पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १११ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । एकादशोत्तरशततमः सर्गः ॥ १११ ॥ वाल्मीकिना श्रीरामायणस्यवेदसमत्वोक्तिपूर्वकं तत्पठनादेः फलनिरूपणम् ॥१॥ एतावदेतदाख्यानं सोत्तरं ब्रह्मपूजितम् ॥ रामायणमिति ख्यातं मुख्यं वाल्मीकिना कृतम् ॥ १ ॥ ततः प्रतिष्ठितो विष्णुः स्वर्गलोके यथापुरम् | येन व्याप्तमिदं सर्व त्रैलोक्यं सचराचरम् ॥ २ ॥ ततो देवाः सगन्धर्वाः सिद्धाश्र परमर्षयः ॥ नित्यं शृण्वन्ति संतुष्टा दिव्यं रामायणं दिवि ॥ ३ ॥ इदमाख्यानमायुष्यं सौभाग्यं पापनाशनम् || रामायणं वेदसमं श्राद्धेषु श्रावयेद्बुधः ॥ [गायत्र्याश्च स्वरूपं तद्रामायणमनुत्तमम् ॥ ४ ॥ ] अपुत्रो लभते पुत्रमधनो लभते धनम् ॥ सर्वपापैः प्रमुच्येत पैदमप्यस्य यः पठेत् ॥ ५॥ पापान्यपि च यः कुर्यादहन्यहनि मानवः ॥ पठत्येकमपि श्लोकं पापात्स परिमुच्यते ॥ ६ ॥ वाचकाय च दातव्यं वस्त्रं धेनुं हिरण्यकम् || वाचके परितुष्टे तु तुष्टाः स्युः सर्वदेवताः ॥ ७ ॥ एतदाख्यानमायुष्यं पठन्रामायणं नरः || सपुत्रपौत्रो लोकेस्मिन्प्रेत्य चेह महीयते ॥ ८ ॥ [ रामायणं गोविसर्गे मध्याह्ने वा समाहितः ॥ सायाह्ने वाऽपराह्ने च वाचयन्नावसीदति ॥ ९ ॥] अयोध्याऽपि पुरी रम्या शून्या वर्षगणान्बहून् ॥ ऋषभं प्राप्य राजानं निवासमुपयास्यति ॥ १० ॥ २६७ रिति विशेषणात् । हृष्टैः प्रमुदितो देवैर्जगाम त्रिदिवं | प्रतिष्ठितः । स्वर्गशब्दस्य लोकपरत्वभ्रमव्यावृत्त्यर्थ महदिति च पाठः ॥ २८ ॥ इति श्रीगोविन्दराजवि- विष्णुं विशिष्टि - येनेति || २ || इदं च रामायणं न रचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्त- केवलं मनुष्याणां भोग्यं किंतु देवतानामपि भोग्य- रकाण्डव्याख्याने दशोत्तरशतमः सर्गः ॥ ११० ॥ मेवेस्याह - तत इति ॥ ततः ब्रह्मस्थानपूजितत्वादेः ॥ ३ ॥ इदमाख्यानं रामायणरूपं आयुष्यं आयुर्वर्धनं अस्य काव्यस्य अपवर्गान्तसाधकतया कथाशेषा- सौभाग्यं सौभाग्यवर्धनं श्राद्धे च श्रावयेत् । अक्षय्य - नुवादपूर्वकं पठनश्रवणादिषु फलमुपदिश्यते – एता- पितृतृप्त्यर्थमिति शेषः ॥ ४–७ ॥ लोकेस्मिन् मही- वदित्यादि | सोत्तरंउत्तरकाण्डसहितं । मुख्यं सर्वा यत इत्यनुकर्षः ॥ ८ ॥ निवासं सुजनाश्रयत्वं ॥९॥ ख्यानेभ्यः प्रशस्तमेतदाख्यानं । एतावदेव समर्यादं सहोत्तरमिति | अभिषेकानन्तरवृत्तान्तः । सीताभू- एतावच्छ्छ्रोकसर्गकाण्डसंख्याकमेव । न न्यूनं नाधिकं प्रवेशानन्तरभाविवृत्तान्तस्तु सभविष्यमित्युच्यते । ॥ १ ॥ ततः स्वभक्तजनस्य स्वर्लोकप्रापणानन्तरं कृतवान् प्रचेतस इति । तद्रामायणं ब्रह्माण्यन्वम- विष्णुः स्वर्गलोके परमस्वर्गे वैकुण्ठे यथापुरं यथापूर्वी |न्यत | अपिः प्राधान्ये । अन्वमन्यत अङ्गीकृतवान् । स० ब्रह्मपूजितं स्वकारितत्वात् स्खपूज्यदेवचरितभरितत्वाच ॥ १ ॥ स० नपरिच्छेदोहरेरितित्रिराह - येनेति । इदंत्रैलो - क्यंसचराचरंसर्वेव्याप्तमितिसंबन्धः ॥ २ ॥ ति० वेदसमं वेदवद्ब्रह्मविषयत्वेपिपौरुषेयत्वेनवेदतः किंचिन्न्यूनमित्यर्थः ॥ स० मध्यमादीनधिकारिणोत्रप्रवर्तयितुंफलमभिलपति — इदमिति | आयुष्यं नित्यायुष्यं मोक्षस्तत्साधनं । सौभाग्यं तदुत्तेजकं । वेदसमं “ वेदवेद्येपरेपुंसिजातेदशरथात्मजे । वेदःप्राचेतसादासीत्साक्षाद्रामायणाभिधः " इतिपाझोक्तेः ॥ ४ ॥ स० अस्येत्यावर्त्यते । अस्य रामायणस्य । अस्य तदन्तर्गतस्यश्लोकस्य । पादं चतुर्थांशं ॥ ५ ॥ स० प्रागुक्तादधमस्यपारायण विधिंसपरिहार्यो ति माह - पापानीति । पापात् पापेभ्यः ॥ ६ ॥ स० अयाचकायापिवाचकायकुतोदेयमित्यत आह - वाचकइति ॥ ७ ॥ ति० प्रेय मरणोत्तरमपि । इहच चात्परलोके । इहलोकेचमहीयते । इहलो केपूजाच की विच्छेदात् ॥ ८ ॥ ति० ततःपरमयो- ध्याकेनरूपेणस्थितेतिशङ्का निवृत्तयेभविष्यद्वृत्तान्तमाह-अयोध्यापीति | रम्या अयोध्यापुर्यपिबहून्वर्षगणानूशून्यासती कालान्तरे ऋषभंराजानमवाप्य निवासं जनाश्रयत्वंउपयास्यति । अत्रकतकः -- एवंचायोध्या विषयेऽभिषिक्तेन भरतेनायोध्यादेशोनन्दिग्रा- मेस्थित्वैवरक्षितइतिद्रष्टव्यमिति । तत्रमानंचिन्त्यं | 'सत्येनचशपेराजन्स्वर्गलाभेनचैवहि । नकामयेयथाराज्यंत्वांविनारघुनन्दन ।' [ पा० ] १ क— ट. संहृष्टाः काव्यं रामायणं. २ इदमर्धे ज. पाठेदृश्यते ३ क. ख. ङ – ट. पाद्मप्यस्य. ४ क. ग . ज. कृत्वाअहन्यहनि ५ अयंश्लोकः ङ. झ. ज. पाठेषुदृश्यते. ।