पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १०१] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २४७ अन्यस्य न गतिस्तत्र देशः परमशोभनः ॥ रोचतां ते महाबाहो नाहं त्वामहितं वदे ॥ १३ ॥ तच्छ्रुत्वा राघवः प्रीतो महर्षेर्मातुलस्य च ॥ उवाच वाढमित्येव भरतं चान्ववैत ॥ १४ ॥ सोब्रवीद्राघवः प्रीतः साञ्जलिप्रग्रहो द्विजम् ॥ इमौ कुमारौ तं देशं ब्रह्मर्षे विचरिष्यतः ॥ १५ ॥ भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव च ॥ मातुलेन सुगुप्तौ तु धर्मेण सुसमाहितौ ॥ १६ ॥ भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौ || निहत्य गन्धर्वसुतान्द्वे पुरे विभजिष्यतः ॥ १७ ॥ निवेश्य ते पुरवरे आत्मजौ सन्निवेश्य च || आगमिष्यति मे भूयः सकाशमतिधार्मिकः ॥ १८ ॥ ब्रह्मर्षिमेवमुक्त्वा तु भरतं सबलानुगम् || आज्ञापयामास तदा कुमारौ चाभ्यषेचयत् ॥ १९ ॥ नक्षत्रेण च सौम्येन पुरस्कृत्याङ्गिरः सुतम् || भरतः सह सैन्येन कुमाराभ्यां विनिर्ययौ ॥ २० ॥ सा सेना शक्रयुक्तेव नगरान्निर्ययावथ || राघवानुगता दूरं दुराधर्षा सुरैरपि ॥ २१ ॥ मांसादानि च सत्त्वानि रक्षांसि सुमहान्ति च ॥ अनुजग्मुर्हि भरतं रुधिरस्य पिपासया ॥ २२ ॥ भूतग्रामाश्च बहवो मांसभक्षाः सुदारुणाः || गन्धर्व पुत्र मांसानि भोक्तकामाः सहस्रशः ॥ २३ ॥ सिंहव्याघ्रवराहाणां खेचराणां च पक्षिणाम् ॥ बहूनि वै सहस्राणि सेनाया ययुरग्रतः ॥ २४ अध्यर्धमासमुषिता पथि सेना निरामया || हृष्टपुष्टजनाकीर्णा केकयं समुपागमत् ॥ २५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे शततमः सर्गः ॥ १०० ॥ एकोत्तरशततमः सर्गः ॥ १०१ ॥ भरतेन युधाजितासह गन्धर्वदेशगमनेनतद्धननपूर्वकं तक्षशिलापुष्कलावताख्यनगरयोः क्रमेणतक्षपुष्कलयोरभिषेकक- रणेनरामसमीपमेय गन्धर्ववधनिवेदनम् ॥ १ ॥ श्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः ॥ युधाजिद्गार्ग्यसहितं परां प्रीतिमुपागमत् ॥ १ ॥ स निर्ययौ जनौधेन महता केकयाधिपः ॥ त्वरमाणोभिचक्राम गन्धर्वान्कामरूपिणः ॥ २ ॥ इति शेषः ॥ १२ ॥ अन्यस्य त्वद्व्यतिरिक्तस्य । तत्र | यानं सुशकुनं । अभिमुखतः आगमनमेवापशकुनं देशे गतिः प्राप्तिप्रसङ्ग एव नास्तीत्यर्थः । तत्साधने ॥ २४ ॥ केकयं युधाजितमित्यर्थः ॥२५॥ इति श्रीगो- फलमुक्तं – देशः परमशोभन इति ॥ १३ ॥ भरतं विन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटा- चान्ववैक्षतेति । पर्यालोचनार्थमित्यर्थः || १४ - २०॥ शक्रयुक्तेव इन्द्रयुक्ता देवसेनेव । नगरान्निर्ययौ |ख्याने उत्तरकाण्डव्याख्याने शततमः सर्गः ॥१००॥ दूरमिति । एकद्विवासरपर्यन्तमित्यर्थः ॥ २१-२३ ॥ सेनाया अप्रतो ययुरिति । पिशिताशनादीनामग्रतो सेनापति प्राप्तं युद्धसन्नाहं श्रुत्वा ॥ १-२॥ स० वदे वदामि ॥ १३ ॥ स० साञ्जलिप्रग्रहः अञ्जलिसहितबाहुकः ॥ १५ ॥ ति० तक्षइत्यकारान्तः | मातुलेन भरतमातुलेन युधाजिता ॥ १६ ॥ ति० पुरवरे निवेश्यनिर्मायआत्मजौसंनिवेश्य । तयोःपुरयोरितिशेषः । अतिधार्मिकोभरतः ॥ स० अतिधार्मिकः अनेनतद्देशमानोरम्यात्किरामेणकिमयोध्ययेतिदुर्धियंनतनुयादनुजइतिसूचयति ॥ १८ ॥ ति० अङ्गिरस्सुतं गार्ग्य ॥ २० ॥ स० राघवानुगता रामेणदूरप्रेषणप्रेमनैर्भर्येणदूरमनुगता ॥ २१ ॥ स० रुधिरय गान्धर्वस्य ॥ २२ ॥ इति- शततमः सर्गः ॥ १०० ॥ स० निर्ययौ प्रामाहिः | अभिचक्राम गतवान् ॥ २ ॥ [ पा० ] १ क. सुताञ्शत्रून्वैविभजिष्यतः ग. सुतान्पुराणिविभजिष्यतः २ क. सुरासुरैः ३ ख. घट. गन्धर्वा न्केकयाधिपः क. गन्धर्वान्देवरूपिणः.