पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: ९९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ततः समुपविष्टेषु ब्रह्मर्षिषु महात्मसु || भविष्यदुत्तरं काव्यं जगतुस्तौ कुशीलवौ ॥ २ ॥ प्रविष्टायां तु सीतायां भूतलं सत्यसंपदा || तस्यावसाने यज्ञस्य रामः परमदुर्मनाः ॥ ३ ॥ अपश्यमानो वैदेहीं मेने शून्यमिदं जगत् || शोकेन परमायस्तो न शान्ति मनसागमत् ॥ ४ ॥ विसृज्य पार्थिवान्त्सर्वानृक्षवानरराक्षसान् ॥ जनौघं विप्रमुख्यानां वित्तपूर्व विसृज्य च ॥ ५ ॥ एवं समाप्य यज्ञं तु विधिवत्स तु राघवः ॥ ततो विसृज्य तान्त्सर्वात्रामो राजीवलोचनः ॥ ६ ॥ हृदि कृत्वा तदा सीतामयोध्यां प्रविवेश ह || इष्टयज्ञो नरपति: पुत्रद्वयसमन्वितः ॥ ७ ॥ न सीतायाः परां भार्थी वत्रे स रघुनन्दनः ॥ यज्ञे यज्ञे च पत्यर्थ जानकी काञ्चनी भवत् ॥ ८ ॥ दश वर्षसहस्राणि वाजिमेधानथाकरोत् ॥ वाजपेयान्दशगुणांस्तथा बहुसुवर्णकान् ॥ ९ ॥ अग्निष्टोमातिरात्राभ्यां गोसवैश्च महाधनैः ॥ ईजे ऋतुभिरन्यैश्च स श्रीमानाप्तदक्षिणैः ॥ १० ॥ एवं स काल : सुमहान्राज्यस्थस्य महात्मनः ॥ धर्मे प्रयतमानस्य व्यतीयाद्राघवस्य तु ॥ ११ ॥ अनुरञ्जन्ति राजानमहन्यहनि राघवम् || ऋक्षवानररक्षांसि स्थिता रामस्य शासने ॥ १२ ॥ काले वर्षति पर्जन्यः सुभिक्षं विमला दिशः ॥ हृष्टपुष्टजनाकीर्ण पुरं जनपदास्तथा ॥ १३ ॥ नाकाले म्रियते कश्चिन्न व्याधिः प्राणिनां तथा ॥ नाऽनर्थो विद्यते कश्चिद्रामे राज्यं प्रशासति ॥१४॥ अथ दीर्घस्य कालस्य राममाता यशस्विनी ॥ पुत्रपौत्रैः परिवृता कालधर्ममुपागमत् ॥ १५ ॥ अन्वियाय सुमित्रा च कैकेयी च यशस्विनी || धर्म कृत्वा बहुविधं त्रिदिवे पर्यवस्थिता ॥ १६ ॥ सर्वा: प्रमुदिताः स्वर्गे राज्ञा दशरथेन च ॥ समागता महाभागाः सर्वधर्म च लेभिरे ॥ १७ ॥ तासां रामो महादानं काले काले प्रयच्छति ॥ मातृणामविशेषेण ब्राह्मणेषु तपस्विषु ॥ १८ ॥ पित्र्याणि ब्रह्मरतानि यज्ञान्परमदुस्तरान् || चकार रामो धर्मात्मा पितृन्देवान्विवर्धयन् ॥ १९ ॥ २४६ शङ्कारहिताभ्यां । मातृवियोगदुःखरहिताभ्यां वा ॥ १- कथागान् ॥ ९ ॥ गोसवैः गोसवाख्ययागैः । २॥ सत्यसंपदा सत्यवैभवेन । तस्यावसाने यज्ञस्येति । अश्वमेधसंक्षेपैरिति संक्षेपवचन मेतत्परं वेदितव्यं (?) सीतांनिर्याणासन्नपूर्वकालइत्यर्थः || ३ - ४ || वित्तपूर्वं शतशब्दस्य बहुसंख्यावचनत्वात् । गोशतैश्चेति पाठः वित्तदानपूर्वमित्यर्थः।। ५–७ ॥ न सीताया इत्यनेन । १० - १२ ॥ सुभिक्षमिति । अभवदिति शेष: रामस्य एकदारव्रतं सीताप्रतिनिधिनैव यज्ञनिर्वर्तनं ॥ १३ – १६ ॥ सर्वधर्म चेति । सर्वधर्मसाध्यभोग- च दर्शितं ॥ ८ ॥ दश वर्षसहस्राणीत्यनेन प्रथमयज्ञ मित्यर्थः ॥ १७-१८ ॥ पित्र्याणि पितृकर्मापेक्षि एव सीताया भूप्रवेश इत्युक्तं । बहुसुवर्णकान् बहुसुवर्ण- तानि | ब्रह्मरत्नानि ब्राह्मणदेयवस्तूनि । प्रयच्छति त्कथं स्वामिसमीपे तत्कथन मितिशङ्कारहिताभ्यामितिवा ॥ १ ॥ स० अपश्यमानः अपश्यन् ॥ ४ ॥ यज्ञेयज्ञे प्रतियज्ञं | भवत् अभवत् ॥ स० इयतायासेन किं किमपरामायताक्षींपाणिगृहीतींनातनोद्राघवइत्यत आह – नेति । सीतायाः सकाशात् । अवता- रावसर एवालोच्य कमलैतद्रूपिणीजाता नजातान्यातद्रूपिणीतिस्वस्वीकारायोग्यत्वेनवा 'अशोकमूलमासाद्यदर्शयामासजानकीम् । नित्या वियोगिनीं देवीं रामोमन्ददृशामपि-तत्याजेवसजानकीम् —रामान्तिकेस्थितादेवीन मन्दैः समदृश्यत । रूपान्तरेणकैलासंग- तानित्यावियोगिनी | नित्यं पश्यन्निजांदेवींपूर्णसंतोषसंभृतः । रामोनदृश्यतेदेवीत्यभूत्सङ्कटवानिव ' इत्युक्तेः प्रदर्शितसीताविरहो- रहो विदेहजासहित एवेतिवाऽन्य का मिन्यासक्तिर्नेतिमन्तव्यम् । तर्हिऋतुकृतिः कथमित्युक्तेव्यवहितत्वादुक्तमेवैकाश्वमेधपर्यवसायि- तेतिभ्रमभ्रंश नाययज्ञेयज्ञइतिवीप्सोत्त्या विवृणोति – यज्ञेयज्ञइति ॥ ८ ॥ ति० दशवर्षसहस्राणीतियागकालमर्यादेयं । नतुसीता- वियोगानन्तरंतावान्यागकालइतिकतकः । तत्रसीतावियोगानन्तरंतावतोयाग कालवे किं बाधक मिति चिन्त्यं । नतुभूमौसीतागमनो- त्तरमितिवक्तुंयुक्तम् ॥ ९ ॥ ति० स्थिता स्थितानि ॥ स० हिरिवार्थः । यथाऋक्षवानररक्षांसिराममन्वरञ्जयंस्तथा रामस्यशास- नेस्थिताराजानः अहन्यहनि प्रतिदिनं । अनुरजंति अनुरजयन्ति ॥ १२ ॥ ति० पौत्राः कुशलवायाः ॥ १५ ॥ ति० अन्वि ठ. राजानोयहन्यहनि ३ क—घ. च. छ. ज. बहुरत्नानि, [ पो० ] १ ख. ग. तेषुतत्रमहात्मसु. २ झ