पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ शार्दूलरूपिणौ घोरौ मृगान्बहुसहस्रशः || भक्षमाणावसन्तुष्टौ पर्याप्तिं नैव जग्मतुः ॥ १२ ॥ स तु तौ राक्षसौ दृष्ट्वा निर्मृगं च वनं कृतम् || क्रोधेन महताsविष्टो जघानैकं महेषुणा ॥ १३ ॥ विनिपात्य तमेकं तु सौदासः पुरुषर्षभः || विज्वरो विगतामर्षो हतं रक्षो युदैक्षत ॥ १४ ॥ निरीक्षमाणं तं दृष्ट्वा सहायं तस्य रक्षसः ॥ सन्तापमकरोद्धोरं सौदासं चेदमब्रवीत् ॥ १५ ॥ यस्मादनपराधं त्वं सहायं मम जनिवान् ॥ तस्मात्तवापि पापिष्ठ प्रदास्यामि प्रतिक्रियाम् ॥ १६ ॥ एवमुक्त्वा तु तद्रक्षस्तत्रैवान्तरधीयत || कालपर्याययोगेन राजा मित्रसहोऽभवत् ॥ १७ ॥ राजा तु यजते यज्ञमस्याश्रमसमीपत: || अश्वमेधं महायज्ञं तं वसिष्ठोऽभ्यपालयत् ॥ १८ ॥ तत्र यज्ञो महानासीद्वहुवर्षगणायुतः ॥ समृद्धः परया लक्ष्म्या देवयज्ञसमोऽभवत् ॥ १९ ॥ अथावसाने यज्ञस्य पूर्ववैरमनुसरन् || वसिष्टरूपी राजानमिति होवाच राक्षसः ॥ २० ॥ अस्य यज्ञस्य जातोन्तो सामिषं भोजनं मम || दीयतामिह शीघ्रं वै नात्र कार्या विचारणा ||२१|| तच्छ्रुत्वा व्याहृतं वाक्यं रक्षसा ब्रह्मरूपिणा | भक्ष्यसंस्कारकुशलमुवाच पृथिवीपतिः ॥ २२ ॥ हविष्यं सामिपं स्वादु यथा भवति भोजनम् ॥ तथा कुरुष्व शीघ्रं वै परितुष्येद्यथा गुरुः ॥ २३ ॥ शासनात्पार्थिवेन्द्रस्य दः संभ्रान्तमानसः ॥ स राक्षस: पुनस्तत्र सुदद्वेषमथाकरोत् ॥ २४ ॥ समानुपमथो मांसं पार्थिवाय न्यवेदयत् || इदं स्वादु हविष्यं च सामिषं चान्नमाहृतम् ॥ २५ ॥ स भोजनं वसिष्ठाय पत्या सार्थसुपाहरत् || मदयन्त्या नरव्याघ्र सामिपं रक्षसा हृतम् ॥ २६ ॥ ज्ञात्वा तदामिषं विप्रो मानुषं भाजनं गतम् || क्रोधेन महताऽऽविष्टो व्याहर्तुमुपचक्रमे ॥ २७ ॥ १८६ ङन्ताच्छानच् । “उत्परस्यातः" इत्युत्त्वं ॥११- १२॥ | बहुकालातिवाहजकर्मयोगेन । युक्तोऽभवत् ॥ १७ ॥ निर्मृगं कृतं वनं च दृष्ट्वेत्यनुकर्षः ॥ १३-१४ ॥ | अस्याश्रमसमीपत इति । अस्याश्रमस्येत्यविभक्तिकनि- निरीक्षमाणं स्वसहायभूतं द्वितीयरक्षो निरीक्षमाणं | र्देशः ॥ १८-२१ ॥ भक्ष्यसंस्कारकुशलमुवाचेति । प्रथमरक्षो दृष्ट्वा ॥१५-१६ || कालपर्याययोगेन भोजनार्थमिति शेषः ॥२२ – २५॥ मदयन्त्या राज इदमायतनंबभूव तच्छृणु ॥ ९ ॥ ति० तस्यहृतस्यरक्षसःसहायं सहायभूतमात्मानं । निरीक्षमाणंतंराजानंदृष्ट्वासंतापमकरोत् ॥ १५ ॥ ति० कालपर्याययोगेन बहुकालानन्तरंप्राप्य राज्यप्रापककर्म दशेन मित्रसहोराजाभवत् । वीर्यसहस्यैव मित्र सहइतिना- मान्तरं || शि० कालपर्याययोगेन कालक्रमवशात् राजाऽभवत् । एतेनपुत्रंराज्येसंस्थाप्यसौंदासोऽपरलोकचित्तोऽभवदिति सूचितं ॥ १७ ॥ ति० अस्याश्रमसमीपतः अस्येतिषष्ट्या अळुम्बा आश्रमेतिलुप्तषष्ठीकंपदंवा ॥ १८ ॥ ति० गणायुतइत्यत्राङ्- प्रश्लेषः ॥ १९ ॥ स० पूर्ववैरं द्वयोद्वपिनोरेकमारणजं । वसिष्टरूपी तदाकारः ॥ २० ॥ स० हेयज्ञावसान यज्ञस्यावसानं यस्ययेनवातःसंवुद्धिः । समापितसवन राजन् । अन्तेतवसमीप एव नतुपारोक्ष्येण । ' अन्तःप्रान्तेन्तिके ' इतिविश्वः । सामिपं भोजनं शुद्धमांससहितं ॥ २१ ॥ स० ब्रह्मरूपिणा ब्राह्मणवेषवता । संस्कारकुशलान् सूदान् सूपकारिणः ॥ २२ ॥ स० भोजनंखादुयथाभवतितथासामिषं हविष्यंकुरुत ॥ २३ ॥ शि० संभ्रान्तमानसः गुरुकर्तृकाभक्ष्यभक्षणेच्छाश्रवणेनोद्विग्न चित्तोऽभवदितिशेपः ॥ स० सूदस्तदधिपतिः । तद्रक्षः वसिष्ठाकारविशिष्टमेवरक्षः । तत्रसूद वेषंपाककाराकारमकरोत् ॥ २४ ॥ स० ससूदःसामिपं मांस मिश्रितं । स्वादुहविष्यमन्न माहत मितिन्य वेदयत् ॥ मुख्यसूदेसंभ्रान्ते तत्र तत्र गच्छतिस्वयं तद्वेषं तद्वेषाद्धृत्वैतन्य वेदय दितिभावः ॥ महानसेसूदवेषंगृहीत्वा मुख्यसूदे नपाकसमये मानुषंमांसंप्राक्षिपदितिशेषइतिव्याख्यात वान्नागोजिभः । तत्रापरिचितचरस्य महानसान्तःप्रवेशः कथं कथंतरांमानुषमांसनयनं कथंतमांतत्रप्रक्षेपइतिनसौघट्यं । यदि मायिकत्वात्सर्वेयुज्यतइतितर्हियुज्यतामस्मव्याख्यान रीत्येतिसंतोष्टव्यं ॥ २५ ॥ ति० राजापिसामिषंमानुषमप्यमानुषंतद्धविष्य मित्येव विज्ञायपत्नयासार्धेवसिष्ठायोपाहरत् ॥ २६ ॥ [पा० ] १ ख ग घ. ज. ज. भक्षयानावसंतुष्टौ. सूदान्संस्कारकुशलानुवाच. ४ क० ख० च – ट. कुरुत ७ क. गच. जट. भोजनागतं. २ झ ठ. अद्ययज्ञावसानान्ते. ३ क. ख. च. छ. झ. ज. ट. ५ च. छ. सूदाः संभ्रान्तमानसाः ६ ग. च-ट. तच्चरक्षः पुनः.