पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तन्त्रीलय समायुक्तं त्रिस्थान करणान्वितम् || संस्कृतं लक्षणोपेतं समतालसमन्वितम् ॥ शुश्राव रामचरितं तस्मिन्काले पुरा कृतम् ॥ १५ ॥ तान्यक्षराणि सत्यानि यथावृत्तानि पूर्वशः ॥ श्रुत्वा पुरुषशार्दूलो विसंज्ञो बाप्पलोचनः ॥ १६ ॥ स मुहूर्तमिवासंज्ञो विनिश्वस्य मुहुर्मुहुः ॥ तसिन्गीते यथावृत्तं वर्तमानमिवाशृणोत् ॥ १७ ॥ पदानुगाच ये राज्ञस्तां श्रुत्वा गीतिसंपदम् || अवाङ्मुखाश्च दीनाश्च आश्चर्यमिति चाब्रुवन् ॥ १८ ॥ परस्परं च ये तत्र सैनिकाः संबभाषिरे || किमिदं क च वर्तामः किमेतत्स्वप्नदर्शनम् ॥ १९ ॥ अर्थो यो नः पुरा दृष्टस्तमाश्रमपदे पुनः ॥ शृणुमः किमिदं स्वप्नो गीतबन्धं त्रिो भवेत् ॥ २० ॥ विस्मयं ते परं गत्वा शत्रुघ्नमिदमब्रुवन् || साधु पृच्छ नरश्रेष्ठ वाल्मीकिं मुनिपुङ्गवम् ॥ २१ ॥ शत्रुघ्नस्त्वनवीत्सर्वान्कौतूहलसमन्वितान् || सैनिका न क्षमोसाकं परिप्रष्टुमिहेदृशः ॥ २२ ॥ आश्चर्याणि बहूनीह भवन्त्यस्याश्रमे मुनेः ॥ न तु कौतूहलायुक्त मन्वेष्टुं तं महामुनिम् ॥ २३ ॥ एवं तद्वाक्यमुक्त्वा च सैनिकात्रघुनन्दनः ॥ अभिवाद्य महर्षि तं स्वं निवेशं ययौ तदा ॥ २४ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकसप्ततितमः सर्गः ॥ ७१ ॥ १९७ द्विसप्ततितमः सर्गः ॥ ७२ ॥ वाल्मीक्यभ्यनुज्ञयाऽयोध्यांगतेनशत्रुघ्नेन श्रीरामंप्रति साभिवादनं लवणमारणादिविषयकतदाज्ञापरिपालन निवेद- नम् ॥ १ ॥ श्रीरामेण स्त्रवियोगासहिष्णुतया पुनर्मधुरागमनमनभिरोचयमानस्यशत्रुस्य ससान्त्वनं पुनर्मधुरानगरप्रे● षणम् ॥ २ ॥ तं शयानं नरव्याघ्रं निद्रा नाभ्यागमत्तदा || चिन्तयन्तमनेकार्थं रामगीतमनुत्तमम् ॥ १ ॥ र्यमिति । आश्रमान्तरे गायतोः कुशलवयोरिति शेषः || १७ || अवाङ्मुखाश्च दीनाश्चेति । एवं रामचरि- ॥ १४ ॥ तन्त्रीलयसमायुक्तं तत्री वीणा । लयस्ताल- त्रगायकोस्माभिर्न दृष्ट इत्यवाङ्मुखत्वादि ॥१८-१९॥ मानं । त्रिस्थानकरणान्वितं हृदयकण्ठमुखलक्षणवर्णो- पुरा दृष्टः अपरोक्षदृष्टः । तमर्थमाश्रमपदे आश्रमस्थाने त्पत्तिस्थानेन करणे अन्वितं संयुक्तं । संस्कृतं शृणुमः | किंन्विदं आश्रमासंभावितमित्यर्थः ॥ २०- संस्कृतशब्दरूपं । लक्षणं व्याकरणलक्षणं | समतालेन २२ || अन्वेष्टुं अवगन्तुं प्रष्टुं चेत्यर्थः ॥२३–२४॥ गानोचिततालशब्देन च समन्वितं । रामचरितं इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रामचरितविषयं ॥ १५ ॥ पूर्वशः पूर्वस्मिन्काले । मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकसप्तति- यथावृत्तानि यथाप्रवृत्तान्यनुभवसिद्धानि | अक्षराणि तमः सर्गः ॥ ७९ ॥ गीताक्षराणि ॥ १६ ॥ तस्मिन्गीते वर्तमानमिव स्थितं राघवं रघुगोत्रापत्यं । रघुनन्दनं रघुकुलनन्दनं । मेवकाव्यनिबद्धंशुश्राव ॥ १४ ॥ स० समतालसमन्वितं समतालेनकांस्यतालशब्देनसमन्वितं ॥ १५ ॥ स० तान्यक्षराणि सत्यानि सत्यभूतार्थ काक्षरघटितवाक्यानि | यथावृत्तानि रामचरितानुसारीणि | पूर्वशः आनुपूर्व्येण ॥ १६ ॥ ति० तस्मिन्गीते यथावृत्तमतीतमपि वर्तमानमिवाटणोत् । रसावेशादतीताअप्यर्थाः प्रत्यक्षवद्भान्तीतिभावः ॥ १७ ॥ स० वर्तामः वर्तामहे || अङ्गस्मरणाभावात् ॥ १९ ॥ ति० साधुनुच्छेति । किंकर्तृकंगान मितीतिशेषः ॥ २१ ॥ स० ईदृशोर्थः इहएतद्द- शायांपरिप्रष्टुनक्षमःनयोग्यः । एकमाश्चर्यचेत्किमिति पृच्छेच्छा महानुभावप्रभावाद्विविधानिआश्चर्याणिभवन्तिसन्तिकतमंप्रति प्रश्नःकर्तव्यइतिभावः ॥ २२ ॥ स० कौतूहलात् महात्मसंनिधौ अन्वेष्टुं विचारयितुं । नयुक्तं । स्वयमेवदयांकृत्वावदेच्चेद्दैवतो भवतुनवयंक्षमाः प्रश्नइतिभावः ॥ २३ ॥ इत्येकसप्ततितमः सर्गः ॥ ७१ ॥ स० अनेकार्थ रामगीतं रामकथाप्रबन्धं । शि० अनेके अनेकविधत्वेनप्रतिभासमानाः अर्थायस्मिंस्तत् । चिन्तयानं [ पा० ] १ ख. ग. घ. वर्तन्तमिवतत्सर्वेतस्मिन्गीतेप्रशुश्रुवान्. २ च. छ. गीतबन्धमनुत्तमं झ ञ ट गीतबन्धनमुत्तमं. ३ क, ङ. च. छ. झ. ञ ट . चिन्तयानमनेकार्थे,