पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/११३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । शिशुरेप त्वदोपज्ञ इति मत्वा दिनेश्वरः ॥ कार्य चात्र समायत्तमित्येवं न ददाहं सः ॥ ३० ॥ यमेव दिवस ह्येप ग्रहीतुं भास्करं पुतः || तमेव दिवसं राहुर्जिघृक्षति दिवाकरम् ॥ ३१ ॥ अनेन स परामृष्टो राम सूर्यरथोपरि || अपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः ॥ ३२ ॥ स इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः ॥ अत्रवीद्भृकुटिं कृत्वा देवं देवगणैर्वृतम् ॥ ३३ ॥ बुभुक्षापनयं दत्त्वा चन्द्राक मम वासव | किमिदं तत्त्वया दत्तमन्यस्य वलवृत्रहन् ॥ ३४ ॥ अद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः ॥ अथान्यो राहुरासाद्य जग्राह सहसा रविम् ॥ ३५ ॥ स राहोर्वचनं श्रुत्वा वासवः संभ्रमान्वितः || उत्पपातासनं हित्वा चोदूहन्काञ्चनीं सृजम् ||३६ || ततः कैलासकूटाभं चतुर्दन्तं मदस्रवम् || शृङ्गारधारिणं प्रांशुं स्वर्णघण्टाहासनम् || ३७ ॥ इन्द्रः करीन्द्रमारुह्य राहुं कृत्वा पुरस्सरम् || प्रायाद्यवाभवत्सूर्य: सहानेन हनूमता ॥ ३८ ॥ अथातिरभसेनागाद्वाहुरुत्सृज्य वासवम् || अनेन च स वै दृष्टः प्रधावञ्शैलकूटवत् ॥ ३९ ॥ ततः सूर्य समुत्सृज्य राहुं फलमवेक्ष्य च ॥ उत्पपात पुनर्व्योम ग्रहीतुं सिंहिकासुतम् ॥ ४० ॥ उत्सृज्यार्कमिमं राम प्रधावन्तं प्लवङ्गमम् || अवेक्ष्यैवं परावृत्य मुखशेषः पराङ्मुखः ॥ ४१ ॥ इन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः || इन्द्र इन्द्रेति संत्रासामुहुर्मुहुरभाषत |॥ ४२ ॥ राहोर्विक्रोशमानस्य मागेवालक्षितं स्वरम् || श्रुत्वेन्द्रोवाच मा भैषीरहमेनं निषूदये ॥ ४३ ।। ऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपि ॥ फलं मत्वा हस्तिराजमभिदुद्राव मारुतिः ॥ ४४ ॥ तथास्य धावतो रूपमैरावतजिघृक्षया || मुहूर्तमभवोरमिन्द्राम्योरिव भास्वरम् ॥ ४५ ॥ एवमाधावमानं तु नातिक्रुद्धः शचीपतिः ॥ हस्तान्तादतिमुक्तेन कुलिशेनाभ्यताडयत् ॥ ४६ ॥ ततो गिरौ पपातैप इन्द्रवज्राभिताडितः ॥ पतमानस्य चैतस्य वामो हनुरभज्यत ॥ ४७ ॥ तसंस्तु पतित वाले वज्रताडनविह्वले || चुक्रोधेन्द्राय पवनः प्रजानामहिताय सः ॥ ४८ ॥ प्रचारं स तु संगृह्ण प्रजास्वन्तर्गतः प्रभुः ॥ गुहां प्रविष्टः स्वसुतं शिशुमादाय मारुतः ॥ ४९ ॥ विप्सूत्राशयमावृत्य प्रजानां परमार्तिकृत् || रुरोध सर्वभूतानि यथा वर्षाणि वासवः ॥ ५० ॥ शिशुः स्कन्दः ॥ २२ – २९ ॥ दोषज्ञः विद्वान् | स्वरूपकथनं ॥ ४१ – ४५ ॥ हस्तान्तात् हस्ताप्रात् । सन भवतीत्यदोषज्ञः । “ दोषज्ञौ वैद्यविद्वांसौ” हस्तान्त इति समीप इत्यर्थः ॥ ४६-४८ ॥ प्रचारं इत्यमरः ॥ ३०–३१ ॥ स राहुः । परामृष्टः स्वीयं देहियात्राहेतुभूतं । गृह्य संक्षिप्य । अन्तर्गतः स्पृष्टः ॥ ३२–३९ ॥ तत इति महाशैलकूटवत् सर्वदेहान्तर्गतः ॥ ४९ ॥ रुरोधेति । निरुद्धस्वगति- बृहत्तरफलमवेक्ष्येत्यर्थः ॥ ४० ॥ मुखशेष इति राहु- | प्रचारमकरोत् । एवंविधार्थस्य देवानां शक्यत्वे दृष्टान्तः शेषः ॥ २८ ॥ स० अदोषज्ञः सूर्यसमीपगमनेमांदहेदितिदोषानभिज्ञः ॥ ३१ ॥ ति० सूर्यरथोपरि तदुपरितनप्रदेशे ॥ स० अनेन हनुमता । पुरा सूर्यदर्शनात्पूर्वमेव | दृष्टोऽभूत् पुनश्चराहुः त्रस्तस्सन्अपक्रान्तोभूत् ॥ ३२ ॥ ति० हेवासव चन्द्राक ममयथाकालं बुभुक्षापनयं बुभुक्षाअपनीयतेऽनेनेतिव्युत्पत्याऽन्नं दत्त्वा तदन्नं ॥ ३४ ॥ शृङ्गारधारिणं नानाशृङ्गारधारिणं । स्वर्ण घण्टाशब्दरूपागृहासवन्तं ॥ ३७॥ ति० अतिरभसेन अतिवेगात् । वासवादपिपूर्वमितिशेषः ॥ ३९ ॥ स० मुखशेषः " शिरस्तुतस्यग्रहतामवाप " इत्यादेर्मुखशेष इतिराहुखरूपसंकीर्तनं ॥ ४१ ॥ स० इन्द्रइन्द्रेतिनिस्संधि कविः कवयन्नवगमयति हनुमताऽसंधिंत्रासकारणमितिमन्तव्यं ॥ ४२ ॥ स० प्राक् पूर्व | आलक्षितंबहुवारंतेन सहसंकथनेनज्ञातं खरंश्रुत्वा दूरतःश्रुत्वा राहोराह्वानममेतिनिश्चिकाय ॥४३॥ ति० इदमपिमहत्फल मितिमत्वा ॥४४॥ स० नातिक्रुद्धः बालइत्यलक्ष्यतयाकोपाटोपाभावो- महेन्द्रस्येतिज्ञेयं । अतएवहस्तान्तात् हस्तामादित्युक्तिः ॥ ४६ ॥ ति० वामाहनुः हनुशब्दः स्त्रियां । “तत्पराहनुः" इतिकोशात् ॥ ४७ ॥ ति० प्रभुः सर्वजगत्प्रवृत्तिनिवृत्तिकर्ता ॥ ४९ ॥ स० विमूत्राशयं तदुभयाधारस्थानं । “आशयः पनसाधारयोरपि” [ पा० ] १ क-ट. फलन्तंहस्तिराजानमभि. २ ङ च छ. श. ट. मिन्द्रायुपरिभाखरं. ३ श. वामाहनुः●