पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११० ] त्वामचिन्त्यं महद्भूतमक्षयं सर्वसंग्रहम् ॥ १० ॥ यामिच्छसि महातेजस्तां तनुं प्रविश स्वयम् ॥ ११ ॥ पितामहवचः श्रुत्वा विनिचित्य महामतिः ॥ विवेश वैष्णवं तेजः सशरीरः सहानुजः ॥ १२ ॥ ततो विष्णुमयं देवं पूजयन्ति स देवताः ॥ साध्या मरुद्गणाश्चैव सेन्द्राः साग्निपुरोगमाः ॥ १३ ॥ ये च दिव्या ऋषिगणा गन्धर्वाप्सरसच याः ॥ सुपर्णनागयक्षाश्च दैत्यदानवराक्षसाः ॥ १४ ॥ सर्वे पुष्टं प्रमुदितं सुसंपूर्ण मनोरथम् || साधु साध्विति तैर्देवैखिदिवं गतकल्मषम् ॥ १५ ॥ अथ विष्णुर्महातेजाः पितामहमुवाच ह ॥ एषां लोकं जनौघानां दातुमर्हसि सुव्रत ॥ १६ ॥ इमे हि सर्वे स्नेहान्मामनुयाता मनस्विनः ॥ भक्ता हि भजितव्याश्च त्यक्तात्मानच मत्कृते ||१७|| तच्छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुः ॥ लोकान्सान्तानिकान्नाम यास्यन्तीमे समागताः॥१८॥ यच्च तिर्यग्गतं किंचित्वामेवमनुचिन्तयत् ॥ प्राणांस्त्यक्ष्यति भक्त्या वै तत्सन्ताने विवत्स्यति ॥ १९॥ श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २६५ हीत्यादिना || मायां लक्ष्मीं । पूर्वपरिग्रहां अनादि | कथं ब्रह्मविद्यारहितानामेषां ब्रह्मलोकप्राप्तिरित्यत्राह- तया परिगृह्यमाणां । नित्यानपायिनीमित्यर्थः । सर्व- इमे हीति ॥ भक्ताः भक्तिमन्तः मत्कृते त्यक्तामानश्च संग्रहं सर्वानुग्राहकं । अक्षयं चाजरं तथेति च पाठः ॥ १७ ॥ सान्तानिकान् सान्तानिकाख्यान लोकान् ।। १०-१५ ।। विष्णुः विष्णुत्वं प्राप्तः रामः । लोकं संप्राप्ताः सन्तः यास्यन्ति | त्वल्लोकमिति शेषः ॥ १८॥ दातुमर्हसि । आतिवाहिकतया दातुमर्हसीत्यर्थः||१६|| न केवलमेत एव इतः परमपि ये रामभक्तास्तेपि । । हेमहातेजः वैष्णवीं औपेन्द्रीं । यतोमनुष्यदेहस्तांवाप्रविश | यद्वाकाशंसनातनं । यद्वा सनातनमाकाशं | शुद्धब्रह्मरूपंवाप्रविश | तद्रूपेणवातिष्ठेत्यर्थः । आकाशशब्दोहिब्रह्मणितत्रतत्रश्रुतिपुप्रसिद्धः । कतकस्तु — 'वैष्णवतां महातेजः स्वांतनुंप्रविशस्वयम्' ॥ इतिपाङ्कःपाठः । यामिच्छसीत्येतत्प्राक्तनमर्धेचप्रामादिकमियाह । अग्रेचपितामहवचइतिश्लोकइति । तत्स्वरसः | तीर्थस्तु यद्वा- काशंसनातन मितिव्याख्यायातः परंब्रह्मास्तौति – त्वंहीति | लोकगतिः लोकानांवर्गादिकंगमयिता । लोकैर्गम्यञ्चत्वमेवेत्यर्थः । त्वांकेचित् अतिशयिततपस्संपन्नाअपिनप्रजानते ॥ स० तर्हिकर्हिचिदपित्वत्तोवित्ताधिकारोनाधिकरोतिकमपिकिमित्यतआह - ऋतइति । मायांविशालाक्षी लक्ष्मीं | तवपूर्वपरिग्रहां पूर्वपरिग्रहोमदीयेतिस्वीकरणंयस्याःसातां । विशालाक्षीं स्वपरसाधारण्येन बहुविषयांपूर्वपरिग्रहांमायांज्ञानशक्तिमिच्छाशक्तिवाऋते । परिग्रहमितिपाठः स्वरसः | भार्यामिति तदर्थः । त्वामचिन्त्यं इयानिति- ससीमत्वेनचिन्तयितुमशक्यं । महद्भूतंलोकप्रवेशकं । अक्षयमनन्तं । अजरं षडूमिरहितं । केपिमायामृतेनजानतइत्यन्वयः || ति० तर्हिकिमज्ञेय एवसर्वथा नेत्याह — ऋतइति । मायांज्ञानशक्तिरूपांविनाऽन्येनजानन्तीत्यर्थः । विशालाक्षीमित्यनेन तस्याः सर्वविषयतासूचिता । पूर्वपरिग्रहां | तेनसहजत्वंसूचितं | श्रवणमनननिदिध्यासनादिनाईंदृशीज्ञानशक्तिर्येषांप्रादुर्भवतित एवत्वां जानन्तीतितात्पर्यम् । तत्रतादृशज्ञानविषयंस्वरूपमाह -लामिति । अचिन्त्यं देशतः परिच्छेदशून्यं । अतएवमहद्भूतंत्राप्तं । अविशेषात्सर्ववस्तुभिरितिशेषः । तेनवस्तुपरिच्छेदशून्यं । अक्षयं कालपरिच्छेदशून्यं । अजरं अविकारिणं ॥ १० ॥ ति० एवंस्तुत्वाप्रकृतं विज्ञापयति — यामिति ॥ ११ ॥ ति० अथस्खसालोक्यकाङ्गिणोजनान्सन्तानापरपर्यायंस्खलोकंप्रापय्यक्रमेण परमंपदनेतुकामः दयालुर्भगवान् स्वतोप्यस्मानुत्तमं लोकंप्रापितवानितितत्तोषायौपेन्द्रलोक मेवगच्छतिस्मैत्याह- पितामहेति । महामतिः सर्वज्ञोभगवान्विनिश्चित्यप्रागुक्तंनिश्चयंकृत्वासशरीरोवैष्णवंतेजोयज्ञज्वालावत्तेजोमय मौपेन्द्रविवेश । अनेन तेजोमयएव होमाययामनुष्यदेहादिभिर्मनुष्य देहत्वेनगृहीत इतिध्वनितं | तेजःप्रवेशे जलेजलवद्विवेकेनाग्रहात्सहानुज इत्यनेनानुजशरीराणा- मपितथैवतेजोमयत्वंसूचितं । सशरीरशब्दबोधितवसाहचर्येण तेषामपिसशरीरप्रवेशबोधनात् ॥ स० सशरीरः तस्यापिज्ञाना- नन्दाद्यात्मकत्वात् । सहानुजः । अनेन तेषामपिनशरीरविसर्जन मितिध्वन्यते । शरीरपरित्यागस्यात्रेवपाद्मादावप्यनुक्तेश्च । इतरविषयेशरीरत्यागस्यवक्ष्यमाणत्वाच | पूर्णमेवावशिष्यतेइत्यादेरेकीभावः ॥ १२ ॥ ति० लय्यत्रागते सर्व मिदंत्रिदिवस्थजन- जातंपुष्टंप्रमुदितं । सुसंपूर्णमनोरथंगतकल्मषंचजात मिति तैर्देवैः साधुसाध्वितिभाषितं ॥ १५ ॥ स० विष्णु: खाम्तर्निगूहित- रघुनायककायः । एषां एभ्यः ॥१६॥ स० किमर्थ मत्यर्थमेतदनुजिघृक्षातवेत्यतआह–इमेहीति । मामनुयाताः । तत्रनिमित्तंने- होभक्तिः ॥ १७ ॥ ति० लोकगुरुः सर्वजगत्कर्ता । वेदादिसर्ववियोपदेष्टाच । प्रभुः नित्यनैमित्तिक विहित निषिद्ध कर्मणांफल- प्रापणेसमर्थः ॥ १८ ॥ ति० ननुकथंब्रह्मविद्गम्योब्रह्मलोकोवानरप्राप्यस्तत्राहयचेति । तिर्यग्गतम पियत्किंचिद्यत्रक्कापिपदार्थे [ पा०] १ क-घ. ज. विष्णुगतं. वा. रा. २७४ 1