पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १५] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ततः काञ्चनचित्राङ्गं वैडूर्यरजसोक्षितम् ॥ मर्यादां प्रतिहाराणां तोरणान्तरमाविशत् ॥ २४ ॥ तं तु राजन्दशग्रीवं प्रविशन्तं निशाचरम् ॥ सूर्यभानुरिति ख्यातो द्वारपालो न्यवारयत् ।। २५ ।। स वार्यमाणो यक्षेण प्रविवेश निशाचरः । यदा तु वारितो राम न व्यतिष्ठत्स राक्षसः ॥ २६ ॥ ततस्तोरणमुत्पाट्य तेन यक्षेण ताडितः । रुधिरं प्रस्रवन्भाति शैलो धातुस्रवैरिव ॥ २७ ॥ स शैलशिखराभेण तोरणेन समाहतः । जगाम न क्षतिं वीरो वरदानात्खयंभुवः ॥ २८ ॥ तेनैव तोरणेनाथ यक्षस्तेनाभिताडितः ॥ नादृश्यत तदा यक्षो भस्मीकृततनुस्तदा ॥ २९ ॥ ततः प्रदुद्रुवुः सर्वे दृष्टा रक्षुःपराक्रमम् ॥ ततो नदीर्गुहाचैव विविशुर्भयपीडिताः । । त्यक्तप्रहरणाः शान्ता विवर्णवदनास्तदा ।। ३० ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुर्दशः सर्गः ।। १४ ।। पञ्चदशः सर्गः ॥ १५ ॥ ३७ रावणेन कुबेरप्रेपितमाणिभद्रनामकयक्षेन्द्रपराजयः ॥ १ ॥ ततःकुबेरेण रावणंप्रतिगर्हणपूर्वकं मारीचादिविद्रावणम् ॥ २ ॥ रावणेन मायायुद्धेनकुबेरपराभवनपूर्वकं तदीयपुष्पकापहरणेन कैलासादवतरणम् ॥ ३ ततस्ताँ लक्ष्य वित्रस्तान्यक्षेन्द्रांश्च सहस्रशः । धनाध्यक्षो महायक्षं माणिचारमथाब्रवीत् ॥ १ ॥ रावणं जहि यक्षेन्द्र दुवृत्तं पापचेतसम् ॥ शरणं भव वीराणां यक्षाणां युद्धशालिनाम् ॥ २ ॥ एवमुक्तो महाबाहुर्माणिभद्रः सुदुर्जयः । वृतो यक्षसहस्रस्तु चतुर्भिः समयोधयत् ।। ३ ।। ते गदामुसलप्रासैः शक्तितोमरमुन्दरैः । अभिन्नन्तस्तदा यक्षा राक्षसान्समुपाद्रवन् ॥ ४ ॥ कुर्वन्तस्तुमुलं युद्धं चरन्तः श्येनवलुघु ॥ वाढं प्रयच्छन्नेच्छामि दीयतामिति भाषिणः ॥ ५ ॥ ततो देवाः सगन्धर्वा ऋषयो ब्रह्मवादिनः ॥ दृष्टा ततुमुलं युद्धं परं विस्मयमागमन् ॥ ६ ॥ यक्षाणां तु प्रहस्तेन सहस्र निहतं रणे ॥ महोदरेण चानिन्धं सहस्रमपरं हतम् ॥ ७ ॥ कुद्धेन च तदा राजन्मारीचेन युयुत्सुना । निमेषान्तरमात्रेण द्वे सहस्र निपातिते ॥ ८ ॥ क च यक्षार्जवं युद्धं क च मायाबलाश्रयम् ।। रक्षसां पुरुषव्याघ्र तेन तेऽभ्यधिका युधि ।। ९ ।। व्योन्नि निबिडमभूदित्यर्थः ।। १९-२८ । भस्मीकृ-|श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्ड ततनुरिति । रावणकृतोरणदण्डसमाहननेन चूर्णित | व्याख्याने चतुर्दशः सर्गः ॥ १४ ॥ इत्यर्थः ॥ २९-३०॥इति श्रीगोविन्दराजविरचिते स० मर्यादां अपरिचितपुरुषप्रवेशपरिहारायावधिभूतां । तोरणस्यान्तरं मध्यस्थानमाविशत् । प्रतिहाराणां द्वारपानां । आवि शत् रावणइतिशेषः ॥ २४ ॥ ति० तोरणेन तोरणस्थदण्डेन ॥ २८ ॥ स० सर्वे यक्षाः ॥ ३० ॥ इतिचतुर्दशःसर्गः ॥१४॥ ति० लक्ष्य लक्षयित्वा ॥ १ ॥ स० रावणमिति । तस्यानुपदमेव शिवेनदीयमानंनाम सार्वज्ञादनेनोदाहृतं । शरणमाश्रयो रक्षकोवा ॥ २ ॥ स० केचिदेवंभाषिण:समुपाद्रवन् । कविद्वदतियुद्धंप्रयच्छेति । अपरस्तु बाढंओमितिवदति । अन्यस्तु खयासहयुद्धंनेच्छामि । प्रतिभटस्तु कुतोनेच्छसियुद्धदीयतामित्येवंभाषिणइत्यन्वयः ॥ ५ ॥ स० यक्षार्जवं यक्षाणामार्जवं ऋतुखं यस्मिंस्तद्युद्धंक । कचरक्षसांमायाबलाश्रयं मायाबलमाश्रयो यस्यतत्तथा । पुरुषव्याघ्र राम । तेननिमित्तेन तेराक्षसाः युधि युद्धे [पा०] १ क. ख. ग. च. ज. ततोरामदशग्रीवं. २ क .-घ, ज, राक्षसोयक्षसृष्टेनतोरणेनसमाहृत । नक्षतिंप्रययौ रामवरात्सलिलजन्मन