२४६ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ एवं वर्षसहस्राणि बहून्यथ ययुः सुखम् ॥ यंज्ञे बहुविधं धर्म वध्र्यानस्य सर्वदा ॥ २० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनशततमः सर्गः ॥ ९९ ॥ शततमः सर्गः ॥ १०० ॥ कदाचनयुधाजिच्चोदनयागार्ग्यमहर्षिणा राममेत्य सिंधुनद्याउभयकूलस्थितगन्धर्वदेशस्य स्ववशीकरणचोदनरूपतत्संदे- शनिवेदनं ॥ १ ॥ रामाज्ञया स्वपुत्रसहितेनभरतेन सेनयासह युधाजित्समीपगमनम् ॥ २ ॥ कस्यचिवथ कालस्य युधाजित्केकयो नृपः ॥ स्वगुरुं प्रेषयामास राघवाय महात्मने ॥ गार्ग्यमङ्गिरसः पुत्रं ब्रह्मर्षिममितप्रभम् ॥ १ ॥ दश चाश्वसहस्राणि प्रीतिदानमनुत्तमम् ॥ २ ॥ कम्बलानि च रत्नानि चित्रवस्त्रमथोत्तमम् || रामाय प्रददौ राजा शुभान रणानि च ॥ ३ ॥ श्रुत्वा तु राघवो धीमान्ब्रह्मर्षिं गार्ग्यमागतम् || मातुलस्याश्वपतिनः ग्रहितं तन्महद्धनम् ॥ ४ ॥ प्रत्युद्गम्य च काकुत्स्थः क्रोशमात्रं सहानुजः || गार्ग्य संपूजयामास यथा शक्रो बृहस्पतिम् ॥५॥ तथा संपूज्य तमृषिं तद्धनं प्रतिगृह्य च ॥ पृष्ट्वा प्रतिपदं सर्व कुशलं मातुलस्य च ॥ उपविष्टं महाभागं रामः प्रष्टुं प्रचक्रमे ॥ ६ ॥ किमाह मातुलो वाक्यं यदर्थ भगवन्निह ॥ प्रातो वाक्यविदां श्रेष्ठः साक्षादिव बृहस्पतिः ॥ ७ ॥ रामस्य भाषितं श्रुत्वा महर्षिः कार्यविस्तरम् ॥ वक्तुमद्भुतसङ्काशं राघवायोपचक्रमे ॥ ८ ॥ मातुलस्ते महाबाहो वाक्यमाह नरर्षभ || युधाजितप्रीतिसंयुक्तं श्रूयतां यदि रोचते ॥ ९ ॥ अयं गन्धर्वविषयः फलमूलोपशोभितः ॥ सिन्धोरुभयतः पार्श्वे देशः परमशोभनः ॥ १० ॥ तं च रक्षन्ति गन्धर्वाः सायुधा युद्धकोविदाः ॥ शैलूपस्य सुता वीर त्रिकोट्यो वै महाबलाः ॥ ११ ॥ तान्विनिर्जित्य काकुत्स्थ गन्धर्वनगरं शुभम् || निवेशय महाबाहो स्वपुरे सुसमाहिते ॥ १२ ॥ स्मेत्यनुकर्षः । पितॄन् देवान् विवर्धयन् यज्ञांश्चकारे- ति । पिण्डपितृयज्ञानित्यर्थः॥ १९ ॥ वर्धयानस्य वर्धमानस्येत्यर्थः ||२०|| इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटा ख्याने उत्तरकाण्ड- व्याख्याने एकोनशततमः सर्गः ॥ ९९ ॥ अश्वपतिनः अश्वपतेः ॥ ४ -५ ॥ प्रतिपदमिति । प्रत्येकं कुशलं पृष्ट्वेत्यर्थः ॥ ६–९ ॥ सिन्धोः सिन्धु- नद्याः । अयं देशः अस्मद्देशसमीप इत्यर्थः ॥ १० ॥ शैलूष: गन्धर्वराजः ॥ ११ ॥ स्वपुरे चेति । तद्देश याय तस्याः अनु पश्चात् इयाय । कालधर्ममितिशेषः । बहुविधं नानाप्रकारें ॥ १६ ॥ ति० यत्तु ' एवं प्रशासतस्तस्यराघवस्य महेश्वरि । अत्ययाद्दशसाहस्रंरममाणस्यसीतया । ' इतिपाद्मेउक्तं तत्रसीतयाभूमौस्थितयास्थितस्य रममाणस्य | राज्यं कुर्वतइत्यर्थः । साहस्रमितिस्वार्थेऽण् । अत्ययाद्वर्षसाहस्रंइतिपाठेसहस्राणांसमूहःसाहस्रं । सहस्र समूहइत्यर्थक तयादशसहस्रेत्यर्थकमेव । आयु: तस्यैकादशसहस्रवर्षाणि ॥ स० वर्षसहस्राणि ' एवंत्रयोदशसहस्रसमाः' इत्यायुक्तप्रकारेणज्ञेयानि । ननुपाद्मे - एवं प्रशासत- स्वस्थ राघवस्यमहेश्वरि । अत्ययाद्दशसाहस्रंरममाणस्य सीतया' इत्युक्तेः कथंत्रयोदशेत्युक्तिरितिचेत् मुख्यासंख्यादशपर्यन्तमिति तथोक्तिः । मानान्तरोक्तसंख्याग्रहेणाविरोधोपपत्तेः । अत्ययाद्वर्षसाहस्रमितिपाठंधत्वासहस्राणांसमूहइत्यर्थंकतयादशसहस्रेत्यर्थ- कमेवेतिनागोजिभट्टः । तत्रअचित्तेत्यत्रसूत्रे अचित्तः सइतितञ्चित्तैर्मन्तव्यं ॥ २० ॥ इत्येकोनशततमः सर्गः ॥ ९९ ॥ स० युधाजित् भरतमातुलः ॥ १ ॥ स० पतमुत्पतनं । अश्वैःपतमस्यास्तीतितत्पती । तस्याश्वपतिनः ॥ ४ ॥ स० प्रतिपदं प्रतिपृच्छास्पदंजनं ॥ ६ ॥ स० सिन्धोर्नदस्य ॥ १० ॥ [पा०] १ ग. यज्ञैर्बहुविधैश्चापिवर्तयामास नित्यशः. २ क. ख. घ. वर्धयामासनित्यदा ३ च. छ. दृष्ट्वाचप्रीतिमतुलांकुशलं.
पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२५०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति