पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । पक्षयोर्यद्धलं तस्य तावद्भुजबलं तव || विक्रमचापि वेगैश्च नै ते तेनावहीयते ॥ ६ ॥ बलं बुद्धिश्च तेजश्व सत्त्वं च हरिपुङ्गव || विशिष्टं सर्वभूतेषु किमात्मानं न बुध्यसे ॥ ७ ॥ अप्सरासरांष्ठा विख्याता पुञ्जिकस्थला ॥ अञ्जनेति परिख्याता पत्नी केसरिणो हरेः ॥ ८ ॥ विख्याता त्रिषु लोकेषु रूपेणाप्रतिमा भुवि | अभिशापादभूत्तात वानरी कामरूपिणी ॥ ९ ॥ दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः ॥ कपित्वे चारुसर्वाङ्गी कदाचित्कामरूपिणी ॥ १० ॥ मानुषं विग्रहं कृत्वा रूपयौवनशालिनी || विचित्रमाल्याभरणा महार्हक्षामवासिनी ॥ अचरत् पर्वतस्याग्रे प्रावृडम्बुदसन्निभे ॥ ११ ॥ तस्या वस्त्रं विशालाक्ष्याः ’पीतं रक्तदशं शुभम् ॥ स्थितायाः पर्वतस्याग्रे मारुतोपहरच्छनैः ॥ १२ ॥ स ददर्श ततस्तस्या वृत्तावूरू सुसंहतौ ॥ स्तनौ च पीनौ सहितौ सुजातं चारु चाननम् ॥ १३ ॥ तां विशालायतश्रोणीं तनुमध्यां यशस्विनीम् ॥ व शुभसर्वाङ्ग पवनः काममोहितः ॥ १४ ॥ स तां भुजाभ्यां दीर्घाभ्यां पर्यष्वजत मारुतः ॥ मन्मथाविष्ट सर्वाङ्गो गतात्मा तामनिन्दिताम् ॥ १५॥ सा तु तत्रैव संभ्रान्ता सुवृत्ता वाक्यमब्रवीत् || एकपत्नीव्रतमिदं को नाशयितुमिच्छति ॥ १६ ॥ अञ्जनाया वचः श्रुत्वा मारुतः प्रत्यभाषत ॥ न त्वां हिंसामि सुश्रोणि माऽभूत्ते सुभगे भयम् ।।१७।। मैंनसाऽसि गतो यत्वां परिष्वज्य यशस्विनीम् || वीर्यवान्बुद्धिसंपन्नस्तव पुत्रो भविष्यति ॥ १८ ॥ २२१ पक्षयोरिति॥ अत्र समानपदमध्याहार्यं । विक्रमादिकं | ॥ १२-१४ ॥ तां गतात्मा तद्गतचित्तः । तां पर्यष्व- तेन गरुत्मता समानं | नावहीयते न न्यूनं भवति । जतेति संबन्धः ॥ १५-१६ ॥ न हिंसामि पातिव्र - तेनेति पञ्चम्यर्थे तृतीया ॥ ६ ॥ विशिष्टं श्रेष्ठं ||७|| | त्यान्न प्रच्यावयामि ॥ १७ ॥ न केवलं पातिव्रत्यभ- अप्सरेति निर्देश आर्षः ॥८- ११॥ रक्तदशं रक्तामं ङ्गाभावः श्रेयोपि भविष्यतीत्याह – वीर्यवानिति न्ययोः ” इतिविश्वः ॥ ५ ॥ ति० भुजवीर्यबलंतवेतिप्राचीनपाठे तस्यपक्षयोर्यद्वलं तवचय द्रुजवीर्यबलं उभयंतुल्य मितिशेषः ॥ ६ ॥ ति० विशिष्टमात्मानं अभिजनबलपराक्रमवैभवविशिष्टमात्मानं | किंनसज्ज से समुद्रलङ्घनायकिंन सज्जीकरोषीत्यर्थः ॥ ७ ॥ ति० सुसंहतौ सुसंश्लिष्ठौ । सहितौ परस्परसंसक्तौ ॥ १३ ॥ स० काममोहितत्वादिप्रदर्शनं देवकार्यार्थमेववायोरितिज्ञातव्यं ॥ १४ ॥ स० पर्यध्वजत आलिलिङ्ग । गतात्मा गर्भरूपेणतद्गतखांशः । सतां सद्भिः अनिन्दितां तामित्यन्वयः । कृद्योगलक्ष- पाषष्ठी । एतेन तामितिनपुनरुक्तमिव | सांगतात्मा तांपर्यध्वजतेति नक्लिष्टान्वयीत्यपिबोध्यं । सतीमितिवाक्कचित्पाठः ॥ ति० मन्मथाविष्टसर्वाङ्गः कामाक्रान्तकृलज्ञानकर्मेन्द्रियः । अतएव तांगतात्मा तद्गर्भप्रविष्टात्मतेजाबभूव । देवत्वाद्विनापियो निसंबन्धं निज तेजःप्रवेशन मितिंबोध्यं ॥ १५ ॥ ति० त्वांनहिंसामि योनिसंबन्धेन तावकमेकपत्नीव्रतं ननाशयामि । अनेन बलात्पर- [ पा० ] १ क. भुजयोस्तद्वलं. झ. ट. भुजवीर्यबलं. २ क. ङ.ट. तेजश्व. ३ ङ. ज. तेनतेनापहीयते. क. छ, झ, ञ, ट. नतेतेनापहीयते. ४ ख. ग. घ. हरिसत्तम. ५ क. ग. विशिष्टः ६ ङ. च. छ. झ. ज. ट. सज्जसे. ७ ख. घ. आसीदप्स- रसां. ८ ज. अत्रिशापादभूत. ९ च. छ. झ. ट. सातकपिले. क. ख. ग. ङ. ज. त्तावद्वानरी १० ग. यौवनोत्तमशा- लिनी. ११ विचित्रमाल्याभरणा. अचरत्पर्वतस्याप्रे इत्यर्धयोः पौर्वापर्य क. - घ. पाठेषुदृश्यते. १२ च. – ट. कदाचित्क्षौम- धारिणी. ङ. कदाचित्कामचारिणी. १३ छ. ट पीतरक्तदशं. १४ क. – घ. च. ज. ब. ट. मारुतोपाहरत् १५ ग. तदी तस्याः १६ क. सुसंस्थितौ १७ ङ. च. ज. ज. सुजातो. २० क. – घ. पीनाभ्यां. २१ छ ज झ सुव्रता. न. संवृता. २४ ङ. छ. झ, ञ. ट. यशस्विनि २५ क. ख. ग. संपन्नः पुत्रस्तव. १८ झ ट बलादायतश्रोणीं. १९ च. ज. अ. मनस्विनीं. २२ ङ.. मनसोभयं. २३ क. ग. मारुतोस्मिगतोयस्त्वां. V