पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

> 1 सर्ग: २९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । एतस्मिन्नन्तरे नादो मुक्तो दानवराक्षसैः ॥ हा हताः स इति ग्रस्तं दृष्ट्वा शक्रेण रावणम् ॥ २१ ॥ ततो रथं समास्थाय रावणिः क्रोधमृच्छितः ॥ तत्सैन्यमतिसंक्रुद्धः प्रविवेश सुदारुणम् ॥ २२ ॥ तां प्रविश्य महामायां प्राप्तां गोपतिना पुरा || प्रविवेश सुसंरब्धस्तत्सैन्यं समभिद्रवत् ॥ २३ ॥ स सर्वा देवतास्त्यक्त्वा शक्रमेवाभ्यधावत || महेन्द्रश्च महातेजा नापश्यच्च सुतं रिपोः ॥ २४ ॥ विमुक्तकवचस्तत्र वध्यमानो हि रावणिः || त्रिदशैः सुमहावीरैर्न चकार च किंचन ॥ २५ ॥ समातलिं समायान्तं ताडयित्वा शरोत्तमैः ॥ महेन्द्रं बाणवर्पेण भूय एवाभ्यवाकिरत् ॥ २६ ॥ ततस्त्यक्त्वा रथं शक्रो विससर्ज च सारथिम् || ऐरावतं समारुह्य मृगयामास रावणिम् ॥ २७ ॥ स तत्र मायावलवान दृश्योथान्तरिक्षगः ॥ इन्द्रं मायापरिक्षिप्तं कृत्वा स प्राद्रवच्छेरैः ॥ २८ ॥ स तं यदा परिश्रान्तमिदं जज्ञेऽथ रावणिः ॥ तदैनं मायया बध्वा स्वसैन्यमभितोनयत् ॥ २९ ॥ ' तं तु दृष्ट्वा बलात्तेन नीयमानं महारणात् || महेन्द्रममरा: सर्वे किंनु सादित्यचिन्तयन् ॥ ३० ॥ दृश्यते न स मायावी शऋजित्समितिंजयः ॥ विद्यावानपि येनेन्द्रो मायया नीयते बलात् ||३१|| एतस्मिन्नन्तरे क्रुद्धाः सर्वे सुरगणास्तदा || रावणं विमुखीकृत्य शरवर्षैरवाकिरन् ॥ ३२ ॥ रावणस्तु समासाद्य आदित्यांश्च वसुंस्तथा ॥ न शशाक स संग्रामे योद्धु शत्रुभिरर्दितः ॥ ३३ ॥ स तं दृष्ट्वा परिम्लानं प्रहारैर्जर्जरीकृतम् || रावणिः पितरं युद्धेऽदर्शनस्थोऽब्रवीदिदम् ॥ ३४ ॥ आगच्छ तात गच्छामो रँणकर्म निवर्तताम् || जितं नो विदितं तेऽस्तु स्वस्थो भव गतज्वरः ॥ ३५॥ अयं हि सुरसैन्यस्य त्रैलोक्यस्य च यः प्रभुः ॥ सँ गृहीतो दैवबलाद्भग्नदर्पाः सुराः कृताः ॥ ३६॥ यथेष्टं भुद्ध लोकांस्त्रीनिगृह्यारातिमोजसा || वृथा किं ते श्रमेणेह युद्धमद्य तु निष्फलम् ॥ ३७ ॥ ततस्ते दैवतगणा निवृत्चा रणकर्मणः ॥ तच्छ्रुत्वा रावणवॅक्यं स्वस्थचेता बभूव ह ॥ ३८ ॥ अथ रणविगतज्वरः प्रभुर्विजयमवाप्य निशाचराधिपः ॥ स्वभवनमभितो जगाम हृष्टः स्वसुतमवाप्य च वाक्यमब्रवीत् ॥ ३९ ॥ यत् स्वसेनया दशाननं समावृत्य न्यवर्तयत् ||२० – २१ ॥ तत्सैन्यं देवसैन्यं ॥ २२ ॥ गोपतिना रुद्रेण ॥२३–२८॥ स्वसैन्यमभितः स्वसेनायाः पार्श्व ॥ २९ – ३० ॥ विद्यावानपि असुरमायासंहार्यपि येनानेन रावणिना मायया नीयते । एतत्किन्विति चुक्रशुः || ३१ – ३३ ॥ युद्धे अदर्शनस्थोब्रवीदिति । सति दर्शनें महेन्द्र एव नाशयेदिति भावः ॥ ३४ ॥ निवर्ततां निवृत्तमस्तु समाप्तमस्तु । कथं निवृत्तिरित्यत्राह - जित- मिति | भावे निष्ठा || ३५ || दैवबलात् देवसेनायाः ॥ ३६-३८ || रणविगतज्वरः विगतरणज्वर इत्यर्थ: ति० पुरस्थित्यादेवसेनाजयस्याशक्यत्वान्मायांश्रयते - तामिति । समभिद्रवत् समभ्यद्रावयदित्यर्थः ॥ २३ ॥ ति० किंचन किमपिभयमित्यर्थः॥स० किंचन लक्ष्यत्वेन नचकार । विमुक्तकवच: मन्त्रजपाद्यर्थेकवचोन्मोचनंज्ञेयं ॥२५॥ स० मायापरिक्षिप्त स्वमाययातिरस्कृतंकृत्वा ॥ २८ ॥ स० दर्शनस्थः पितृदृष्टिपथमात्रंगतः ॥ अदर्शनस्थइतिच्छेदेपि इतरदृष्टिपथमप्राप्तइत्यर्थः ॥ ३४ ॥ ति० गच्छामः स्वपुरमितिशेषः ॥ शि० नोस्माभिर्जितं देवजात मितिशेषः ॥ ३५ ॥ स० देवबलात् देवतासैन्यं प्राप्य ॥ ३६ ॥ ति० रणविगतः विगतरणः ॥ ३९ ॥ इत्येकोनत्रिंशः सर्गः ॥ २९ ॥ [ पा० ] १ क – घ. तंदृष्ट्वाथबलात्तस्मान्माययाऽपहृतंरणे. २ च. छ. बध्वासुरपतिर्यैनमायया ३ च. छ. निवर्तस्वरणा- र्दितः, क–घ. निवृत्तंरणकर्मतत् ४ क - घ. च. छ. सगृहीतोमयाशको भग्न. ५ ङ- ट. वाक्यंशकहीनाः सुराग्रताः .६ ङ. च. छ. झ. ञ ट अथसरणविगतमुत्तमौजास्त्रिदशरिपुःप्रथितोनिशाचरेन्द्रः । स्वसुतवचनमादृतः प्रियं तत्समनु निश म्यजगादचैवसूनुम्. 1