पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ कलामात्र विभागज्ञाञ्ज्यौतिषे च परं गतान् || क्रियाकल्पविदश्चैव तथा काव्यविदो जनान् ॥ ७ ॥ भाषाज्ञानिङ्गितज्ञांश्च नैगमांचाप्यशेषतः || हेतूपचारकुंशलान्वचने चापि हैतुकान् ॥ ८ ॥ छन्दोविदः पुराणज्ञान्वैदिकान्द्विजसत्तमान् || चित्रज्ञान्वृत्तसूत्रज्ञान्गीतनृत्यविशारदान् ॥ ९ ॥ शास्त्रज्ञानीतिनिपुणान्वेदान्तार्थप्रबोधकान् || एतान्सर्वान्त्समानीय गातारौ समवेशयत् ॥ १० ॥ दृष्ट्वा मुनिगणाः सर्वे पार्थिवाञ्च महौजसः ॥ पिबन्त इव चक्षुर्भ्या राजानं गायकौ च तौ ॥ ११ ॥ ऊचुः परस्परं चेदं सर्व एव समन्ततः ॥ उभौ रामस्य सदृशौ बिम्बाद्विम्बमिवोत्थितौ ॥ १२ ॥ जटिलौ यदि न स्यातां न वल्कलधरौ यदि || विशेषं नाधिगच्छामो गायतो राघवस्य च ||१३|| तेषां संवदतामेवं श्रोतॄणां हर्षवर्धनम् || गेयं प्रचक्रतुस्तत्र तावुभौ मुनिदारकौ ॥ १४ ॥ ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम् ॥ न च तृप्तिं ययुः सर्वे श्रोतारो गानसंपदा ॥ १५ ॥ प्रवृत्तमादितः पूर्वसर्गे नारददर्शितम् ॥ ततः प्रभृति सर्गाश्च यावद्विशत्यगायताम् ॥ १६ ॥ ततोपराह्नसमये राघवः समभाषत || श्रुत्वा विंशतिसगस्तान्तरं भ्रातृवत्सलः ॥ १७ ॥ अष्टादशसहस्राणि सुवर्णस्य महात्मनोः ॥ प्रयच्छ शीघ्रं काकुत्स्थ यदन्यदभिकाङ्क्षितम् ॥ ददौ शीघ्रं स काकुत्स्थो बालयो पृथक्पृथक् ॥ १८ ॥ दीयमानं सुवर्ण तु नागृह्णीतां कुशीलवौ || ऊचतुश्च महात्मानौ किमनेनेति विस्मितौ ॥ १९ ॥ वन्येन फलमूलेन निरतौ वनवासिनौ || सुवर्णेन हिरण्येन किं करिष्यावहे वने ॥ २० ॥ तथा तयोः प्रब्रुवतोः कुतूहलसमन्विताः ॥ श्रोतारश्चैव रामश्च सर्व एव सुविस्मिताः ॥ २१ ॥ तस्य चैवागमं रामः काव्यस्य श्रोतुमुत्सुकः ॥ प्रपच्छ तौ महातेजास्तावुभौ मुनिदारकौ ॥ २२ ॥ किंप्रमाणमिदं काव्यं का प्रतिष्ठा महात्मनः ॥ कर्ता काव्यस्य महतः क चासौ मुनिपुङ्गवः ॥ २३॥ पृच्छन्तं राघवं वाक्यसूचतुर्मुनिदारकौ ॥ २४ ॥ वाल्मीकिर्भगवान्कर्ता संप्राप्तो यज्ञसंविधम् || येनेदं चरितं तुभ्यमशेषं संप्रदर्शितम् || २५ ॥ र्वान् गान्धर्वशास्त्रज्ञान् । पादाक्षरसमासज्ञान् पादा- | चक्रबन्धादिसहितचित्रकाव्यरचनानिपुणान् ॥ ९॥ क्षराणां गुरुलघुसामान्यज्ञान् । छन्दस्सु वेदेषु ||६|| शास्त्रज्ञान् व्याकरणादिशास्त्रज्ञान् । समवेशयत् । कलामात्र विभागज्ञान कलाः स्वराः तेषां मात्रा: एक- सभामध्ये इति शेषः ॥ १० - १५ ॥ प्रवृत्तमिति द्वित्रिलक्षणाः तेषां विभागज्ञान् । परं पारङ्गतान् । तत्र गेयेन नारददर्शितंपूर्वसर्गमादितः प्रवृत्तम् ॥ १६ क्रियाकल्पविदः क्रियाकल्पः क्रियाप्रयोगप्रतिपादकं -१८ ॥ कुशीलवौ विस्मितौ सकृदेव बहुप्रदानतः कल्पसूत्रं तद्विदुस्तज्ज्ञान् । काव्यविदः काव्यलक्षण- विस्मयवन्तौ किमनेनेत्येवोचतुश्च ॥ १९ ॥ तदेव लक्ष्यविद इत्यर्थः । काव्यविदो जनानिति च पाठः स्पष्टीकरोति - वन्येनेत्यादि || निरतौ निरताहारौ ॥ ७ ॥ भाषाज्ञान् अष्टादशभाषास्वरूपज्ञान् । इङ्गि- ॥२०-२१॥ आगमं प्राप्तिं ॥ २२॥ किंप्रमाण मिदमि- तज्ञान् अभिप्रायविदः । नैगमान्वणिज: । पूर्वत्र त्यादि || का प्रतिष्ठा कियत्पर्यन्तमित्याशयः । काव्य- पौरानित्यर्थः । वचने चापि केवलव्यवहारेपि हेतूप- स्य कः कर्तेत्यनुकर्षः । मुनिपुङ्गव इति । आस्त इति चारकुशलान् युक्तिप्रयोगसमर्थान् | हैतुकान् तार्कि- शेषः ॥ २३-२४ ॥ येन कृतमिदमशेषं चरितं कान् ॥ ८ ॥ वृत्तज्ञान् वृत्तशास्त्रज्ञान् चित्रज्ञान् काव्यं तुभ्यं संप्रदर्शितं सोस्य काव्यस्य कर्ता भगवान् ति० आगमं कुशलवयोस्तत्प्राप्तिकारणं । तौतावितिवीप्सा ॥ २२ ॥ [ पा० ] १ ङ. च. छ. झ. ट. कुशलान्हैतुकांश्चबहुश्रुतान्. २ ख गायन्तौतौनिवेशितौ क. घ. गायन्तौसमचोदयत्.