नद्योधान् |त्रान् बाणान् । * कङ्कपत्रशरमार्गेणबाणाः इति नदीप्रवाहान् ॥ १२ । वत्रै: अशनिभिः ।। १३ ।। हलायुधः ।। १७ । प्राणानाद्दुः अमारयन्नित्यर्थः । क्षतजादिग्धः रुधिरालिप्तः ।। १४ । बहुभिः सहस्र । चतुर्दशसहस्र मण्डलीकृतकार्मुक कालकृता: यममुक्ता इत्यर्थः ।। १८ । रुांधेरापुता आकर्णाकर्षणेन मण्डलाकारीकृतधनुः । विशिखान् इति विशेषणं दीप्ताश्युपमासिद्धयथै । ।१९ । साय बाणान् अर्धचन्द्राग्रबाणान् । प्रथमं शतशः अनन्तरं | काः बाणाः ।। २० । । तैरित्याद्यर्धत्रयमेकं वाक्यं सहस्रशः स निर्बिभेदेति योजना ।। १६ । द्वरा-|वर्माणि कवचानि ।। २१ । काञ्चनसन्नाहान् काश्च वारान् वारयितुमशक्यान् । दुर्विषहान् दुःसहान् । [ नाभरणान् । रथयुक्तान् रथबद्धान् । सगजारोहान् ति० तिथिषु प्रदोषतिथिषु । पारिषदां नुडभाव आर्षः ॥ ११ ॥ ती० वत्रैरिवमहाचलइतिव्यतिरेकदृष्टान्तः । वत्रैः वज्रनि पातैः । अनयोपमया श्रीरामस्यनकदाचिदपितत्कृतव्यथेतिसूच्यते । शि० भिन्नगात्रः भिन्नप्राकृतविलक्षणं गात्रंशरीरंयस्यस ॥ १३ ॥ क्षतजादिग्धः खीकृतकोपाभासहेतुकारुण्यविशिष्टखेन रुधिरलिप्तइव ॥ १४ ॥ ती० विशिखान्बाणान् बाणसंज्ञाञ्श रान् । “ बाणास्तुगतपत्रिण: इतिवैजयन्ती ॥ १६ ॥ ति० लीलयेति । युगपत्सकलप्रपञ्चसंहारखरूपस्यैतावन्मात्रंलीलैवेति नाश्चर्यायेतिभावः ॥ १८ ॥ ति० चापमण्डलात् सन्धानमोचनशैघ्रयान्मण्डलाकारताच्चापस्य ॥ २० ॥ ति० छेदभेदौ द्वैधीभा [पा०] १ क. ख. ग. ड. च. छ. झ. अ. ट. महाघनाः. २ ड.-ट. सर्वे:परीवृतोरामोराक्षसैःकूरदर्शनैः. ३ इदमधे ड, झ. अ. ट. पाठेषुदृश्यते. एतदर्धस्यप्रतिनिधितया. घोररूपैर्महादेवोवृतःपारिषदांगणैः. इत्यर्ध च. छ. ज. पाठेषु दृश्यते ६ घ. समागतं . ७ ङ. झ. ट. रामसुतु. ८ क. ड ट. निशितान्. ख विविधान्, ९ ड. झ. ट. कालपाशोपमान. १० ड. झ. लीलयाकङ्कपत्रान्काञ्चनभूषणानू. ११ ख. हवा. १२ घ. असङ्खये याश्ध. १३ ड ट. चर्माणिकवचानिच. १४ घ. बिभेद. १५ ख. नजसंरोहान्. १६ ङ.-ट. स्तदा. १७ इदमधं हु. पुस्तकेषुदृश्यते. चिच्छिदुर्बिभिदुचैव. पदातीन्समरे. इत्यनयोरर्धयो:पौर्वापर्य. च. छ. ज. अ. पुस्तकेषुदृश्यते