पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ यज्ञवाटगताश्चापि मुनयः सर्व एव ते || राजानश्च नरव्याघ्रा विसयान्नोपरेमिरे |॥ २४ ॥ अन्तरिक्षे च भूमौ च सर्वे स्थावरजङ्गमाः || दानवाश्च महाकायाः पाताले पन्नगाधिपाः ॥ २५ ॥ केचिद्विनेदुः संहृष्टाः केचिद्ध्यानपरायणाः | केचिद्रामं निरीक्षन्ते केचित्सीतामंचेतनाः ॥ २६ ॥ सीताप्रवेशनं दृष्ट्वा तेषामासीत्समागमः || तन्मुहूर्तमिवात्यर्थं समं संमोहितं जगत् ॥ २७ ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तनवतितमः सर्गः ॥ ९७ ॥ २४२ अष्टनवतितमः सर्गः ९८ ॥ सीतायारसातलप्रवेशानन्तरंदूयमानमानसे नरामेण चिरंरोदन पूर्वकंभूदेवींप्रतिसक्रोधंसीतायाः पुनरानयनाभावेतस्याभ स्मीकरणप्रतिज्ञानम्॥ १॥ चतुर्मुखेनरामंपतितस्य विष्णुत्व स्मारणपूर्वकंसीतायाः सुखेननागलोकगमन निवेदनपूर्वकं पुनः स्वर्गेत- संगमस्यभविष्यश्वकथनम् ॥ २ ॥ चतुर्मुखेनसभामध्ये रामंप्रति एतत्काव्यस्यकाव्योत्तमत्वस्य वाल्मीकिकृतत्वस्य च निवेदनेन लक्ष्मणादिवर्जतेनैवोत्तरकथा श्रवणचोदन पूर्वकंदेवैः सहन्त्रिदिवगमनम् ॥ ३ ॥ ततोरा मेणवाल्मीकिंमतिपरेधुरुत्तरकथाप्रव र्तनचोदन पूर्वकंजनविसर्जने नकुशलवाभ्यांसहपर्णशालाप्रवेशः ॥ ४ ॥ रसातलं प्रविष्टायां वैदेह्यां सर्ववानराः ॥ चुक्रुशुः साधुसाध्वीति मुनयो रामसन्निधौ ॥ १ ॥ दण्डकाष्ठमवष्टभ्य वाष्पव्याकुलितेक्षणः ॥ अवाक्छिरा दीनमना रामो ह्यासीत्सुदुःखितः ॥ २ ॥ स रुदित्वा चिरं कालं बहुशो वाष्पमुत्सृजन || क्रोधशोकसमाविष्टो रामो वचनमब्रवीत् ॥ ३ ॥ अभूतपूर्व शोकं मे मनः स्प्रष्टुमिवेच्छति || पश्यतो मे यथा नष्टा सीता श्रीरिव रूपिणी ॥ ४ ॥ साउदर्शनं पुरा सीता लङ्कापारे महोदधेः ॥ ततश्चापि मयानीता किं पुनर्वसुधातलात् ॥ ५ ॥ वसुधे देवि भवति सीता निर्यात्यतां मम || दर्शयिष्यामि वा रोषं यथा मामवगच्छसि ॥ ६ ॥ ॥ २४ ॥ संहृष्टा इति । सीतायाः अयशो गतमिति | उत्तरकाण्डव्याख्याने सप्तनवतितमः सर्गः ॥ ९७ ॥ संहृष्टाः । अचेतनाः विसंज्ञाः ॥ २५-२६ ॥ तेषां मुन्यादीनां | समागमः हर्षसंबन्धः । यदेवमतः संमो- दण्डरूपं काष्ठं दण्डकाष्ठं ॥२-३ ॥ मनः- हितमिव संमोहितमवाभूत् ||२७|| इति श्रीगोविन्द- शोकमिव मनःशोकमेव स्प्रष्टुमिति । पश्यतो मेद्य राजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने | सा नष्टेति | मामप्यनादृत्य ॥ ४ ॥ नीता प्रापितव- संतोषेणपुष्पवृष्टिः ॥ २१ ॥ स० स्थावराणामभिमानिद्वाराप्रहर्षः ॥ २५ ॥ स० ध्यानपरायणाः अहोविडंबनमिति ॥ ति० अचेतसः विसंज्ञाः ॥ २६ ॥ स० सीताप्रवेशदृष्ट्वास्थितानांतेषांमुनिप्रमुखानां । समागमः । हर्षादेरितिशेषः । आसीत् यस्मिन्मुहूर्तेतंप्राप्यसमंजगत्सर्वैविश्वंसंमोहितमत्यर्थमभवत् मैथिलीमेलनाभावेपुनरियानायासःकुतःसंपादनीयोऽयोध्याध्यक्षे- णेतिचेन्न । जानकीविषयजनापवादापनुत्त्यैइत्यवेहि । पुनरेव हिचपूर्वेस्खतोपिलोकगमनं कामिन्या विहित मितितांप्राक्प्रेषयितुमियं लीलेति ॥ २७ ॥ इतिसप्तनवतितमस्सर्गः ॥ ९७ ॥ ति० अथरामस्यसीतान्तर्धान जंक्रोधंभगवांस्तत्वबोधनेनशमयति - रसातलमिति | साधुसाध्वीतिदीर्घआर्षः ॥ स० हेसाध्वि साधु इतिमनसातांसंबोध्यचुक्रुशुः ॥ १ ॥ ति० दण्डकाष्ठं दीक्षितेनसोमक्रयपर्यन्तंधारणीयमौदुंबरंदण्डमवष्टभ्येत्यर्थः । एत दवष्टंभः शोकग्लानिवशात् ॥ २ ॥ स० बहुशः पूर्णसुखोपिबाष्पमुत्सृजन् । अनेन लोकानुकरणार्थमिदमितिसूच्यते ॥ ३ ॥ ति० पूर्वरावणेनअसंनिधौसीतानष्टा नाशमदर्शनप्रापिता | संप्रतितुपश्यतोमे पश्यन्तंमामनादृत्यरूपिणीश्रीरिवसीता नष्टा अदर्शन॑प्रापिता । यथा यतः । अतोमेमनः अभूतपूर्वंशोकंस्प्रष्टुमिच्छति ॥ ४ ॥ यथामामवगच्छति मद्लंवराहावतारादौ [ पा० ] १ ङ. च. छ. झ ञ ट मचेतसः २ ख. ग. सर्वे. ३ ख. ग. घ. च. छ. ट. अभूतपूर्वः शोकोमे.