सर्गः १०८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । आराधय जगन्नाथमिक्ष्वाकुकुलदैवतम् || आराधनीयमनिशं सर्वैर्देवैः सवासवैः ॥ ३१ ॥ तथेति प्रतिजग्राह रामवाक्यं विभीषणः ॥ राजा राक्षसमुख्यानां राघवाज्ञामनुस्मरन् ॥ ३२ ॥ तमेवमुक्त्वा काकुत्स्थो हनूमन्तमथाब्रवीत् || जीविते कृतबुद्धिस्त्वं मा प्रतिज्ञां विलोपय || ३३ || मत्कथा: प्रचरिष्यन्ति यावल्लोके हरीश्वर ॥ तावद्रमस्व सुप्रीतो मद्राक्यमनुपालयन् ॥ ३४ ॥ एवमुक्तस्तु हनुमात्राघवेण महात्मना || वाक्यं विज्ञापयामास पर हर्षमैवाप्य च ।। ३५ ।। यावत्तव कथा लोके विचरिष्यति पावनी ॥ तावत्स्थास्यामि मेदिन्यां तवाज्ञामनुपालयन् || ३६ ॥ जाम्बवन्तं तथोक्त्वा तु वृद्धं ब्रह्मसुतं तथा ॥ मैन्दं च द्विविदं चैव पञ्च जाम्बवता सह || यावत्कलिथ संप्राप्तस्तावज्जीवत सर्वदा ॥ ३७ ॥ तानेवमुक्त्वा काकुत्स्थः सर्वोस्तानृक्षवानरान् || उवाच बाढं गच्छध्वं मया सार्धं येथेप्सितम् ॥ ३८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टोत्तरशततमः सर्गः ॥ १०८ ॥ २६१ स्ति - यावत्प्रजा इति । धरिष्यसीति । देहमिति शेषः | ब्रह्मपुत्रत्वात् ब्रह्मणैव दत्तवरत्वाच्च स्थापनं । मैन्दद्वि- ॥ २७ – ३२ ॥ अथ हनुमतोपि अमरत्वं प्रति ब्रह्म दत्तवरत्वात् यावद्रामकथाप्रचार : भूलोके तावत् तच्छ्रवणस्य प्रार्थितत्वात् तथा रामेणानुज्ञातत्वाच्च तस्य च स्थापनं । जीवित इत्यादि । जीविते जीविता- वस्थाने कृतबुद्धिः कृतनिश्चयः सन् प्रतिज्ञां त्वत्कृतां मा विलोपय | मा प्रतिज्ञां वृथा कृथा इति च पाठः ॥ ३३ ॥ उक्त एवार्थः स्पष्टीक्रियते - मत्कथा इति ॥ ३४ – ३६ ॥ जाम्बवन्तमिति ॥ जाम्बवतोपि । विदयोरपि पित्रोरश्विनोरनुग्रहादमृतप्राशित्वाञ्च स्था- पनं । विभीषणादयोमराः पञ्च ते यूयं यावत्कलिः यावत्प्रलयः । तावजीवत | कलौ प्रलये संप्राप्ते सति देहं त्यजतेति शेषः ॥ ३७ ॥ सर्वोस्तानिति । पश्चा- मरव्यतिरिक्तानित्यर्थः ॥ ३८ ॥ इति श्रीगोविन्दरा- जविरचित श्रीमद्रामायणभूषणेमणिमुकुटाख्याने उत्त- रकाण्डव्याख्याने अष्टोत्तरशततमः सर्गः ॥ १०८ ॥ ममपदंत्रज | इत्युक्त्वाप्रददौ तस्मैव विश्लेषासहिष्णवे । श्रीरङ्गशायिनंस्वार्चामिक्ष्वाकुकुलदैवतम् । रङ्गंविमानमादायलङ्कांप्राया- द्विभीषणः ।' इति । तदाह — किंचेति । इदंसार्ध श्लोकद्वयंप्रक्षिप्तमित्यन्ये ॥ ३० ॥ स० मद्वाक्यं इदानीमुक्तं ॥ ३४ ॥ स० जांबवदादीनांरामेणसहगमनाभावे ' उत्पत्त्यर्थेजांबवत्याः ' 'असुरावेशतस्तौतुनराम मनुजग्मतुः' इत्याद्याचार्यो नि मित्तमनुसन्धेयम् ॥ जांबवन्तं मैन्दंद्विविदंचोक्त्वाकाल निष्कर्ष पूर्व मुक्तं हनुमद्विभीषणाभ्यांसहाह–पञ्चजांबवतेति । कार्ष्ण- ऽवतारे मैन्द द्विविदजांबवतांनाशः | हनुमद्विभीषणयोस्तुप्रलयकालेइतिप्रामाणिको विवेकः । ‘ कल्पान्तमस्य निशिचरपतित्वपूर्व- मायुःप्रदाय ' इत्यादेः ॥ ३७ ॥ इत्यष्टोत्तरशततमः सर्गः ॥ १०८ ॥ [ पा० ] १ ङ. च. झ. ट. प्रतिज्ञांवृथाकृथाः २ क— घ. ज. तावत्त्वंधारय प्राणान्प्रतिज्ञामनुपालय ३ ङ. छ. झ ञ ट. मवापच. ४ ङ छ – ट. यथोदितं.
पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२६५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति