पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

5 १२२ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ अथवा राक्षसेन्द्र त्वं यदि तं द्रष्टुमिच्छसि ॥ कथयिष्यामि ते सर्व श्रूयतां यदि रोचते ॥ १७ ॥ कृते युगे व्यतीते वै मुखे त्रेतायुगस्य तु || हितार्थ देवमर्त्यानां भविता नृपविग्रहः ॥ १८ ॥ इक्ष्वाकृणां च यो राजा भाग्यो दशरथो भुवि || तस्य सूनुर्महातेजा रामो नाम भविष्यति ॥१९॥ महातेजा महाबुद्धिर्महाबलपराक्रमः || महाबाहुर्महासत्त्वः क्षमया पृथिवीसमः ॥ २० ॥ आदित्य इव दुष्प्रेक्ष्यः समरे शत्रुभिः सदा ॥ भविता हि तदा रामो नरो नारायणः प्रभुः ॥ २१ ॥ पितुर्नियोगात्स विभ्रुर्दण्डके विविधे वने || विचरिष्यति धर्मात्मा सह आत्रा महात्मना ॥ २२ ॥ तस्य पत्नी महाभागा लक्ष्मीः सीतेति विश्रुता ॥ दुहिता जनकस्यैषा उत्थिता वसुधातलात् ॥ २३॥ रूपेणाप्रतिमा लोके सर्वलक्षणलक्षिता || छायेवानुगता रामं निशाकरमिव प्रभा ॥ २४ ॥ शीलाचारगुणोपेता साध्वी धैर्यसमन्विता || सहस्रांशो रश्मिरिव ह्येक मूर्तिरिव स्थिता ॥ २५ ॥ एवं ते सर्वमाख्यातं मया रावण विस्तरात् || महतो देवदेवस्य शाश्वतस्याव्ययस्य च ॥ २६ ॥ एवं श्रुत्वा महाबाहू राक्षसेन्द्र प्रतापवान् || त्वया सह विरोधेच्छुश्चिन्तयामास राघव ॥ २७ ॥ [ संनत्कुमारात्तद्वाक्यं श्रुत्वा राक्षसपुङ्गवः ॥ अनुज्ञातं रिपुं प्रायात्प्रणिपत्य महामुनिम् ॥ २८ ॥ ] वाक्यं सनत्कुमारस्य चिन्तयानो मुहुर्मुहुः ॥ रावणो मुमुदे श्रीमान्युद्धार्थी विचचार ह ॥ २९ ॥ श्रुत्वा च तां कथां रामो विस्मयोत्फुल्ललोचनः ॥ शिरसञ्चालनं कृत्वा तैमर्थ परिचिन्तयन् ||३०|| श्रुत्वा तु वाक्यं च नरेश्वरस्तदा मुदा युतो विस्मयमानचक्षुः ॥ पुनश्च तं ज्ञानवतां प्रधानमुवाच वाक्यं वद मे पुरातनम् ॥ ३१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे तृतीयः सर्गः ॥ ३ ॥ येषांतैः । ज्ञानं शास्त्रजन्यं । द्रष्टुं अपरोक्षीकर्ते ॥ १६ ॥ हेराक्षसेन्द्र तं श्रीनारायणं । यदिद्रष्टुमिच्छसि तर्हि तथापृच्छ तंद्रष्टुमि च्छामीतिमामापृच्छख । ‘ नापृष्टः कस्यचियात्' इति । ततश्चमद्वचनंतेतुभ्यंयदिरोचते तर्हि सर्वेकथयिष्यामिश्रूयतां ॥ १७ ॥ मुखे पूर्वभागे । हितार्थं तच्छत्रुहननद्वारातदभीष्टप्रापणार्थे । नृपविग्रहः नृपस्यराज्ञोविग्रहोदे होयस्यतादृशोसौभविता भविष्यति ॥ १८ ॥ तद्विशदयति – इक्ष्वाकुणामिति । तद्गोत्रापत्यानामित्यर्थः । मध्ये योदशरथइतिभाव्योराजातस्येल्यन्वयः ॥ १९ ॥ तेजः परपराभवशक्तिः ॥ २० ॥ सचमहातेजस्त्वादिगुणोरामनामानरो नसाधारण: । किंतु यःप्रभुर्नारायणः सएव तदाभवि• ताहि । नरोऽविनाशीतिनारायण विशेषणंवा ॥ २१ ॥ पितुर्दशरथस्यनियोगात् वनवासाज्ञायाः | दण्डकेतत्रापिविविधेवने । सहभ्रात्रा उपलक्षणमेतत् | सहसीतयेतिचग्राह्यं ॥ २२ ॥ ननुराजदाराणामन्तः पुरएववासस्योचितत्वात्कथंरामः सीतांनीतवान्व- नमिल्यतआह—तस्येति ॥ नारायणस्येत्यर्थः । सीतेतिविश्रुता रामत्वदशायां । अथवा रामस्येत्यर्थः । लक्ष्मी रितिविधेयं । एषा बुद्धिसंनिहिता | वसुधातलात् यज्ञभूमेः ॥ २३ ॥ ततः किं प्रकृताशङ्कासमाधान मितितत्राह – रूपेणेत्यादिना । यतश्छायेवानु- गताऽतएतदन्यनारीष्वेव तथा त्वमितिभावः । निशाकरंप्रभेवच । एकामूर्तिरिवेत्यनेनसीतायालक्ष्मीत्वेनचिच्छक्तिवाद्रामेणाभिन्नै - वसेतिकेषांचिदाशासनंनिरस्तं | इवेनभेदस्यैवोक्तेः । तदाचेत्तत्र गमिष्य सितद्दर्शनंतवभविष्यति । तदानींतस्माद्वधोपायंत्वमेवचि न्तयेतिभावः ॥ २४ ॥ देवदेवस्य सर्वेभविष्यं ते तुभ्यमाख्यातं ॥ २६ ॥ सनत्कुमारान्निस्सृत मितिशेषः । वाक्यंतदर्थे । मुमुदे श्रीहरिलोकप्रापकस्यतदवताररामान्मरणस्य स्खेन निश्चितत्वादितिभावः ॥ २९ ॥ विस्मयमानेतत्सूचकेचक्षुषीयस्यसः ॥ तमगस्त्यं । पुराणं पुरातनंवृत्तान्तंवत्युवाच ॥ ३१ ॥ इतिप्रक्षिप्तेषुतृतीयः सर्गः ॥ ३ ॥ [ पा० ] १ अयंश्लोकः क. पाठेदृश्यते. २ ङ. च. छ. झ ञ विस्मयंपरमंगतः