पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ९७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । साध्या विश्वेदेवाश्च सर्वे च परमर्षयः ॥ नागाः सुपर्णा: सिद्धाच ते सर्वे हृष्टमानसाः || सीताशपथसंभ्रान्ताः सर्व एव समागताः ॥ ९ ॥ दृष्ट्वा देवानृषींश्चैव राघवः पुनरत्रवीत् || प्रत्ययो मे सुरश्रेष्ठा ऋषिवाक्यैरकल्मषैः || शुद्धायां जगतो मध्ये वैदेयां प्रीतिरस्तु मे ॥ ११ ॥ ततो वायुः शुभः पुण्यो दिव्यगन्धो मनोरमः ॥ तज्जनौवं सुरश्रेष्ठो ह्रादयामास सर्वतः ॥ १२ ॥ तदद्भुतमिवाचिन्त्यं निरैक्षन्त समागताः || मानवाः सर्वराष्ट्रेभ्यः पूर्वं कृतयुगे यथा ॥ १३ ॥ सर्वान्त्समागतान्दृष्ट्वा सीता कापायवासिनी || अब्रवीत्प्राञ्जलिर्वाक्यमधो दृष्टिरवाङ्मुखी ॥ १४ ॥ यथाऽहं राघवादन्यं मनसाऽपि न चिन्तये ॥ तथा मे माधवी देवी विवरं दातुमर्हति ॥ १५ ॥ मनसा कर्मणा वाचा यथा रामं समर्चये ॥ तथा मे माधवी देवी विवरं दातुमर्हति ॥ १६ ॥ यथैतत्सत्यमुक्तं मे वेद्मि रामात्परं न च ॥ तथा मे माधवी देवी विवरं दातुमर्हति ॥ १७ ॥ तथा शपन्त्यां वैदेयां प्रादुरासीत्तदद्भुतम् ॥ भूतलादुत्थितं दिव्यं सिंहासनमनुत्तमम् ॥ १८ ॥ श्रियमाणं शिरोभिस्तु नागैरमितविक्रमैः || दिव्यं दिव्येन वपुषा दिव्यरत्नविभूषितैः ॥ १९ ॥ तसंस्तु धरणी देवी बाहुभ्यां गृह्य मैथिलीम् ॥ स्वागतेनाभिनन्द्यैनामासने चोपवेशयत् ॥ २० ॥ तामासनगतां दृष्ट्वा प्रविशन्तीं रसातलम् || पुष्पवृष्टिरविच्छिन्ना दिव्या सीतामवाकिरत् ॥ २१ ॥ साधुकारथ सुमहान्देवानां सहसोत्थितः ॥ साधु साध्विति वै सीते यस्यास्ते शीलमीदृशम् ||२२|| एवं बहुविधा वाचो ह्यन्तरिक्षगताः सुराः || व्याजहुर्हृष्टमनसो दृष्ट्वा सीताप्रवेशनम् ॥ २३ ॥ २४१ शपथप्रसङ्ग इत्यर्थः ॥ ६-१२ ॥ अचिन्त्यं अचि - | चेत् | माधवी माधवपत्नी भूमिः ॥१७॥ तथा शपन्त्यां न्त्यहेतुकं वायुस्वरूपं यथा पूर्व कृतयुगे पश्यन्ति स्म त्रिः शपन्त्यां । तत्सिंहासनं ॥ १८ ॥ नागैः शिरोभिः तथा तदानीं सर्वे मानवाः निरीक्षन्ते स्म ॥१३ - १६॥ | प्रियमाणमदृश्यतेति शेषः ।।१९-२३।। विस्मयात् आ रामात्परमन्यं पुरुषं न वेझीति यथोक्तमेतत्सत्यं श्चर्याभिज्ञावेदन व्यवहारान्नोपरेमिरे नोपरता बभूवुः नचिन्तयामीतिसयं रामांजग्राहेत्याग्रहग्रहगृहीतदुरात्मजनवचनभाजनतानममस्यादितिसूच्यते ॥ ५॥ ति० सीताशपथेतद्दर्शनेसंभ्रान्ताः आदृताइत्यर्थः । स० संभ्रान्ताः सादराः पुनः किमयमारंभइतिभ्रान्तस्वान्तावा ॥ ९ ॥ ति० शुभपुण्यशव्दौशैत्यमान्योपलक्षणौ । दिव्यगन्धः संनिहितसर्वदेवशरीरवर्तिदिव्यचन्दनमाल्यगन्धः । सुरश्रेष्ठः सर्वपुण्यपापसाक्षी ॥ १२ ॥ ति० ततःसीताचतुर्दशभुवनस्थजना- नेकत्र मिलितान्दृष्ट्वाऽपवादपरिहारायशपथव्याजेनस्व पदं प्रवेष्टुकामाह- सर्वानिति । काषायवासिनी तपस्युचितवासोधारिणी पाति- व्रत्योचिताधोदृष्टिविवरयाचनायमहीनिरीक्षणार्थच । अतएवावाङ्मुखी ॥ १४ ॥ ति० यथाहंराघवादन्यंमनसापिनचिन्तये तथासत्येनचिरकालवियोगेपिपातिव्रत्य परिपालनक्लेशखिन्नायास्तज्जनितपर मदुःखसमाप्तयेपुनरपिभुवंप्रवे- माधवीदेवी माधवपत्नीभूदेवी विवरंरन्धंदातुमर्हति । एवमत्रेपिव्याख्येयं ॥ १५ (1 ति० अयंखपदप्रवेशोद्योगः सीतायाभृगुप्रार्थनयोपेन्द्रावतारेमानुषेलोकेऽङ्गीकृतपत्नीवियोगस्यप्रागुक्तास्मद्रीत्याङ्गीकृततदर्थवाल्मीकिशापस्यचरामस्याभिप्रायज्ञा- नादेववाल्मीक्याश्रमग मनवदितिन रामप्रतिकूलाचरणप्रसक्तिः सीतायाइतिबोध्यम् । अनन्तरंरामस्यभूमिनाशपर्यन्तंकोपोदय- स्तुमनुष्यावतारनटनमात्रमित्यदोषः ॥ १७ ॥ ति० शपन्त्यां एवंत्रिःशपन्त्यां । तत् अनिर्वाच्यं । अद्भुतंप्रादुरासीत् । किंतदद्भुतंतत्राह — भूतलादुत्थितंनागैः तक्षकादिभिः शिरोभिर्ध्नियमाणंसिंहासनमदृश्यतेतिशेषः । दिव्येनवपुषामानुषरचनावि- शेषेणोपलक्षितं । दिव्यरत्नविभूषितैःअनेकैरिस्यर्थः । पाझेतु - नानारत्नमयंपीठंपृष्ठेकृत्वाखगेश्वरः । रसातलादाविरभूद्विस्मयं जनयन्नृणाम् । तस्मिन्पीठेमहादेवीहस्ताभ्यांगृह्यमैथिलीम् । स्वागतेनाभिनन्द्येमांसंनिवेश्य तिरोदधे | साचदिव्याप्सरोभिस्तुपूज्य- मानासनातनी | वैनतेयंसमारुह्यअर्चिरादिपथाद्रमा । दासीगणैः पूर्वभवैः संवृताजगदीश्वरी | संप्राप्तापरमंधामयोगिगम्यंसनात- नम् । रसातलप्रविष्टांतांदृष्ट्वा सर्वेप्रचुक्रुशुः ।" इत्युक्तं । नागैर्धियमाणंप्रादुर्भूतं दृष्ट्वादिव्येन वपुषागरुडोजग्राहेतिशेषोबोध्यः । रसातलंप्रविशन्तीमित्यस्यादृश्यायांजायमानायामित्यर्थः ॥ १८ ॥ ति० दिव्या स्वर्गभवा । अतःपरंभगवतोप्यागमनंशीघ्र मिति [ पा० ] १ क. ख. ग. ङ-ठ. तंजनौघं. वा. रा. २७१