पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४८ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ भरतश्च युधाजिच्च समेतौ लघुविक्रमैः ॥ गन्धर्वनगरं प्राप्तौ सवलौ सपदानुगौ ॥ ३॥ श्रुत्वा तु भरतं प्राप्तं गन्धर्वास्ते समागताः || योद्धुकामा महावीर्या व्यनद्न्वै समन्ततः ॥ ४ ॥ ततः समभवद्युद्धं तुमुलं रोमहर्षणम् || सप्तरात्रं महाभीमं न चान्यतरयोर्जयः ॥ ५॥ खड्गशक्तिधनुर्ग्राहा नद्यः शोणितसंस्रवाः ॥ नृकलेबरवाहिन्यः प्रवृत्ताः सर्वतो दिशम् ॥ ६॥ ततो रामानुजः क्रुद्धः कालस्यास्त्र सुदारुणम् || संवर्त नाम भरतो गन्धर्वेष्वभ्यचोदयत् ॥ ७ ॥ ते बद्धाः कालपाशेन संवर्तेन विदारिताः || क्षणेनाभिहतास्तेन तिस्रः कोट्यो महात्मनाम् ॥ ८ ॥ तं घातं घोरसङ्काशं न स्मरन्ति दिवौकसः || निमेषान्तरमात्रेण तादृशानां महात्मनाम् ॥ ९ ॥ हतेषु तेषु सर्वेषु भरतः केकयीसुतः || निवेशयामास तदा समृद्धे द्वे पुरोत्तमे ॥ १० ॥ तक्षं तक्षशिलायां तु पुष्कलं पुष्कलावते || गन्धर्वदेशे रुचिरे गान्धारविषये च सः ॥ ११ ॥ धनरत्तौघसंपूर्ण काननैरुपशोभिते || अन्योन्यसंघर्षकृते स्पर्धया गुणविस्तरैः ॥ १२ ॥ उभे सुरुचिरप्रख्ये व्यवहारैर किल्बिषैः ॥ उद्यानयान संपूर्ण सुविभक्तान्तरापणे ॥ १३ ॥ उभे पुरवरे रम्ये विस्तरैरुपशोभिते || गृहमुख्यैः सुरुचिरैर्विमानसमवर्णिभिः ॥ १४ ॥ शोभिते शोभनीयैश्च देवायतनविस्तरैः ॥ तालैस्तमालैस्तिलकैर्बकुलैरुपशोभिते ॥ १५ ॥ निवेश्य पञ्चभिर्वषैर्भरतो राघवानुजः || पुनरायान्महावाहुरयोध्यां केकयीसुतः ॥ १६ ॥ सोभिवाद्य महात्मानं साक्षाद्धर्ममिवापरम् || राघवं भरतः श्रीमान्ब्रह्माणमिव वासवः ॥ १७ ॥ शशंस च यथावृत्तं गन्धर्ववधमुत्तमम् || निवेशनं च देशस्य श्रुत्वा प्रीतोस्य राघवः ॥ १८ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोत्तरशततमः सर्गः ॥ १०१ ॥ सबलौ चतुरङ्गबलसहितौ । सपदानुगौ शूद्रवैश्याद्य- | अकिल्बिषैः धर्मन्यायोपेतैर्व्यवहारैः क्रयविक्रयादि- नुचरसहितौ || ३ || व्यनदन् गर्जन्ति स्म ॥ ४ - ५॥ व्यापारैः ॥ १३ ॥ विमानसमवर्णिभिः देवायतनव खङ्गेति । खङ्गादिरूपा ग्राहा यासु ताः । संस्रव: प्रवाहः। द्विस्तारैः | गृहमुख्यैरभित उपशोभिते । विमानैर्ब- नुकलेवराणि नद्याः काष्ठानि वहन्तीति तथा ॥ ६ ॥ हुभिर्वृत इति च पाठः ॥ १४-१८ ॥ इति श्रीगो- संवर्तनामेति । प्रलयकालाग्याख्यमित्यर्थः ॥ ७-८ ॥ | विन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटा- तं घातं दिवौकसः न स्मरन्तीति । त्रिकोटिगन्धर्व- ख्याने उत्तरकाण्डव्याख्याने एकोत्तरशततमः घातोऽसंभाव्य इत्येव स्मृत्वा स्थितवन्त इत्यर्थः ॥९॥ सर्गः ॥ १०१ ॥ द्वे पुरेति । तक्षशिलापुष्कलावताख्ये ॥ १० - १२॥ स० सबलौ सचतुरङ्गौ सबाहुबलौवा ॥ ३ ॥ स० अन्यतरयोः राघवगान्धर्वयोर्मध्ये एकस्येत्यन्यतरयोः ॥ ५ ॥ स० द्वेपुरोत्तमे रामाज्ञाप्रकारेणद्वयोः पुत्रयोः ॥ १० ॥ स० तयोरभिधेयेनैवतयोरभिधेयमभिधत्ते — तक्षमिति ॥ ११ ॥ स० गुणविस्तरैःकारणैःअन्योन्यंसंघर्षकृते अहंमहीयोऽहंमहीय इतिस्पर्धाकृते । गुणविस्तरैः स्पर्धयाउभेब्रह्मसभेइववा । तत्रत्यलोकस्पर्धा- विवक्षया पुरस्पर्धाभिधानमितिज्ञेयं ॥ १२ ॥ स० विस्तरैः वीनां पक्षिणांपारावतादीनांस्तरआस्तरणंयत्रता निविस्तराणितैः । सनी- डैःगृहमुख्यैः । विस्तरैःअनुक्तपदार्थविस्तरैरितिनागोजिभः । विमानैः सप्तभूमप्रासादैः ॥ १५ ॥ स० पञ्चभिर्वषैः । ताव न्तिदिनानिपुर निर्माणलग्नानि ॥ १६ ॥ स० ब्रह्माणवासवइवाभिवाद्यशशंसेत्यन्वयः ॥ १७ ॥ स० अस्यभरतस्योपरि ॥ ति० स्वस्माद्यथावृत्तंगन्धर्ववधंदेशस्य निवेशनंचशशंस । अस्यभरतस्यवाक्यंश्रुत्वा राघवोरामः प्रीतोबभूव ॥ १८ ॥ इत्येको- त्तरशततमः सर्गः ॥ १०१ ॥ [ पा० ] १ क. ग. च. छ. ज. ञ. लघुविक्रमौ. २ ङ. च. छ. झ ञ ट . विमानैर्बहुभिर्वृते. ३ ख. ग. सोऽभिगम्य,