पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ श्रीमद्वारमीकिरामायणम् [ युद्धकाण्डम् ६ मार्जारा द्वीपिभिः सार्ध खाकराः शुनकैः सह ॥ किनरा राक्षसैश्चापि समीयुर्मानुपैः सह ॥ ३१ ॥ पाण्डुरा रक्तपादाश्च विहङ्गाः कालचोदिताः॥ राक्षसानां विनाशाय कपोता विचरन्ति च ॥ ३२ ॥ वीचीकूचीति वाश्यन्त्यः शारिका वेश्मसु स्थिताः ॥ ३३ ॥ पतन्ति ग्रथिताश्चापि निर्जिताः कलैंहैषिणः । पक्षिणश्च मृगाः सर्वे प्रत्यादित्यं रुर्दन्ति च ॥ ३४॥ करालो विकटो मुण्डः परुषः कृष्णपिङ्गलः॥ कालो गृहाणि सर्वेषां कालेकालेऽन्ववेक्षते ।। ३५॥ | अहं त्वेतत्प्रपश्यामि युध्यतां तु दिनेदिने । क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम् ॥ सर्व नष्टप्रभं मन्ये सैन्यं त्वद्देहमाश्रितम् ॥ ३६ ॥] एतान्यन्यानि दुष्टानि निमित्तान्युत्पतन्ति च ॥ ज्ञात्व प्रधार्य कार्याणि क्रियतामायतिक्षमम् ॥३॥ [ विंध्रणं मन्यामहे रामं मानुषं रूपमास्थितम् । न हि मानुषमात्रोसौ राघवो दृढविक्रमः ॥ ३८॥ येन बद्धः समुद्रस्य स सेतुः परमाद्भुतः ॥ कुरुष्व नरराजेन संधिं रामेण रावण ।। ३९॥] [अद्य प्रतिनिविष्टेन हितमुक्तं निशाचर । सीतायै ते महाप्राज्ञ महद्भयमुपस्थितम् ॥ तथेमान्यनिमित्तानि लक्षये राक्षसेश्वर ॥ ४० ॥] इदं वचनेंत्र निशम्य माल्यवान्र्परीक्ष्य रक्षोधिपतेर्मनः पुनः । अनुत्तमेषुत्तमपौरुषो बली बभूव तूष्णीं समवेक्ष्य रावणम् ॥ ४१ ॥ ॥ ३० ॥ समीयुः संयन्ति । द्वीपिभिः व्यालैः। | करालः भयंकरः । विकटः विकटाङ्गः । विकल इति मानुपैः । राक्षसा इति शेषः । मानुषाश्चात्रोत्पात- | पाठे हीनाङ्ग इत्यर्थः। परुषः परुषवर्णः । कालः जनिता एव ॥ ३१ ॥ कालचोदिताः दैवप्रेरिताः । | मृत्युः। कालेकाले सायं प्रातश्च । गृहाण्यन्ववेक्षते । विनाशाय विनाशसूचनायेत्यर्थः । “ वाताय कपिला | अन्वीक्षमाण इव दृश्यत इत्यर्थः ॥ ३५–३६ ॥ विद्युत्–” इत्यादिवत् । कपोताः कपोताख्या । एतानि ज्ञात्वा कर्माणि कर्तव्यानि । प्रधार्य निर्धार्यं । विहङ्गा इत्यन्वयः ॥ ३२॥ वेश्मसु मधुरसंलापाथै | यत् आयतिक्षमं उत्तरकालाई । तकियतां । कर्माणि पोषिताः शारिकाः। मधुरभाषणानि विहाय वीची- | च सीताप्रदानादीनि ॥ ३७-४० । अनुत्तमेषु कूचीति क्रूरं वाश्यन्तीत्यर्थः ॥ ३३ ॥ पक्षिणः | मत्रिश्रेष्ठेषु। उत्तमपौरुषो माल्यवान् । इदं वचः। तत्र काकाद्यः । मृगाश्च पूर्वं निर्जिता अपि पुनः कलहै- | सभायां । निशम्य श्रावयित्वा । अन्तर्भावित- षिणः सन्तः । प्रथिताः पुजीभूताः । पतन्ति | ण्यर्थोयं । रावणं रावणाकारं । समवेक्ष्य इङ्गिता- धावन्ति । प्रत्यादित्यं रुदन्ति चेत्यन्वयः ॥ ३४ ॥ | दिदर्शनपुरःसरं दृष्ट्वा । रक्षोधिपतेर्मनः परीक्ष्य इतिा ॥ रामानु० बलिकर्माणि बलिद्रव्याणि ॥ ३० ॥ किंनराइत्यर्धकेषुचिकोशेषुनदृश्यते । तस्मिन्विरोधोस्ति लङ्कायांमानु ३ षाभावात् ॥ ३१ ॥ ति० चीचीकूकीतिशब्दानुकारः। स० शारिकाः शुकवध्वः ॥ ३३ ॥ कलहैषिभिः पक्ष्यन्तरैः। निर्जिताः प्रथिताः । पतन्ति परस्परमाबद्यपतन्ति ॥ ३४ ॥ कतकe ‘विष्णुमन्यामहेरामं” इत्यादि ‘‘ संधिंरामेणरावण इत्यन्तं श्लोकद्वयंप्रक्षिप्तमितिप्राचीनैर्नव्याख्यातं । शि० मानुषंरूपमास्थितं रामंविष्णु खप्रतापदुरासर्वत्रपूर्णमन्यामहे । अतःअयंरा- घवःमानुषमात्रः अस्मज्ज्ञानविषयीभूतमनुष्यशरीरवान्न । प्राकृतविलक्षणःपरपुरुषइत्यर्थः ॥ ३८ ॥ स० सः चारैः कथितः । येनबद्धः तेनरामेणसंधिंकुरुष्व ॥ ३९ ॥ स० इदंवचः रावणंप्रतिनिगद्य तस्यरक्षोधिपतेर्मनःपुनःपुनःपरीक्ष्य अनिवर्तनंज्ञाखा । रावणं समवेक्ष्य तूष्णींबभूवेत्यन्वयः ।‘‘अर्थनिबन्धनेयंसंज्ञा’ इत्युक्ते वचोरावणंनिगयोतिद्विकर्मकता। अनुत्तमेषु असदृशेषुराक्ष- सेषु । यद्वा अनुत्तमेषु नीचेषुरक्षोधिपतेर्मनपरीक्ष्यस्खयमुत्तमपौरुषइतितूष्णींबभूव ॥ ४१ ॥ इतिपञ्चत्रिंशःसर्गः ॥ ३५ ॥ [ पा० ] १ झ. चीचीकूचीति. २ ङ. च. झ. थ. ट. कलहैषिभिः. घ. कलहप्रियाः, ३ क.ख.ग. उ-ट, रुदन्तिते. घ• रुवन्ति ४ इ. झ. विकलो. ५ इदमर्घत्रयं घ. पाठेदृश्यते. ६ क. ख. ग. ङ. च. छ. झ. अ. ट. ज्ञाखाऽवधार्य ७ इदं छोकद्वयं ख. ङ. च. म. ट. पाठेषुदृश्यते ८ क. घ.-छ• अ• समुद्रेच. ९ घ. सन्धिमार्येण. १० इदमर्घत्रयं घ, पाठेदृष्यते. ११ ग• छ, च, छ, ज, झ. ट. स्तस्यनिगद्य. क. ख. स्तत्रनिगद्य, १२ घ. न्समीक्ष्यरक्षोधिपतेस्तदप्रियं.