पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ श्रीमद्वाल्मीकि रामायणम् । सर्वेषां देहहीनानां महद्दुःखं भविष्यति || लुप्यन्ते सर्वकार्याणि हीनदेहस्य वै प्रभो ॥ देहस्यान्यस्य सद्भावे प्रसादं कर्तुमर्हसि ॥ ८ ॥ [ उत्तरकाण्डम् ७ ॥ तमुवाच ततो ब्रह्मा स्वयंभूरमितप्रभः || मित्रावरुणजं तेजः प्रविश त्वं महायशः ॥ ९॥ अयोनिजस्त्वं भविता तत्रापि द्विजसत्तम ॥ धर्मेण महता युक्तः पुनरेष्यसि मे वशम् ॥ १० ॥ एवमुक्तस्तु देवेन चाभिवाद्य प्रदक्षिणम् || कृत्वा पितामहं तूर्णं प्रययौ वरुणालयम् ॥ ११ ॥ तमेव कालं मित्रोपि वरुणत्वमकारयत् || क्षीरोदेन सहोपेतः पूज्यमानः सुरोत्तमैः ॥ १२ ॥ एतस्मिन्नेव काले तु उर्वशी परमाप्सराः ॥ यदृच्छया समुद्रेशमाययौ सखिभिर्वृता ॥ १३ ॥ तां दृष्ट्वा रूपसंपन्नां क्रीडन्तीं वरुणालये || आविशत्परमो हर्षो वरुणं चोर्वशीकृते ॥ १४ ॥ स तां पद्मपलाशाक्षीं पूर्णचन्द्रनिभाननाम् || वरुणो वरयामास मैथुनायाप्सरोवराम् ॥ १५ ॥ प्रत्युवाच ततः सा तु वरुणं प्राञ्जलिः स्थिता || मित्रेणाहं वृता साक्षात्पूर्वमेव सुरेश्वर ॥ १६ ॥ वरुणस्त्वब्रवीद्वाक्यं कन्दर्पशरपीडितः ॥ इदं तेजः समुत्स्रक्ष्ये कुम्भेऽस्मिन्देवनिर्मिते ॥ १७ ॥ एवमुत्सृज्य सुश्रोणि त्वय्यहं वरवर्णिनि ॥ कृतकामो भविष्यामि यदि नेच्छसि संगमम् ॥ १८ ॥ तस्य तल्लोकपालस्य वरुणस्य सुभापितम् || उर्वशी परमप्रीता श्रुत्वा वाक्यमुवाच ह ॥ १९ ॥ काममेतद्भवत्वेवं हृदयं मे त्वयि स्थितम् || भाववाभ्यधिकस्तुभ्यं देहो मित्रस्य तु प्रभो ॥ २० ॥ रस्य कृते अन्यशरीरप्राप्त्यर्थमित्यर्थः ॥ ५ -७ | वरुणत्वमकारयत् । केनापि हेतुना उभावपि युगप सर्वकार्याणि ऐहिकामुष्मिकसकलप्रयोजनानि ||८|| दूरुणराज्यमकुर्वतामित्यर्थः । तथैवोत्तरत्र वक्ष्यति- तेजो रेतः ॥ ९ ॥ अयोनिज इति । तत्रापि मित्राव - मित्रावरुणत्वं प्रापेति ॥ १२ - १९ ॥ काममिति | रुणतेजःप्रवेशेपि अयोनिजत्वं | रेतोजन्यत्वेपि योना- मित्रत्वात्पूर्वस्थितवरुणाविरोधेन राज्यमकरोत् । वप्रवेशादितिभावः । मेवशं मद्धीनतां ॥१०-११॥ एतदेव मे भवतु | मे हृदयं चित्तं त्वयि स्थितमेव तमेव कालं तस्मिन्नेव काले । मित्रः सूर्यमूर्तिभेदः । भवतु | अभ्यधिको भावञ्च तुभ्यं तव च मयीति । स० ममहीनदेहस्य हीनोगतोदेहोयस्येति हीनोदेहेनेतिवासतस्य ॥ ८ ॥ ति० मित्रावरुणजं तद्विसृष्टं ॥ ९ ॥ ति० तत्रापि मित्रावरुणरेतःप्रवेशेपि । मेवशं मत्पुत्रत्वेनपूर्ववत्प्रजापतित्वमपिप्राप्स्यसीतिभावः । स० अयोनिजः अः नारायणः योनिः कारणं यस्यसोऽयोनिः । तस्मान्मत्जायतइतिसतथा । त्वत्पुत्रलंगत मितिचिन्तानकार्येतिसूच्यतेऽनेन । मेवशं मदवीनंप्राजापत्य- मप्येष्यसि | शि० वमाविश | तत्रआवेशेपि । त्वमयोनिजोभविता । अतएवधर्मेणयुक्तस्त्वं मेवशं मत्पुत्रत्वमित्यर्थः । पुनरेष्य- सि । किंचमेधर्मेणयुक्तस्त्वं वशं पूर्वशरीरकान्तिपुनरेष्यसि । यद्यप्युत्तरत्रकुंभेवरुणरेतस्सेक एववक्ष्यते । तथापि तदुत्तरत्रवरुणवी- र्यसेकात्पूर्वमुर्वश्याःसंनिधौमित्र वीर्य से कोपितस्मिन्नेव कुंभवक्ष्य तेइ तिवीर्ययोः संमिलितत्वादुभयोरप्युभयजत्व व्यवहारउपपद्यत इति दिक् ॥ १० ॥ ति० वरुणालयं समुद्रं ॥ ११ ॥ ति० तमेवकालं वसिष्ठागमनकाले । मित्रः पूषार्यमादिवत्सूर्यमण्डलस्थमूर्तिभेदः । सुरेश्वरैःपूज्यमानःसन् वरुणत्वं वरुणतादात्म्यं । अकारयत् भावयतिस्म । यद्वा मित्रोपिवरुणत्वं वरुणाधिकारमकरोदित्यर्थः । एवं चमित्रतादात्म्यापनेनवरुणेन विसृष्टत्वाद्वरुण रे तोविसर्गस्यापि पूर्वमित्रवृतोर्वशीनिमित्तत्वा च वरुणरेतोपिमित्रावरुणरेतोभवतीति मित्रावरुणजंतेजआ विवेशेत्यनेननविरोधः । स० वरुणत्वं तेनस हैकस्थानस्थितलं । अकारयत् तत्स्थलमाह- क्षीरोदेनेति । सहोपेतः युक्तः । तत्तादात्म्यमित्यादिनागोजिभट्टादिव्याख्यानंद्वन्द्वसमासप्रयुक्तानविवचनाद्यनुपपत्तेरनुपपनं ॥ १२ ॥ स० अप्सरेतिपाठेआकारान्तोऽयंशब्दः । अप्सराइतिपाठेतु महाभाष्ये एकवचनान्तप्रयोगादमरस्य 'स्त्रियांबहुष्वप्सरसः' इत्यस्या- पभ्रंशतासूचितेतिसाधुरप्सराइति मन्तव्यं । तमुद्देशंव सिष्टविशिष्टंदेशं | ति० एतस्मिन्नेवकाले वरुणात्मनामित्रावस्थानकाले ॥१३॥ ति० इदंतेजः तद्दर्शनक्षुभितवीर्यरूपं । देवनिर्भितेकुंभे पुत्रोत्पत्तिसमर्थतयाब्रह्मसृष्टे ॥ १७ ॥ ति० त्वयि त्वन्निमित्तमित्यर्थः । कृतकामः कृतकामभोगः ॥ १८ ॥ ति० काममधिकंमेहृदयंचित्तं | त्वयिस्थितं | तुभ्यंतवचभावोधिकंमयिस्थितः । अतएतदेवं भवतु कुंभेवीर्योत्संगोभवतु । हेप्रभो देहस्तुम म पूर्ववृतस्य मित्रस्यास्तु | भावेनभोगस्त्वयासह ममदेहेनभोगोमित्रेणास्त्वित्युक्तंभवति [ पा० ] १ झ ठ. तमुद्देशमायथौ. २ क. ङ. झ. ज. ट. तदाविशत्परोहर्षो.