पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । अतिबलसदृशैः पराक्रमैस्तैर्मम कुलमान विवर्धनं कृतम् || यदयमतुल्यबलस्त्वयाऽद्य वै त्रिदशपतिस्त्रिदशाश्च निर्जिताः ॥ ४० ॥ नय रथमधिरोप्य वासवं नगरमितो व्रज सेनया वृतस्त्वम् || अहमपि तबै गच्छतो द्रुतं सह सचिवैरनुयामि पृष्ठतः ॥ ४१ ॥ अथ स बलवृतः सवाहनस्त्रिदशपतिं परिगृह्य रावणिः ॥ स्वभवनमैभिगम्य वीर्यवान्कृतसमन्विससर्ज राक्षसान् ॥ ४२ ॥ [ तॉन्विसृज्य तदा रक्षो महेन्द्रं पाकशासनम् || बबन्ध नगरद्वारि मध्ये क्रीडननिर्वृतः ॥ ४३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनत्रिंशः सर्गः ॥ २९ ॥ ९२ [ उत्तरकाण्डम् ७ त्रिंशः सर्गः ॥ ३० ॥ इन्द्रजिइद्धेन्द्रमोचनाय देवगणप्रार्थितेनब्रह्मणा तैस्सहलङ्कामेत्य रावणंप्रतीन्द्रमोचनचोदना ॥ १ ॥ तथेन्द्रजिते तदी- दिसतावध्यत्ववरदान पूर्वकं तस्मादिन्द्रमोचनम् ॥ २ ॥ तथा बन्धनलज्जितमिन्द्रंप्रति तत्कृताहल्याधर्षणादिस्सारणपूर्वकं तस्यबन्धन हेतुत्वनिवेदनम् ॥ ३ ॥ इन्द्रेण ब्रह्मचोदनयायजनेन पुनरिन्द्रासनारोहणम् ॥ ४ ॥ एवमगस्त्येन रामंप्रतीन्द्र- जित्पराक्रमादिकथनम् ॥ ५ ॥ जिते महेन्द्रेऽतिबले रावणस्य सुतेन वै ॥ [ प्रजापति सुराः सर्वे गताः परमदुःखिताः ॥ १ ॥ भगवन् पुरुहूतोऽयं निगृहीतोऽभवद्वरात् || राक्षसेन्द्रं सुरैः सर्वैरवध्यं कृतवानसि ॥ २ ॥ महेश्वरेण पुत्रस्य वरा दत्ता दुरात्मनः । किं करोतु सुरेन्द्रस्तं मायया बलवत्तरम् ॥ ३ ॥ सुराच सर्वे लोकेश न जयन्ति भवद्वरात् || तस्मात्त्वमेव देवेन्द्र मोचयस्व महाद्युते ।। अद्यप्रभृति लोकेश स्वविक्रमबलोदितः ॥ ४ ॥ इति विज्ञाप्य भावज्ञाः प्रणिपत्य प्रसाद्य च || प्रजापतिं पुरस्कृत्य यँयुङ्कां सुरास्तदा ॥ ५ ॥ तत्र रावणमासाद्य पुत्र भ्रातृभिरावृतम् || अब्रवीद्गने तिष्ठन्त्सामपूर्व प्रजापतिः ॥ ६ ॥ वत्स रावण तुष्टोसि पुत्रस्य तव संयुगे || अहोस विक्रमौदार्य तव तुल्योधिकोपि वा ॥ ७ ॥ जितं हि भवता सर्वे त्रैलोक्यं स्वेन तेजसा || कृता प्रतिज्ञा सफला प्रीतोमि सुतेन वै ॥ ८ ॥ अयं च पुत्रोतिबलस्तव रावण वीर्यवान् || जगतीन्द्रजिदित्येव परिख्यातो भविष्यति ॥ ९ ॥ ।। ३९–४० ॥ त्वरितमुपनयस्वेति पाठे निर्जिता | ख्याने उत्तरकाण्डव्याख्याने एकोनत्रिंशः सर्गः ॥ २९॥ इति पूर्वेणान्वयः ॥ ४१ ॥ राक्षसान्विससर्जेति स्वं स्वं निवेशं प्रतीति शेषः ॥ ४२ - ४३ ॥ इति श्रीगो- अहोस्येति संधिरार्षः॥७॥ स्वसुतेन स्वसुतबलेन | विन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटा- | त्वया कृता प्रतिज्ञा चतुरो दिक्पालान् जेष्यामीति ति० तवतुल्यः । एषइतिशेषः ॥ स० अधिकोपिवा मायायोधने ॥ ७ ॥ [पा०] १ क. ख. घ. यदमरसमविक्रमत्वयावै. ड. झ ञ यदयमतुलबलस्त्वया. ३ ड–ट. हृष्टवत्. ४ क. – घ. मभिगम्य राक्षसोमुदितमनाविससर्ज. ५ अयंश्लोकः ख. ग. २ डट. तवपृष्ठतो द्रुतं. पाठयोर्दृश्यते ६ प्रजा • पतिंसुराः सर्वेइत्यादयः, प्रणिपत्यप्रसाद्यचेत्यन्ताः श्लोकाः क - घ. पाठेषुदृश्यन्ते. ७ क – घ. गतालङ्कां. ८ ङ. च. छ. झ. ट. स्वसुतस्यते. 1