4 २२२ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ महासत्वो महातेजा महाबलपराक्रमः ॥ लङ्कने प्लवने चैव भविष्यति मया समः ॥ १९ ॥ एवर्मुक्ता ततस्तुष्टा जननी ते महाकपे ॥ गुहायां त्वां महाबाहो प्रजज्ञे प्लेवगर्षभम् ॥ २० ॥ अभ्युत्थितं ततः सूर्य बालो दृष्ट्वा महावने ॥ फलं चेति जिघृक्षुस्त्वत्याभ्युतो दिवम् ॥ २१ ॥ शतानि त्रीणि गत्वाऽथ योजनानां महाकपे || तेजसा तस्य निर्धूतो न विषादं गतस्ततः ॥ २२ ॥ तावदापततस्तूर्णमन्तरिक्षं महाकपे || क्षिप्तमिन्द्रेण ते वज्रं क्रोधाविष्टेन धीमता ॥ २३ ॥ सदा शैलाग्रशिखरे वामो हनुरभज्यत ॥ ततो हि नामधेयं ते हनुमानिति कीर्त्यते ॥ २४ ॥ ततस्त्वां निहतं दृष्ट्वा वायुर्गन्धवहः स्वयम् || त्रैलोक्ये भृशसंक्रुद्धो न ववौ वै प्रभञ्जनः ॥ २५ ॥ संभ्रान्ताच सुराः सर्वे त्रैलोक्ये 'क्षोभिते सति || प्रसादयन्ति संक्रुद्धं मारुतं भुवनेश्वराः ।। २६ ।। प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ || अशस्त्रवध्यतां तात समरे सत्यविक्रम ॥ २७ ॥ वज्रस्य च निपातेन विरुजं त्वां समीक्ष्य च ॥ सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम् || स्वच्छन्दतश्च मरणं ते" भूयादिति वै प्रभो ॥ २८ ॥ न स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः || मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः ॥ २९ ॥ [ ईदृशस्य हि ते तात वर्णयामः कथं बलम् || कार्य च लोकसंमान्यं कर्तुं शक्तस्त्वमेव हि ॥ ३० ॥ भँवाञ्जीवातवेऽस्माकमञ्जनागर्भसंभवः ] ॥ त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः ॥ ३१ ॥ वयमद्य गतप्राणा भवान्नस्त्रातु सांप्रतम् || दीक्ष्यविक्रमसंपन्नः पक्षिराज इवापरः ॥ ३२ ॥ त्रिविक्रमे मया तात सरौलवनकानना || त्रिसप्तकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम् ॥ ३३ ॥ ।। १८-२१ ।। शतानि त्रीणि एतदनेकशतयोजना- | मध्यप्रदेशे । यद्वा यावती महाबलिभूमिः तावती नामुपलक्षणं । " बहुयोजनसाहस्रं क्रामत्येष: " इत्यु - पृथिवी अत्रविवक्षिता । तस्याः प्रदक्षिणं तद्वहिः प्रदे- तरकाण्डे वक्ष्यमाणत्वात् ॥ २२ - ३२ | पृथिवीत्य- शेन संगच्छते । यद्वा क्रमणानन्तरं जाम्बवान् विज- नेनाण्डकटाहमध्य उक्तः । तस्याः त्रिस्सप्तकृत्वः क्रमणं | यघोषणार्थं पृथिवीमात्रप्रदक्षिणं कृतवानितिप्रसिद्धिः । पुरुषेणालिङ्गनादावपि नपातिव्रत्यभङ्गः किंतु योनिभोगेनैवेतिसूचितं ॥ १७ ॥ स० महासत्वः महत् शुद्धं सत्त्वगुणोयस्यसतथा | चतुर्मुखात्मकत्वाद्युक्तंवायोः सत्वात्मकत्वं । लङ्घने समुद्रोपरिप्लवने | अलवने समुद्राद्युपर्यपिमन्दगमने ॥ १९ ॥ ति० ततस्तुष्टा मनसामहादैवततेजस्संक्रमकथनात् ॥ २० ॥ ति० उदयकालिक भास्करस्याम्रफलवद्रक्तवृत्तत्वात्फलबुद्धिविषयत्वं । यथा जात- मात्राजादिबालानां प्राचीनवासन यास्तनपानादौ प्रवृत्तिस्तथैवास्य जातमात्रस्य वानरोचितफलादानप्रवृत्तिरिति बोध्यं ॥ २१ ॥ ति० तस्य रवेः । तेजसा निर्धूतः क्षिप्तोपि । ततः वायुबलवत्त्वान्नविषादंगतः ॥ शि० योजनानांशतानित्रीणि "अङ्कानांवामतो- गतिः " इति न्यायेन शताधिकत्रिसहस्राणिगत्वा । शतानित्रीणीत्यस्य त्रिशतपरत्वेनव्याख्यानंतु " बहुयोजनसाहस्रं " इत्युत्त- रकाण्डेवक्ष्यमाणं विरुध्येत । अनेकशतयोजनानामुपलक्षणमिति भूषणोक्तिस्तु नयुक्ता । त्रीणीत्यस्यवैयर्थ्यापत्तेः ॥ २२ ॥ स० कोपाविष्टेन शरणागतराहुकार्यसाधनसंभृतकोपेन ॥ २३ ॥ स० हनुः गण्डाधोभागः | हनुमान् हनुर्हनूर्वाऽस्यास्तीति सतथा । " हनूमान्हनुमानपि " इति द्विरूपकोशः ॥ २४ ॥ स० गन्धवहः पुत्रघातेनस्वहिंसावहः । प्रभञ्जनः प्रकर्षेणभञ्जयति कोपेने- दानींजनानिति प्रगतंभञ्जनंयस्मादितिवासतथा । गन्धवहः पुत्रसंबन्धवहः | गन्धनं हिंसेत्युक्तेर्गन्धोपिहिंसा ॥२५॥ ति० वज्र- स्यनिपातेन । चाद्भिरौनिपातेनच ॥ २८ ॥ स० क्षेत्रजः पुत्रः । औरसः आलिङ्गनसमये उरस्संबन्धेनजातः । “ नमेहषीकाणि - [ पा० ] १ ख. घ. भविष्यतिहिमत्समः . २ ज. मुक्तातुसातुष्टा. ३ च. – ट. प्लवगर्षभ. ४ क. अभ्युद्यन्तं ५ ट. मुत्प त्याभ्युत्थितोदिवं. ६ क. ख. ग. ङ. च. ज. अ. ततोगतः ७ छ. झ ञ त्वामप्युपगतंतूर्ण. ग. च. ज. ट. तत्राप्युपगतस्तूर्ण. ख. अथाप्युपगतस्तूर्णे. ८ ङ. – ज. ज. ट. कोपाविष्टेनचेतसा झ. कोपाविष्टेन तेजसा. ९ ङ. – ज. ब. ट. कीर्तितं, १० च. अ. विक्षतं. ११ क. ङ. च. छ. झ ञ ट क्षुभिते. १२ ख. झ. तंक्रुद्धं. १३ च. ट, तत्रस्यादिति १४ ख. घ. विभो. १५ इदमर्धत्रयं ङ. च. ज. पाठेषुदृश्यते. १६ ङ. भवान्वीरतमोस्माकं. १७ ख. वापि. १८ ख. घ. त्र. भवानस्मासु. क. वानराःसाधुसांप्रतं, १९ ङ. च. ज. ज. दक्षोविक्रम. ख. ग. घ. तार्क्ष्यविक्रम.
पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२२४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति