पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ ७२ रावणोपि वरं लब्ध्वा पुनरेवागमत्तथा ॥ १ ॥ ] १० केनचित्त्वथ कालेन रावणः प्रययौ गृहात् || पश्चिमार्णवमागच्छत्सचिवैः सह राक्षसैः ॥ २ ॥ द्वीपस्थो देहशे तेन पुरुषः पावकप्रमः || महाजाम्बूनदप्रख्य एक एव व्यवस्थितः ॥ ३ ॥ यथा दृश्येत भयदो युगान्तानल उत्थितः ॥ देवानामिव देवेशो ग्रहाणामिव भास्करः ॥ ४ ॥ शरभाणां यथा सिंहो हस्तिष्वैरावतो यथा || पर्वतानां यथा मेरु: पारिजातश्च शाखिनाम् ॥ ५॥ तथा तं पुरुषं दृष्ट्वा कुण्डमध्येऽनलं तथा ॥ गैर्जन्तं विविधैर्नादर्लम्वहस्तं भयानकम् ॥ ६ ॥ दंष्ट्रालं विकटं चैव कम्बुग्रीवं महौजसम् || मण्डूककुक्षि पिंङ्गाक्षं कैलासशिखरोपमम् ॥ ७ ॥ पद्मपादतलं भीमं रक्ताम्बुजनिभाननम् || महाकायं महानादं मनोऽनिलसमं जवे ॥ ८ ॥ भीममाबद्ध तूणीरं संघ बद्धचामरम् || ज्वालामालापरिक्षिप्तं " किङ्किणीकृतनिस्वनम् ॥ ९ ॥ मालया स्वर्णपद्मानां वैक्षोदेशावलम्वया || ऋग्वेदमिव शोभन्तं पद्ममालाविभूषितम् ॥ १० ॥ सोञ्जनाचलसंकाशः काञ्चनाचलसन्निभम् || अब्रवीत्तं दशग्रीवो युद्धं मे दीयतामिति ॥ ११ ॥ जगर्ज चोचैर्बलवान्सहामात्यो दशाननः || धृत्वा स राक्षसपति: शुलशक्त्यृष्टिपट्टिशान् ॥ १२ ॥ स द्वीपिना सिंह इव ऋषभेणेव कुञ्जरः || सुमेरुरिव छागेन नदीवेगैरिवार्णवः ॥ १३ ॥ अकम्प्यमानः पुरुषो रॉवणं वाक्यमब्रवीत् ॥ युद्धश्रद्धां हि ते रक्षो नाशयिष्यामि दुर्मते ॥ १४ ॥ रावणस्य च यो वेगः सर्वलोकभयावहः ॥ तथा वेगसहस्राणि संश्रितानि तमेव हि ॥ १५ ॥ अभवत्तस्य सा दृष्टिग्रॅहॅमालेव चाद्भुता || दन्तानां दशतः शब्दो यत्रस्येवातिमीकरः ॥ १६ ॥ धर्मस्तस्य तपश्चैव जगतः सिद्धिहेतुके || ऊरू संश्रित्य तस्याते मन्मथः शिश्नमास्थितः ॥ १७ ॥ विश्वेदेवाः कटीभागे मैंरुतो यस्य शीर्षगाः ॥ मध्येष्टौ वसवस्तस्य समुद्राः क्षिसंस्थिताः ।। १८ ।। पार्श्वस्थाच दिशः सर्वाः सर्वसन्धिषु मारुताः ॥ [ पृष्टं च भगवान्रुद्रो हृदयं च पितामहः ॥ ] पितरश्चाश्रिताः पृष्ठं हृदयं च पितामहाः ॥ १९ ॥ गोदानानि पवित्राणि भूमिदानानि यानि च ॥ सुवर्णस्य च दानानि शश्वल्लोमाश्रितानि वै ||२०|| हिमवान्हेमकूटश्च मन्दरो मेरुरेव च || नरं तु तं समाश्रित्य स्थिभूता व्यवस्थिताः ॥ २१ ॥ मेही वक्षोभवत्तस्य शरीरे धौरवस्थिता ॥ उभे सन्ध्ये कायसन्धौ जलवाहाच मेहने || बाहू धाता विधाता च भगः पूषा उभौ करौ ॥ २२ ॥ दृश्यते अदृश्यत ॥ ३ ॥ सघण्टावद्धचामरं घण्डयाबद्धचामरसहितं ॥ ९ ॥ कण्ठदेशावलंबयेतिसुपाठः । देशेऽवलंबयेतिपाठे अवलं बतइत्यवलंबा । तयेत्यर्थः ॥ १० ॥ अजनाचलसंकाशं भागविशेषे । काञ्चनाचलसंकाशं । तथैव तं रावणनिरीक्षितपुरुषं ॥११॥ अभिभिद्यतोयन्त्रस्य ॥ १६ ॥ कुक्षितः कुक्षौ ॥ १८ ॥ पितामहाः पितृगणस्थाः ॥ १९ ॥ कक्षलोमानियानिवैइतिपाठे लोमशब्द- स्याकारान्त पुंलिङ्गत्वमा ॥ २० ॥ अस्थिभूताः सन्ति ॥ २१ ॥ कृकाटिकायां गलमध्यगतोन्नतास्नि | 'वपुर्धाटाकृकाटिका' इत्य- मरः । सन्ध्या तदभिमानिनीदेवता । चशब्दात् जलवाहाः जलधरा घनाः । विशेष्यं कृकाटिकायामेव | बाहू तत्स्थाः ॥ २२ ॥ [ पा० १ झ ठ. रावणोलोकरावणः २ झ ट दृश्यतेतत्रपुरुषः ३ झ. ठ. दृश्यतेभीषणाकारोयुगान्तानिलसंनिभः. ४ झ. उ. दृष्ट्वास्थितंमध्येमहाबलं. ५ झ. ठ. सगर्जन्विविधैः ६झ ठ. महोरसं, ७ झ. ठ. सिंहासंकैलास. ८ झ. ठ. रक्तताळुकरांबुजं. ९ झ. ठ. सघण्टावद्ध १० झ. ठ किङ्किणीजालनिस्स्वनं. ११ झ ट. कण्ठदेशेऽवलंबया. १२ झ ठ. अब्रवीच, १३ झ. उ. प्राहरद्राक्षसपतिः शूलश त्यृष्टिपट्टिशैः १४ झ ट सुमेरुरिवनागेन्द्रै १७ झ. ठ. ग्रहमालाइवाकुला. १८ झ. ठ. दन्तान्संदशतःशब्दोयन्त्रस्येवा भिभिवतः. १५ झ. ठ. राक्षसं. १६ झ. ठ. भयंकरः • १९ झ. ठ. हेतुकौ । ऊरूह्याश्रित्य. २० झ. ठ. मरुतोबस्तिपार्श्वयोः २१ झ ठ कुक्षितः स्थिताः २२ झ ठ. पार्श्वादिषुदिश: २३ इदम झ. ठ. पाठयोर्दृश्यते. २४ झ. ठ. सुवर्णवरदानानिकक्षलोमानुगानिच. २५ झ. ठ. पाणिर्वजोऽभवत्तस्य २६झ ठ. कृकाटिकायांसंध्यांच जलवाहा- श्रयेघनाः २७ झ. उ. विधाताचतथा विद्याधरादयः । शेषश्चवासुकिश्चैव विशालाक्षइरावतः.