पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १९ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । अथ पूर्व श्रुतार्थेन निर्जितं सुमहद्वलम् || निष्क्रामत्तन्नरेन्द्रस्य बलं रक्षोधोद्यतम् ॥ १० ॥ नागानां दशसाहस्रं वाजिनां नियुतं तथा ॥ रथानां बहुसाहस्रं पत्तीनां च नरोत्तम || महीं संछाद्य निष्क्रान्तं सपदातिरथं रणे ॥ ११ ॥ ततः प्रवृत्तं सुमहद्युद्धं युद्धविशारद || अनरण्यस्य नृपते राक्षसेन्द्रस्य चाद्भुतम् ॥ १२ ॥ तद्रावणबलं प्राप्य बलं तस्य महीपतेः ॥ प्राणश्यत तदा सर्वे हव्यं द्रुतमिवानले ॥ १३ ॥ युवा च सुचिरं कालं कृत्वा विक्रममुत्तमम् || [ समासाद्य रणोत्साहं शिक्षावलसमन्वितम् ॥ ] प्रज्वलन्तं समासाद्य क्षिप्रमेवावशेपितम् ॥ १४ ॥ प्राविशत्संकुलं तत्र शलभा इव पावकम् || नश्यति स्म बलं तत्र हव्यं हुतमिवानले ॥ १५ ॥ सोपश्यत्त नरेन्द्रस्तु नश्यमानं महाबलम् || महार्णवं समासाद्य वैनापगशतं यथा ॥ १६ ॥ ततः शक्रधनुःप्रख्यं धनुर्विस्फारयन्स्वयम् || आससाद नरेन्द्रस्तं रावणं क्रोधमूर्च्छितः ॥ १७ ॥ अनरण्येन तेऽमात्या मारीचशुकसारणाः ॥ ग्रहस्तसहिता भग्ना व्यद्रवन्त मृगा इव ॥ १८ ॥ ततो वाणशतान्यष्टौ पातयामास सूर्धनि | तस्य राक्षसराजस्य इक्ष्वाकुकुलनन्दनः ॥ १९ ॥ तस्य बाणाः पतन्तस्ते चक्रिरे न क्षति कचित् || वारिधारा इवाभ्रेभ्यः पतन्त्यो गिरिमूर्धनि ॥ २० ॥ ततो राक्षसराजेन क्रुद्धेन नृपतिस्तदा ॥ तलेनाभिहतो मूर्ध्नि स स्थान्निपपात ह ॥ २१ ॥ स राजा पतितो भूमौ विह्वलाङ्गः प्रवेपितः ॥ वज्रदग्ध इवारण्ये सालो निपतितो यथा ॥ २२ ॥ तं प्रहस्याब्रवीद्रक्ष इक्ष्वाकुं पृथिवीपतिम् || किमिदानीं फलं प्राप्तं त्वया मां प्रतियुध्यता ॥ २३ ॥ त्रैलोक्ये नास्ति यो द्वन्द्वं मम दद्यान्नराधिप || शके प्रसक्तो भोगेषु न शृणोषि वलं मम ॥ २४ ॥ तस्यैवं युवतो राजा मन्दासुर्वाक्यमब्रवीत् ॥ किं शक्यमिह कर्तुं वै कालो हि दुरतिक्रमः ॥ २५ ॥ न ह्यहं निर्जितो रक्षस्त्वया चात्मप्रशंसिना ॥ कालेनैव विपन्नोऽहं हेतुभूतस्तु मे भवान् ॥ २६ ॥ किं त्विदानीं मया शक्यं कर्तुं प्राणपरिक्षये ॥ न ह्यहं विमुखो रक्षो युध्यमानस्त्वया हतः ||२७|| इक्ष्वाक्कुपरिभावित्वाद्वचो वक्ष्यामि राक्षस || यदि दत्तं यदि हुतं यदि मे सुकृतं तपः ॥ ॥ ९ ॥ पूर्व रावणगमनात्पूर्व | श्रुतार्थेन श्रुतरावण | प्राविशत् प्रापत् ॥ १५–२२ || इक्ष्वाकुं इक्ष्वाकुवं- त्तान्तेन | तन्नरेन्द्रस्य बलं । निष्क्रामत् निरक्रामत् इयं । किं फलं प्राप्तं । निर्जितोस्मीति वचनमनुक्त्वेति ॥ १०–१३ ॥ समासाद्येति । तं रावणमासाद्य शेषः || २३–२५ ॥ त्वया ननिर्जित इति । अपितु क्षिप्रमेवावशेषितं अल्पावशिष्टमभवदित्यर्थः ॥ १४ ॥ प्राप्तेनैव कालेन विपन्न इत्यर्थः ॥ २६–२७ ॥ तत्र रणे शलभाः पावकमिव संकुलं समूहनाशनं । इक्ष्वाकुपरिभावित्वात् तत्कुलपरिभावित्वादित्यर्थः ति० पूर्वश्रुतार्थेन श्रुतरावणवृत्तान्तेन । निर्जितं भावेक्तः । निर्जयंप्रतियत्सुमहद्वलंनियुक्तं तन्नरेन्द्रस्यबलंरक्षोवधोयतं । निष्क्रामत् निरकामत || स० पूर्वनिर्जितं परंपराप्राप्तं । स्वर्जितइत्यादिनिदर्शयित्वा छान्दोग्यभाष्येजिःप्राप्त्यर्थंकइतिव्याख्यातत्वात् । निर्जितं कैरप्यपराजितं । सुमहद्वलमितिपदमेकंवा सुमहतांबलंयस्यतत् ॥ १० ॥ स० अपांसमूहआपं । तेनसहगच्छन्ती ति अपगच्छन्तीतिवाआपगा: अपगावा । उभयत्राप्यन्येभ्योपीतिडः ।' विद्यादगारमागारमापगामपगामपि ' इतिद्विरूपकोशः ॥ आपगाःसन्तियेषांतान्यापगानि | वनानिकान्ताराणिचतानि आपगानिच | तेषांशतं बहुनदीसहितवनानांशतंअर्णवं समासाद्य प्राप्ययथानश्यति तथानश्यमानमपश्यत् ॥ नागोजिभट्टस्तु ' वनापगशतं वनंजलं । तत्पूर्णनदीशतं | आर्षोहस्व इतिव्याचख्यौ । तत्रापगशब्दोरूढएवेत्यङ्गीकरणास्वारस्यं ह्रस्वताया आर्षव कल्पनं चेतिकुटिलताटी कनीया ॥ १६ ॥ ति० वज्रदग्धः अशनिहतः ॥ २२ ॥ शि० योद्वन्द्वयुद्धंदयात् सत्रैलोक्येनास्ति इत्यहं शङ्के मन्ये । त्वंतुभोगेषुप्रसक्तस्सन् ममबलंन शृणोषि नाटणोः ॥ २४ ॥ ति० इक्ष्वाकुपरिभावित्वात् त्वदुक्तावमाननवाक्यस्येक्ष्वाकुकुल परिभवरूपत्वादित्यर्थः । वचः शापरूपं ॥ २८ ॥ [ पा० ] १ इदमर्धे ख. ग. घ. ज. पाठेषुदृश्यते. २ क. ग. च. ज, आपगानांशतं. ३ ख. ग. घ. निपतितोमहान. वा. रा. २४७