पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ अन्यत्पर्वतसानौ हि पतितं कुण्डलादनु || मुकुटं वेदिसामीप्ये पतितं युध्यतो भुवि ।। ६६ । हिरण्यकशिपोः पूर्व मम पूर्वपितामहात् || न तस्य कालो मृत्युर्वा न व्याधिर्न विहिंसकाः ॥ ६७ ॥ नदिवा मरणं तस्य न रात्रौ सन्ध्ययोरपि || न शुष्केण न चार्द्रेण न च शस्त्रेण केनचित् ॥ विद्यते राक्षसश्रेष्ठ तस्य नास्त्रेण केनचित् ॥ ६८ ॥ महादेन समं चक्रे वादं परमदारुणम् || तस्य वादे समुत्पन्ने धीरो लोकभयंकरः ॥ ६९ ॥ सर्वहश्यस्य वीरस्य प्रहादस्य महात्मनः ॥ उत्पन्नो राक्षसश्रेष्ठ नृसिंहाकृतिरूपवृत् ॥ ७० ॥ दृष्टं च तेन रौद्रेण क्षुब्धं सर्वमशेषतः ॥ ७९ ॥ तत उद्धृत्य बाहुभ्यां नखैर्निन्ये यमक्षयम् ॥ एष तिष्ठति द्वाःस्थो वै वासुदेवो निरञ्जनः ॥ ७२ ॥ तस्य देवादिदेवस्य तत्त्वतो मे शृणुष्व ह || वाक्यं परमभावेन यदि ते वर्तते हृदि ॥ ७३ ॥ इन्द्राणां च सहस्राणि सुराणामयुतानि च ॥ ऋषीणां सप्तसंख्यानां शतान्यन्दसहस्रशः || वशं नीतानि सर्वाणि य एष द्वारि तिष्ठति ॥ ७४ ॥ ६४ तस्य तद्वचनं श्रुत्वा रावणो वाक्यमब्रवीत् ॥ मया प्रेतेश्वरो दृष्टः कृतान्तः सह मृत्युना ॥ ७५ ॥ पाशहस्तो महाज्वाल ऊर्ध्वरोमा भयानकः ॥ विद्युजिह्वश्च दंष्ट्रालः सर्पवृश्चिकरोमवान् ॥ ७६ ॥ रक्ताक्षो भीमवेगश्च सर्वसत्वभयंकरः || आदित्य इव दुष्प्रेक्ष्यः समरेष्वनिवर्तकः ॥ ७७ ॥ पापानां शमिता चैव स मया युधि निर्जितः ॥ न च मे तत्र भी: काचिद्व्यथा वा दानवेश्वर ॥७८ ॥ एनं तु नाभिजानामि तद्भवान्वक्तुमर्हति ॥ ७९ ॥ रावणस्य वचः श्रुत्वा बलिर्वैरोचनोऽब्रवीत् || एप त्रैलोक्यधाता च हरिर्नारायणः प्रभुः ॥ ८० ॥ अनन्तः कपिलो विष्णुर्नारसिंहो महाद्युतिः ॥ ऋतधामा सुधामा च पाशहस्तो भयानकः || द्वादशादित्यसदृशः पुराणपुरुषोत्तमः ॥ ८१ ॥ नीलजीमूतसंकाश: सुरनाथ: सुरोत्तमः || ज्वालामाली महाबाहुर्योगी भक्तजनप्रियः ॥ ८२ ॥ एष धारयते लोकानेष वै सृजते प्रभुः ॥ एष संहरते चैव कालो भूत्वा महाबलः || ८३ ॥ एष यज्ञश्च याज्यश्च चक्रायुधधरो हरिः || सर्वदेवमयश्चैव सर्वभूतमयस्तथा ॥ ८४ ॥ सर्वलोकमयश्चैव सर्वज्ञानमयस्तथा ॥ सर्वरूपी महारूपी बलदेवो महाभुजः ॥ ८५ ॥ बीरहा वीरचक्षुष्मांत्रैलोक्यगुरुरव्ययः ॥ एवं मुनिगणाः सर्वे कथयन्तीह मोक्षिणः ॥ ८६ ॥ य एनं वेत्ति पुरुषं न च पापैर्विलिप्यते || स्मृत्वा स्तुत्वा तथेष्वा च सर्वमस्मादवाप्यते ॥ ८७ ॥ अन्यत्पतितं | कुण्डलादनु पूर्वपतितकुण्डलादनन्तरं । पुनःकुण्डलादनु मुकुटमित्यप्यन्वयः । वेदिसामीप्ये तद्देशसमीपे ॥ ६६ ॥ पूर्वजस्येतिसामान्येनोक्तस्य स्वरूपंनिरूपयति — हिरण्यकशिपोरिति ॥ ६७ ॥ प्रह्लादेन तनयेन | वादमित्यनेन गुरुशिष्यकथांच ऋइतिभावात्तांव्यावर्तयति परमदारुणमिति ॥ ६९ ॥ सर्ववर्यस्य सर्वतः श्रेष्ठत्वेन संमतस्य । नृसिंहाकृतिरूपधृक् नाचसिंहश्चनृ- सिंहौ । आकृतिश्चरूपंचाकृतिरूपे । नृसिंहयोराकृतिरूपेधरतीतिसतथा । नृसिंहेत्याकृतिः आकरणंयस्य तद्रूपवृगितिवा ॥ ७० ॥ कथाकथन स्यैदंपर्यमाह - एषइति ॥ ७२ ॥ परमभावेन महाभत्त्या | तेहृदिय दिश्रोतव्यमितिवर्ततेतर्हिशृणु ॥ ७३ || इन्द्राणां पदस्थापदस्थसाधारण्येन । एवमुत्तरत्रापि । अष्टसहस्रशः बहुकालं | वशं स्ववशं । नीतानि ॥ ७४ ॥ प्रेतेश्वरोयमः ॥ ७५ ॥ पाशहस्तो वरुणः | दंष्ट्रालः तन्नामाकश्चित् । विद्युज्जिह्वस्यैव विशेषणंवा लातिस्वीकरोतिधत्तेइति । मत्वर्थेलज्वा ॥ ७६ ॥ पापानां तद्वतां । शासिता शास्ता ॥ ७८ ॥ एनं उदाहृतं ॥ ७९ ॥ जिष्णुर्जयशीलः ॥ ८१ ॥ सुरनाथः तत्प्रार्थनीयः । सुरोत्तमः दैवतपतिः ॥ ८२ ॥ धारयते पालयति पोषयतिच | सृजते सृजति | संहरतेर्नित्वात् ॥ ८३ ॥ मोक्षिण : मोक्षापे - क्षावन्तः ॥ ८६ ॥ योधिकारी | सर्वे फलं ॥ ८७ ॥ [ पा० ] १ झ. अ. ठ. सर्ववर्यस्य. २ झ ञ. ठ. शासिता. ३ झ॰ अ॰ ठ. जिष्णुः,