श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ २३८ मद्रचो ब्रूत गच्छध्वमितो भगवतोऽन्तिकम् ॥ ३ ॥ यदि शुद्धसमाचारा यदि वा वीतकल्मषा || करोत्विहात्मनः शुद्धिमनुमान्य महामुनिम् ॥ ४ ॥ छन्दं मुनेश्च विज्ञाय सीतायाश्च मनोगतम् ॥ प्रत्ययं दातुकामायास्ततः शंसत मे लघु ॥ ५ ॥ श्वः प्रभाते तु शपथं मैथिली जनकात्मजा ॥ करोतु परिषन्मध्ये शोधनार्थं ममैव च ॥ ६ ॥ श्रुत्वा तु राघवस्यैतद्वचः परममद्भुतम् || दूताः संप्रययुर्वाटं यत्रास्ते मुनिपुङ्गवः ॥ ७॥ ते प्रणम्य महात्मानं ज्वलन्तममितप्रभम् || ऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च ॥ ८ ॥ तेषां तव्याहृतं श्रुत्वा रामस्य च मनोगतम् || विज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत् ॥ ९ ॥ एवं भवतु भद्रं वो यथा वदति राघवः ॥ तथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः ॥ १० ॥ तथोक्ता मुनिना सर्वे रामदूता महौजसम् || प्रत्येत्य राघवं क्षिप्रं मुनिवाक्यं बभाषिरे ॥ ११ ॥ ततः ग्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः ॥ ऋषींस्तत्र समेतांच राज्ञश्चैवाभ्यभाषत ॥ १२ ॥ भगवन्तः सशिष्या वै सानुगाच नराधिपाः ॥ पश्यन्तु सीताशपथं यश्चैवान्योपिकाङ्क्षते ॥ १३ ॥ तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ॥ सर्वेषामृषिमुख्यानां साधुवादो महानभूत् ॥ १४ ॥ राजानथ महात्मानं प्रशंसन्ति स राघवम् || उपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः ॥ १५ ॥ एवं विनिश्चयं कृत्वा श्रोभूत इति राघवः ॥ विसर्जयामास तदा सर्वांस्ताञ्शत्रुसूदनः ॥ १६ ॥ इति संप्रविचार्य राजसिंह: श्रीभूते शपथस्य निश्रयं वै विससर्ज मुनीनृपांच सर्वान्स महात्मा महतो महानुभावः ॥ १७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चनवतितमः सर्गः ॥ ९५ ॥ दित्यर्थः ॥ २-३ ॥ महामुनिमनुमान्य महामुनेर | जल्पः प्राकृत: सोपीत्यर्थः ॥ १३ – १७ ॥ इति नुमतिं कृत्वेत्यर्थः ||४|| छन्दं अभिप्रायं ॥ ५-१० ॥ श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणि- तभोक्ताइति सीता तथैव करिष्यतीत्युक्ता इत्यर्थः सर्गः ॥ १५ ॥ मुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चनवतितमः ।। ११ -१२ ।। यश्चैवान्योपीति | यश्च पापी पाप- मपेक्ष्यज्ञात्वा । इयमेवोपज्ञाराम स्येतिभावः । शुद्धसमाचारान्दूतान् । एतेन महातपस्विसमीपसमापतनयोग्यतांसूचयति । आत्म- मनीषया खधिया । अपरप्रेरणयेतिभावः । भगवतोवाल्मीके: । अन्तिकंगत्वामद्वचोब्रूत | अन्तिकइतिपाठे गच्छध्वंभगवतोन्ति- केमद्रचोब्रूतेत्यन्वयः ॥ २ ॥ ३ ॥ स० यदिशुद्धसमाचारासीताप्रागेव । अथवा वीतकल्मषातपसा | परसदन निवासागतगतपा- तकावा | महामुनिं वाल्मीकिं । अनुमान्य संमतंकृत्वा । आत्मनः शुद्धिं निष्कल्मषत्वप्रथां । करोतु । आत्मनोमममनसः शुद्धिं अडोलायमानतां करोत्वितिवा ॥ ४ ॥ स० यद्यप्यवद्यगन्धविधुरेतिचतुराननादिपुरतोऽशरीर गिरोदीरितत्वान्नसंशयः । तथाप्य न्यथाकथकदुर्जनाननबन्धार्थखस्यतत्सौन्दर्यलुब्धताकलङ्कापकर्षणार्थेचपुनः शपथः कर्तव्यइत्याह - श्वः प्रभातइति । मममनश्शो- धनार्थंपरिषन्मध्येशपथंकरोतु ॥६॥ ति० मृदूनि अपरुषाणि । मधुराणिमधुराक्षराणि ॥ ८ ॥ स० हियतोऽयंपतिःस्त्रियादैवतं ततः सीतातथा करिष्यते करिष्यति ॥ १० ॥ ति० यश्चान्योपिसीतायांदोषारोपकर्ता योपिशपथमाकाङ्क्षते सोपिपश्यत्वित्यर्थः ॥१३॥ स० साध्वितिवादः साधुवादः ॥ १४ ॥ स० नान्यतः नान्यस्मिन् ॥ १५ ॥ इतिपञ्चनवतितमः सर्गः ॥ ९५ ॥ [पा० ] १ क. ख. ग. यथातुष्यति. २ क ख ग ङ- ट. महात्मानः.
पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२४२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति