सर्गः ६५ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । मैया महाबलेश्चैव यज्ञे विष्णुः सनातनः ॥ प्रदक्षिणीकृतः पूर्व क्रममाणविक्रमम् ॥ १५ ॥ स ईंदानीमहं वृद्धः प्लवने मन्दविक्रमः || यौवने च तैदासीन्मे बलमप्रतिम परैः ॥ १६ ॥ संप्रत्येतावती शक्ति गमने तर्कयाम्यहम् ॥ नैतावता च संसिद्धिः कार्यस्यास्य भविष्यति ॥ १७ ॥ अथोत्तरमुदारार्थमञवीदङ्गदस्तदा || अनुमान्य महाप्राज्ञं जांबवन्तं महाकपिः ॥ १८ ॥ अहमेतद्गमिष्यामि योजनानां शतं महत् ॥ निवर्तने तु मे शंक्तिः स्यान्न वेति न " निश्चिता॥१९॥ तमुवाच हैरिश्रेष्ठं जांबवान्वाक्यकोविदः ॥ ज्ञायते गमने शक्तिस्तव वृक्षसत्तम ॥ २० ॥ कामं शतं सहस्रं वा नह्येष विधिरुच्यते || योजनानां भवाञ्शक्तो गन्तुं प्रतिनिवर्तितुम् ॥ २१ ॥ न हि प्रेषयिता ताँत स्वामी प्रेष्यः कथंचन ॥ भवताऽयं जनः सर्वः प्रेष्यः प्लवगसत्तम ।। २२ ।। भवान्कलत्रमस्माकं स्वामिभावे व्यवस्थितः ॥ स्वामी कलत्रं सैन्यस्य गतिरेषा परंतप || तँस्मात्कलत्रवत्तात प्रतिपाल्यः सदा भवान् ॥ २३ ॥ अपिचैतस्य कार्यस्य भवान्मूलमरिंदम ॥ मूलमर्थस्य संरक्ष्यमेष कार्यविदां नयः || मूले हि सति सिध्यन्ति गुणाः पुष्पफलोदयाः ॥ २४ ॥ तद्भवानस्य कार्यस्य साधने सत्यविक्रम || बुद्धिविक्रमसंपन्नो हेतुरत्र परंतप ॥ २५ ॥ गुरुश्च गुरुपुत्रश्च त्वं हि नः कपिसत्तम ॥ भवन्तमाश्रित्य वयं समर्था ह्यर्थसाधने ॥ २६ ॥ उक्तवाक्यं महाप्राज्ञं जांबवन्तं महाकपिः ॥ प्रत्युवाचोत्तरं वाक्यं वालिसुनुरथाङ्गदः ॥ २७ ॥ यदि नाहं गमिष्यामि नोन्ये वानरपुङ्गवाः ॥ पुनः खल्विदमस्माभिः कार्य प्रायोपवेशनम् ||२८|| २१९ त्रयाणां विक्रमाणां समाहार: त्रिविक्रमं ।। १५-१९।। | शक्तः । एष विधिः भृत्यैः स्वामिप्रस्थापनं । नोच्यते हयृक्षसत्तमेति । ऋक्षत्वं वानरावान्तरजाति: । अतः न विधीयते ॥ २१ ॥ तदेव विवृणोति-नहीति ॥ सुग्रीवादे: ऋक्षराजत्वमिति ॥ २० ॥ भवान् योज- नानां शतं सहस्रं वा गन्तुं प्रतिनिवर्तितुंच कामं | ॥ २२ ॥ कलत्रं रक्षणीयं वस्तु ॥ २३-३३ ॥ दिवत्समाधिरवधेयः ॥ ११ ॥ स० जांबवतोबलस्खलन हेतु स्त्रिविक्रम क्रमणमिव तङ्क्रमणकाले मेरुसंताडनंजान्वोः पुराणान्तरो- “क्तमनुसंधेयमितिमन्द विक्रम इतिवदन्कविः सूचयामासे तिबोध्यं ॥ १५ ॥ स० महाकपिं महान्कपिर्यस्यसतथा नियामकत्वेनमहा- कपिसुश्रीववानिति जांबवान्महाकपिरित्यर्थः ॥ १८ ॥ ती० हरिश्रेष्टइतिजांबवतोव्यपदेशोह रिसाधर्म्यात् । अल्पमन्तरमृक्षाणांह- रीणांच । अतएवासौहरृक्षसत्तमेत्यङ्गदसंबोधयति । सजातीयस्य हिनिर्धारणंभवति । " ननिर्धारणे " इतिषष्ठीसमासस्यनिषे- धेपि मुनिप्रयोगात्साधुत्वं । सप्तमीसमासोवा | स० हर्यक्षसत्तम हरिणीपिङ्गेअक्षिणीयेषांकपीनां तेषुसत्तमः । यद्वा हर्यक्षः सिंह- इवसत्तमः श्रेष्ठः ॥ २० ॥ ति० भवान्कलत्रं कलत्रवदृढ स्वीयत्वबुद्ध्यायावत्स्वप्राणबलंपरिपाल्यइत्यर्थः । स्वामिभावे स्वामित्वे । एतेन लोकेकलत्रस्यभर्तासंसारव्यवहारविषये आज्ञाप्यस्तत्प्रभुत्वंचकलत्रस्येतिदर्शितं । तस्मात्खामी सैन्यस्य कलत्रवत्परिपाल्यः । स्वामिनाच कलत्रेण भर्तेवसैन्यमाज्ञाप्यं । एषागतिः लोकस्येतिशेषः ॥ शि० कलत्रं स्त्रीवद्रक्ष्यः । किंच कंसुखलातिददातितदेव त्रं रक्षाकर्तृ | सुखदाता त्राताचेत्यर्थः । सामान्येनपुंसकं ॥ २३ ॥ ति० गुणाः गुणभूताः अप्रधानभूताइतियावत् ॥ २४ ॥ २ ङ. छ. झ ञ. स्त्रिविक्रमः [ पा० ] १ छ. झ. ट. मयावैरोचनेयज्ञेप्रभविष्णुः ३ क. घ. ज. इदानींमहावृद्धः ४ ट. यौवनंच. ५ क. ग. यदासीन्मे. घ. यथासीन्मे ६ छ. झ.ट. परं. ७ छ. झ. ट. त्येतावदेवाद्यशक्यंमेगम नेखतः. ग. ङ. च. त्येतावतीशक्तिर्गमने. ८ क. ग. ङ. - ट. महाप्राज्ञो. ९ ङ. - ट. महाकपिं. १० क. शक्तिर्नस्यादितिमतिर्मम, ११ ख. ग. घ. छ. झ ट निश्चितं १२ च. छ. हरिश्रेष्टो. १३ ठ. हर्यक्षसत्तम. १४ क. ङ. -ट. शतसहस्रंवा. १५ च. ज. स्वामी प्रेष्यान्प्रेष्यः कथंचन १६ घ त्रस्तान्कलत्रवत्तत्र. क. ख. तस्मात्कलत्रवत्तत्र. ग. भवान्कलत्रवत्तत्र. ट. यस्मात्कलत्रव- त्तात. तस्मात्कलत्रवत्तात. अपिचैतस्यकार्यस्य इत्यनयोरर्धयोः पौर्वापर्य क. ङ. ―ट. पाठेषुदृश्यते. १७ छ. झ ट वैतस्य. १८ च. छ. ज. मेवं. १९ ङ. – ट. गुणाः सर्वे. क. घ. गुणाः पुष्पफलादयः २० क. ङ. - साधनं. २१ ख. ग. ड. च, ज. झ. ट. महाकपिं. २२ क. ख. घ. - ट. नान्योवा नरपुङ्गवः
पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२२१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति