पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३७ । प्र० ५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । प्रक्षिप्तेषु चतुर्थः सर्गः ॥ ४॥ अगस्त्येनरामंप्रति तत्करान्मरणेच्छयारावणेनसीताहरणकरणोक्तिः ॥ १ ॥ ततः पुनर्महातेजाः कुम्भयोनिर्महायशाः ॥ उवाच रामं प्रणतं पितामह इवेश्वरम् ॥ १ ॥ श्रूयतामिति चामत्र्य रामं सत्यपराक्रमम् || कथाशेषं महातेजाः कथयामास स प्रभुः ॥ २ ॥ यथाख्यानं श्रुतं चैव यथावृत्तं च तत्तथा ॥ प्रीतात्मा कथयामास राघवाय महामतिः ॥ ३ ॥ एतदर्थ महाबाहो रावणेन दुरात्मना || सुता जनकराजस्य हृता राम महामते ॥ ४ ॥ एतां कथां महाबाहो नारदः सुमहायशाः ॥ कथयामास मह्यं वै मेरौ गिरिवरोत्तमे ॥ ५ ॥ देवगन्धर्वसिद्धानामृषीणां च महात्मनाम् || कथाशेषं पुनः सोथ कथयामास राघव ॥ नारदः सुमहातेजा: ग्रहसन्निव मानद ॥ ६ ॥ तां कथां शृणु राजेन्द्र महापापप्रणाशिनीम् || यां तु श्रुत्वा महाबाहो ऋपयो दैवतैः सह ॥ चुस्तं नारदं सर्वे हर्षपर्याकुलेक्षणाः ॥ ७ ॥ यचेमां श्रावयेन्नित्यं शृणुयाद्वापि भक्तितः ॥ स पुत्रपौत्रवात्राम स्वर्गलोके महीयते ॥ ८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे चतुर्थः सर्गः ॥ ४ ॥ प्रक्षिप्तेषु पञ्चमः सर्गः ॥ ५ ॥ अगस्त्येनश्रीरामंप्रति रावणस्यश्वेतद्वीपग मनवृत्तान्तादिनिरूपणपूर्वकं तदभ्यनुज्ञया स्वाश्रमंप्रतिगमनम् ॥ १ ॥ ततः स राँवणो राम पर्यटन्पृथिवीतलम् || विजयार्थी महाशूरै राक्षसैः परिवारितः ॥ १ ॥ दैत्यदानवरक्षस्सु यं शृणोति बलाधिकम् ॥ तमाह्वयति युद्धार्थी रावणो बलदर्पितः ॥ २ ॥ एवं स पर्यटन्सव पृथिवीं पृथिवीपते ॥ ब्रह्मलोकान्त्रि॑िवृत्तं तमाससादाथ नारदम् ॥ ३ ॥ व्रजन्तं मेघपृष्ठस्थमंशुमन्तमिवापरम् || "तं चाभिसृत्य प्रीतात्मा ह्यभिवाद्य कृताञ्जलिः ॥ उवाच हृष्टमनसा रावणो नारदं तथा ॥ ४ ॥ आब्रह्मभवनाल्लोकास्त्वया दृष्टा ह्यनेकशः ॥ अमिँल्लोके महाभाग मानवा बलवत्तराः || योद्धुमिच्छामि तैः सार्धं यथाकामं यथासुखम् ॥ ५ ॥ १२३ ईश्वरं रुद्रं ॥ १ ॥ इतिचोवा चेत्यत्रत्य चकारस्यकथयामासेत्यनेनान्वयः ॥ २ ॥ यथाख्यानं तच्चरितसूचकाख्यानमनतिक्रम्य | यथावृत्तं तत्काले कार्य यथाजातं तदनतिक्रम्यच यथा येनप्रकारेणश्रुतं स्वेनश्रवणकृतं । तथा तेनैवप्रकारेण कथयामासेत्यन्वयः ॥ ३ ॥ एतदर्थं रामात्स्वस्यमरणप्राय ॥ ४ ॥ एतांकथां रावणसनत्कुमारसंवादरूपां ॥ ५ ॥ देवादीनां शृण्वतामितिशेषः । सनारदः । कथाशेषं रावण दिग्विजयकथाशेषं । शेषस्यापिकथारूपत्वात्तांकथामितिपरामर्शः ॥ ६ ॥ सर्वपापप्रणाशिनीं श्वेत- द्वीपस्थश्रीहरिमाहात्म्यप्रतिपादकत्वादितिभावः ॥ यांकथां । हेराम नारदंप्रतिएवमूचुः ॥ ७ ॥ वचनप्रकारमेवाह-यइति । हेनारद यःपुमान् इमांकथांशृणुयात् श्रावयेद्वा । भक्तितइत्युभयत्रान्वयि | सपुमान्स्वर्गलोकेमहीयतेइत्यूचुरियन्वयः ॥ ८ ॥ इतिप्रक्षिप्तेषुचतुर्थः सर्गः ॥ ४ ॥ निवर्तन्तं निवर्तमानं ॥ ३ ॥ अभीसृत्य अभिसृत्य | अभियेतिक्कचिपाठः ॥ ४ ॥ यदृच्छया कलहकारणाभावेनापि । [ पा० ] १ ङ. च. छ. झ ञ. दुर्धर्षमेरौ २ठ. सर्वपापप्रणाशिनीं. ३ ङ राक्षसोनाम ४ झ. ठ निवर्तन्तमाससादाथ. ५ठ तमभीसृत्य.