पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८० श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ प्रतिज्ञाय तथा तेषां मुनीनामुग्रतेजसाम् || स भ्रातृन्त्सहितान्सर्वानुवाच रघुनन्दनः ॥ ७॥ को हन्ता लवणं वीरः कस्यांशः स विधीयताम् || भरतस्य महावाहोः शत्रुघ्नस्य च धीमतः ॥ ८ ॥ राघवेणैवमुक्तस्तु भरतो वाक्यमब्रवीत् || अहमेनं वधिष्यामि ममांशः स विधीयताम् ॥ ९ ॥ भरतस्य वचः श्रुत्वा धैर्यशौर्यसमन्वितम् ॥ लक्ष्मणावरजस्तस्थौ हित्वा सौवर्णमासनम् ॥ १० ॥ शत्रुघ्नस्त्वब्रवीद्वाक्यं प्रणिपत्य नराधिपम् || कृतकर्मा महाबाहुर्मध्यमो रघुनन्दनः ॥ ११ ॥ आर्येण हि पुरा शून्या त्वयोध्या परिपालिता || संतापं हृदये कृत्वा आर्यस्यागमनं प्रति ॥ १२ ॥ दुःखानि च बहूनीह ह्यनुभूतानि पार्थिव || शयानो दुःखशय्यासु नन्दिग्रामेऽवसत्पुरा ॥ १३ ॥ फलमूलाशनो भूत्वा जटी चीरधरस्तथा ॥ अनुभूयेदृशं दुःखमेष राघवनन्दनः || प्रेष्ये मयि स्थिते राजन्न भूयः लेशमानुयात् ॥ १४ ॥ तथा ब्रुवति शत्रुघ्ने राघवः पुनरब्रवीत् ॥ एवं भवतु काकुत्स्थ क्रियतां मम शासनम् ॥ १५ ॥ राज्ये त्वामभिषेक्ष्यामि मधोस्तु नगरे शुभे || निवेशय महाबाहो भरतं यद्यवेक्षसे ॥ १६ ॥ शूर॒स्त्वं कृतविद्यश्च समर्थश्च निवेशने ॥ १७ ॥ [ नगरं यमुनाजुष्टं तथा जनपदाञ्ञ्जुभान् ॥ ] यो हि शत्रुं समुत्पाव्य पार्थिवस्य पुनः क्षये ॥ न विधत्ते नृपं तत्र नरकं स हि गच्छति ॥ १८ ॥ स त्वं हत्वा मधुसुतं लवणं पापनिश्रयम् || राज्यं प्रशाधि धर्मेण वाक्यं मे यद्यवेक्षसे ॥ १९ ॥ उत्तरं च न वक्तव्यं शूर वाक्यान्तरे मम || बालेन पूर्वजस्याज्ञा कर्तव्या नात्र संशयः ॥ २० ॥ अभिषेकं च काकुत्स्थ प्रतीच्छस्व मयोद्यतम् || वसिष्ठप्रमुखैर्विमैर्विधिमन्त्र पुरस्कृतम् ॥ २१ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विषष्टितमः सर्गः ॥ ६२ ॥ निवेदयामासुः ॥२–७॥ कस्यांश इति पृष्ट्वा स्वयमेव | उत्पाटितवंशनृपराज्य इत्यर्थः॥१८-१९|| उत्तरं च निश्चिनोति भरतस्येति ॥८- ९|| आसनं हित्वा आस- न वक्तव्यमिति ॥ त्वत्समीप एव मया वस्तव्यमि नादुत्थायेत्यर्थः ।। १०–१५ ॥ निवेशय अत्रैव नगर | त्यादिकमित्यर्थः ॥ २० ॥ विधिना मन्त्रेण च पुरस्कृ- इति शेषः । अथवा तत्रैव तिष्ठेति भावः । अवेक्षसे तं ॥ २१ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामा- अक्लेशनीयत्वेनेति शेषः ॥ १६ ॥ निवेशने नूतनगृह- यणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने निर्माण इत्यर्थः ॥ १७ ॥ मधोस्तु नगरे त्वामभिषे द्विषष्टितमः सर्गः ॥ ६२ ।। क्ष्यामीत्यत्र हेतुमाह — यो हीति ॥ नृपं तत्रेति । 1 स० स्वस्यमुख्यत्वात्तन्मात्रवधव्यापारायोगात् लक्ष्मण स्येन्द्रजिदादिमारणोदार कीर्तित्वादायस्तत्वाच्चभ्रातृद्वन्द्वस्याप्रतिद्वन्द्वतांकाम- यानोनामनिर्देशेनपृच्छति - भरतस्येति । भरतस्यवांशः शत्रुघ्नस्यवेतिकस्यांशोभागोविधीयतामित्युवाच ॥ ८ ॥ स० कृतकर्मा कृतसेवः ॥ ११ ॥ स० दुःखशय्यासु दुःखजनक केवलस्थलादिशय्यासु ॥ १३ ॥ ति० प्रेष्ये विशिष्यभरतस्यनियोज्ये ॥ १४ ॥ स० यमुनाजुष्टं तत्तीरवर्ति ॥ १८ ॥ इतिद्विषष्टितमः सर्गः ॥ ६२ ॥ [ पा० ] १ क. च. ज. लयोध्यारक्षितापुरी २ च. झ.ट. नन्दिग्रामे महायशाः क. ग. घ. नन्दिग्रामे महामनाः ३ इद- मर्धेच. झ. न. ट. पाठेषुदृश्यते क-घ. ज. नगरंमधुनाजुष्टं ४ चट. योहिवंशंसमुत्पाद्य ख. घ. योहिवंशंसमुत्पाठ्य.