सर्ग: १०५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २५५ विषयं त्वां पुरं चैव शपिष्ये राघवं तथा ॥ भरतं चैव सौमित्रे युष्माकं या च सन्ततिः ॥ ७ ॥ न हि शक्ष्याम्यहं भूयो मन्युं धारयितुं हृदि ॥ तच्छ्रुत्वा घोरसङ्काशं वाक्यं तस्य महात्मनः ॥ चिन्तयामास मनसा तस्य वाक्यस्य निश्चयम् ॥ ८॥ एकस्य मरणं मेऽस्तु मा भूत्सर्वविनाशनम् ॥ इति बुद्ध्या विनिश्चित्य राघवाय न्यवेदयत् ॥ ९ ॥ लक्ष्मणस्य वचः श्रुत्वा रामः कालं विसृज्य च || निसृत्य त्वरितं राजा अत्रेः पुत्रं ददर्श ह ॥१०॥ सोभिवाद्य महात्मानं ज्वलन्तमिव तेजसा || किं कार्यमिति काकुत्स्थः कृताञ्जलिरभाषत ॥ ११ ॥ तद्वाक्यं राघवेणोक्तं श्रुत्वा मुनिवरः प्रभुम् || प्रत्याह रामं दुर्वासाः श्रूयतां धर्मवत्सल ॥ १२ ॥ अद्य वर्षसहस्रस्य समाप्तिस्तपसो मम || सोहं भोजनमिच्छामि यथासिद्धं तवानघ ॥ १३ ॥ तच्छ्रुत्वा वचनं राजा राघवः प्रीतमानसः ॥ भोजनं मुनिमुख्याय यथासिद्धमुपाहरत् ॥ १४ ॥ स तु भुक्त्वा मुनिश्रेष्ठस्तदन्नममृतोपमम् || साधु रामेति संभाष्य स्वमाश्रममुपागमत् ॥ १५ ॥ तस्मिन्गते मुनिवरे स्वाश्रमं लक्ष्मणाग्रजः ॥ संस्मृत्य कालवाक्यानि ततो दुःखमुपागमत् ॥ १६ ॥ दुःखेन च सुसंतप्तः स्मृत्वा तद्धोरदर्शनम् || अवाज्जुखो दीनमना व्याहतु न शशाक ह ॥ १७ ॥ ततो बुद्ध्या विनिचित्य कालवाक्यानि राघवः ॥ नैतदस्तीति निश्चित्य तूष्णीमासीन्महायशाः ॥ १८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चोत्तरशततमः सर्गः ॥ १०५ ॥ दयेति । न निवेदयसि यदि तर्हि शपिष्य इति | निश्चित्य सामान्यतो नैतदस्तीति एतन्मम भ्रातृभू- ॥६- १२॥ वर्षसहस्रस्येति । अनशन नियमोपगृहीत- त्यादिपरिकरजातं सर्वमपि नास्तीति चोक्त्वा तूष्णी- वर्षसहस्रस्येत्यर्थः । यथासिद्धं यथोपपन्नं ॥ १३ ॥ मासीत् | लक्ष्मणस्यापराधं नोद्भावितवानित्यर्थः ॥ १८ ॥ राघवः प्रीतमानस इति । मुनिकोप : परिहृत इति इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे प्राप्तसंतोष इत्यर्थः ॥ १४ – १७ ॥ ततोऽनन्तरं मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चोत्तरश- कालवाक्यानि बुद्ध्या विनिश्चित्य सभ्रातृपुत्रभृत्यव- | ततमः सर्गः ॥ १०५ ॥ गंस्य मम सर्वोपसंहारकाल: प्राप्तः उचित एवेति > रामायप्रतिवेदय । यदिनप्रतिवेदयेस्तर्हिविषयादिकंशपइत्यर्थ इतियथाक्रमंव्याकुर्वन्नागोजि भट्टस्त्यतैतत्संसारइतिपाणिनीयप्रवीणैर्बहु- माननीयः ॥ ६ ॥ ति० एकस्यमरणंमेऽस्तु । द्वन्द्वमध्येपुरुषान्तरसंदर्शकत्वेयथाप्रतिज्ञंममवधस्यप्राप्तत्वादितिभावः ॥ स० सर्वविनाश रामनाशएवसर्वनाशइतिभावः । विनिश्चित्य निर्धार्य । अत्रलक्ष्मणस्य संनिधिगमनं रामस्यतापसागति विज्ञापनं | पाद्मेच——तस्यशापभयाद्विप्रंराघवायन्यवेदयत् । तत्रैवान्तर्दधेकालोराघवोपिविनिर्गतः' इतिश्रूयते । श्रीमदाचार्यैस्तु — इति- मलाद दौमार्गसतुदुर्वाससेतदा ' इतिप्रोक्तं । तत्कथमितिचेत् रामायणपाद्मवचसामसांवलियेन यद्यत्रप्रविशेत्कश्चिद्धन्मित्वां इत्यादिवादानुकूल्याच मार्गददा वित्यस्य रामदर्शनोपायंददावित्यर्थोपपत्तेः । अन्यथा “ यद्यत्र प्रविशेत्कश्चित्स मेवघ्योभविष्यति इतिस्फुटमुक्तेर्दुर्वाससोपिपरासूकरणप्रसंगात् कल्पभेदेनलक्ष्मणगमनपरमितरद्वाक्यं वाक्यंचाचार्याणांकल्पान्तरविवक्षयेति महामार्गेणाविरोधोपपत्तिर्वाऽनुसन्धेया ॥ ९ ॥ स० वर्षसहस्रस्य । अनशन नियमगृहीतव्रत विशेष समाप्तिसंकल्पितस्य । यथा सिद्धं नप्राक् नेतः परंसाध्यं किंतुसाद्यस्कं । " सिद्धंनदेयमुतसाध्यं " इतिश्रीमदुक्तेः ॥ १३ ॥ स० तत्क्षणेयथासिद्धं तदुक्तरी- त्यासिद्धं । उपाहरत् खहस्ततः । “ अस्यवाक्समयजातमुरुस्खहस्तात् । अन्नंचतुर्गुणमदादमृतोपमानंरामस्तदाप्यबुभुजेऽथमुनिः सुतुष्टः " इतिश्रीमदुक्तेः ॥ १४ ॥ स० कालवाक्यानि द्वन्द्वेकश्चिदविपश्चिदायातश्चेत्पश्चिमांदशांयापनीयइत्यादीनि । अत्यन्त - बन्धुनोत्कट संकटनिविष्टेनान्तः प्रविष्टंविनामारणंनस्थेयं नचमारणंविहित मितिदुःखमुपागमत् । यःकश्चिद्यथाघोरदर्शनकिञ्चित्प्राच्यु- दञ्चितंविचित्ययथादुःखेनसंतप्तोभवतितथा । कालवाक्यानि स्वलोकगमनविषयाणि । संस्मृत्य | ततः तदनन्तरं । अदुःखं सुखं । उपागमत् । तत् घोरदर्शनंभ्रातृमारणरूपंस्मृत्वादुःखेनचसंतप्तोऽभूदितिवाऽर्थः ॥ १६ ॥ इतिपञ्चोत्तरशततमःसर्गः १०५॥ [ पा० ] १ च. छ. राजाहर्षेणमहतावृतः, क. ग. घ. राजाहर्षेणमह्तान्वितः 33
पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२५९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति