पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८ श्रीमद्वाल्मीकि रामायणम् । उत्तरकाण्डम् ७ न हि शक्ष्याम्यहं हित्वा भृत्यदारान्सुखान्वितान् || प्रतिवक्तुं महातेजः किंचिदप्यशुभं वचः ॥१८॥ तथा ब्रुवति राजेन्द्रे बुधः परममद्भुतम् || सान्त्वपूर्वमथोवाच वासस्त इह रोचताम् ॥ १९ ॥ न सन्तापस्त्वया कार्यः कार्दमेय महाबल || संवत्सरोषितस्येह कारयिष्यामि ते हितम् ॥ २० ॥ तस्य तद्वचनं श्रुत्वा बुधस्याक्लिष्टकर्मणः || वासाय विदधे बुद्धिं यदुक्तं ब्रह्मवादिना ॥ २१ ॥ मासं स स्त्री तथा भूत्वा रमयत्यनिशं शुभा || मासं पुरुषभावेन धर्मबुद्धिं चकार सः ॥ २२ ॥ ततः सा नवमे मासि इला सोमसुतात्सुतम् || जनयामास सुश्रोणी पुरूरवसमूर्जितम् ॥ २३ ॥ जातमात्रं तु सुश्रोणी पितृहस्ते न्यवेशयत् || बुधस्य समवर्णाभमिला पुत्रं महाबलम् ॥ २४ ॥ बुधस्तु पुरुषीभूतं स वै संवत्सरान्तरम् || कथाभी रमयामास धर्मयुक्ताभिरात्मवान् ॥ २५ ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोननवतितमः सर्गः ॥ ८९ ॥ नवतितमः सर्गः ॥ १० ॥ इलेराजनि पुनः पर्यायेणपुरुषत्वंगते बुधेन संवर्तादिपरमर्पिसमाह्वानपूर्वकं तैःसहमन्त्रणे तन्त्रकर्दमेनाश्वमेधेनपशुपतितो- घणनिर्धारणम् ॥ १ ॥ अश्वमेधतुष्टेनपशुपतिना इलायसार्वकालिक पुंस्त्वप्राप्तिवरदानम् ॥ २ ॥ एवंरामेण भरतलक्ष्मणौ- प्रत्यश्वमेधमहिमानुवर्णनम् ॥ ३ ॥ तथोक्तवति रामे तु तस्य जन्म तदद्भुतम् ॥ उवाच लक्ष्मणो भूयो भरतश्च महायशाः ॥ १ ॥ इला सा सोमपुत्रस्य संवत्सरमथोषिता || अकरोत्कि नरश्रेष्ठ तत्त्वं शंसितुमर्हसि ॥ २ ॥ तयोस्तद्वाक्यमाधुर्य निशम्य परिपृच्छतोः ॥ रामः पुनरुवाचेमां प्रजापतिसुते कथाम् ॥ ३ ॥ पुरुषत्वं गते शूरे बुधः परमबुद्धिमान् || संवर्त परमोदारमाजुहाव महायशाः ॥ ४ ॥ — सुत इति ॥ प्रपत्स्यत इति ॥ मया गत्वा कृता- | पितृहस्ते उपनयनादिकृत्यार्थं न्यवेशयत् ||२४-२५|| द॒भिषेकादिति भावः ॥ १७ ॥ सुखान्वितानिति | इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे देशस्थानिति शेषः । हित्वा न शक्ष्यामीति । इह मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकोननव- स्थातुमिति शेषः । अशुभं वचः इह निवासलक्षणा- | तितमः सर्गः ॥ ८९ ॥ निष्टवचनं वक्तुं नार्हसीति शेषः ॥ १८-२२ ॥ इला सोमसुतात्सुतं जनयामासेति । योजनगन्ध्या- दिः पराशरादेर्व्यासादिमिव निषेकानन्तरमेवेति ज्ञेयं ॥ २३ ॥ जातमात्रं तत्क्षण एव । पितृसमाकारं तस्येति । पुरूरघस इत्यर्थः ॥ १ ॥ किमिति । संवत्सरात्परमिति शेषः । इलस्य पुरूरवसोपि पुत्रस्य सत्त्वाच्छशबिन्दोः पूर्वपुत्रस्य च सत्त्वात्पुरूर पुत्रस्य स्ववशवर्तितोपपादकं धर्मपरः महायशाइति विशेषणद्वयं । नागोजिभट्टस्तु उक्तमेवराज्योत्कण्ठा प्रदर्शनायाह – सुतइति । ममराज्यं प्रतिगमनाभावेइतिशेषइतिव्याचष्टे । तत्रैतद्विशेषणद्वयंन स्वरससंलग्न मितिविन्दवोविदांकुर्वन्तु ॥ १७ ॥ ति० नवमे मासीति । नचैवंमध्ये पुरुषत्वावस्थायांगर्भदर्शनेनपूर्वावस्था स्मरणाभावरूपपार्वतीवरान्यथाभावापत्तिः । तद्वरबलादेव विद्यमानस्यापि गर्भस्यानेना ज्ञान मिति कल्पनेनादोषात् । एतदनुपपत्त्यैववुधस्यसमागममारभ्यनवमेमासिसद्य एवगर्भग्रहणप्रसवावितितीर्थः ॥ स० नवमेमासि एकस्मिंस्त्रीत्वमासेवृद्धिः । अपरस्मिन्नन्तर्धानं । अष्टादशमासेतदर्धनवमासीसंपत्तिरितिभार तोकप्रकारेण न क्रमत इतिमन्तव्यं । अथवापार्वतीवरेण विद्यमानस्याप्यप्रतिभानंगर्भस्यान्तर्वृद्धिश्चसंभवतइति यथावस्थितन व मेमासिसुतंजनयामास ॥२३॥ ति० संवत्सरान्तरं संवत्सरान्तरप्राप्त्यपेक्षितावशिष्टमासत्रयपर्यन्तं ॥ २५ ॥ इत्येकोननवतितमः सर्गः ॥ ८९ ॥ ति० प्रजापतिसुते तद्विषयां ॥ ३ ॥ [ पा० १ च. छ. ञ. परमबुद्धिमान्. २ क. घ. च. छ. ञ. पुरुषीभूतंसमाश्वास्यनराधिपं.