पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३९ ॥ °याख्यासमलंकृत म् ि। १५१ हनुमानङ्गदो नीलो मैन्दो द्विविद एव च ॥ गजो गवाक्षो गवयः शरभो गन्धमादनः ॥ १० ॥ पनसः कुमुदचैव हरो रम्भश्च यूथपः । जाम्बवांश्च सुषेणश्च ऋषभश्च महामतिः ॥ ११ ॥ दुर्मुखश्च महातेजास्तथा शतबलिः कपिः । एते चान्ये च बहवो वानराः शीघ्रगामिनः ॥ १२ ॥ ते वायुवेगप्रवणास्तं गिरिं गिरिचारिणः ॥ अध्यारोहन्त शतशः सुवेलं यत्र राघवः ॥ १३ ॥ [तैतः सुचेलमारुह्य रामस्तैस्सह वानरैः॥ निषसाद गिरेस्तस्य द्वे समतले शुभे ।। १४ ॥ ततः कपिगणास्सर्वे समावृत्य द्वियोजनम् । सुवेलमध्यारोहंस्ते प्लवन्तो दक्षिणामुखाः ।। १५॥] ते त्वदीर्येण कालेन गिरिमारुह्य सर्वतः ॥ ददृशुः शिखरे तस्य विषक्तामिव खे पुरीम् ॥ १६ ॥ तां शुभां प्रवरद्वारां प्राकारपरिशोभिताम् । लङ्कां राक्षससंपूर्णा ददृशुर्हरियूथपाः ॥ १७ ॥ प्रकारचयसंस्थैश्च तदा नीलैर्निशाचरैः ॥ ददृशुस्ते हरिश्रेष्ठाः प्राकारमपरं क्रुतम् ॥ १८ ॥ ते दृष्ट्वा वानराः सर्वे राक्षसान्युद्धकाङ्किणः । मुमुचुर्विविधान्नादांस्तत्र रामस्य पश्यतः ॥ १९ ॥ ततोस्तमगमत्सूर्यः संध्यया प्रतिरञ्जितः॥ पूर्णचन्द्रप्रदीप्ता च क्षपा समभिवर्तते ॥ २० ॥ ततः स रामो हरिवाहिनीपतिर्विभीषणेन प्रतिनन्द्य सत्कृतः ॥ सलक्ष्मणो यूथपयूथसंवृतः सुवेलपृष्ठे न्यवसद्यथासुखम् ।। २१॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टत्रिंशः सर्गः ॥ ३८ ॥ एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ रात्रौसुग्रीवादिभिःसहसुवेलेसुखोषितेनरामेण प्रातर्लङ्गावलोकनम् ॥ १॥ तां रात्रिमुषितास्तत्र सुवेले हरिपुङ्गवाः॥ लङ्कायां ददृशुर्वीर वनान्युपवनानि च ॥ १ ॥ हितः सावधानः ॥ ९ ॥ सामात्य इत्युक्तं विवृणो- | वप्रमस्त्रियां ” इत्यमरः ।१८-१९॥ प्रतिरक्षितः ति-हनुमानित्यादिचतुःश्लोकी ॥ हनुमानिति पृथ- रक्तवर्णीकृतः। पूर्णचन्द्रप्रदीप्तेति । अनेन पौर्णमास्यां गुक्त्या रामलक्ष्मणौ पद्भ्यामेवारूढाविति गम्यते । सुवेलारोहणमित्युक्तं । प्रथमायां युद्धारम्भ इत्याहुः। ते प्रसिद्धाः । एते चान्ये च । वायुवेगप्रवणाः वायु- | यद्वा पूर्णचन्द्रतुल्यप्रदीपवतीति वाऽर्थः । संभवन्ति हि । वेगेन गच्छन्तः । “ भुङ् गतौ ” इति धातोर्बहुल वानरसेनायामपि प्रकाशार्थमारोपिता दीपाः । २० ।। । प्रहणात्कर्तरि ल्युट्। अतएव शीघ्रगामिनः सन्तः | वाहिनीपतिः वानरसेनानिर्वाहकः ॥ २१ ॥ इति अध्यारोहन्त ॥ १०–१५ ॥ ते रामादयः । तस्य | श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरी प्रसिद्धस्य त्रिकूटस्य । खे विषक्तां आकाशे लम्बमाना- टाख्याने युद्धकाण्डव्याख्याने अष्टत्रिंशः सर्गः ।।३८॥ मिव स्थितां । पुरीं लङ्कां । सर्वतो ददृशुः ॥ १६ ॥ वानराश्च दृशुरित्याह-तामिति । स्पष्टः ॥ १७ ॥| अथ लङ्कादर्शनमेकोनचत्वारिंशे-तामिति । तां प्राकारस्य चयः वनं तत्र स्थितैः । “ स्याच्चयो | रात्रिमित्यत्यन्तसंयोगे द्वितीया । ददृशुः प्रातरिति स० वायुवद्वेगप्रवणः वेगायतिर्येषांतेतथा । वायोरिववेगविस्तारवन्तइत्यर्थः । ‘प्रवणःक्रमनिम्नोर्यामायतौच” इतिविश्वः ॥१३॥ स० आकाशे विषक्तां अंबरपुंबिनीमितियावत् ॥ १६ ॥ ति० प्रतिरजितः प्रतिप्रापितरागः । पूर्णचन्द्रप्रदीप्ताक्षपेत्यनेन पौषशुक्लचतुर्दश्यांपूर्णिमायांवा सुवेलारोहणमितिबोध्यं । ‘चतुर्दश्यांसुवेलफेरामःसैन्यंन्यवेशयत्” इत्यग्निवेश्योतेः । अत्रपूर्ण- चन्द्रत्वोक्तिःपूर्णकल्पत्वादिति ॥ २० ॥ इयष्टत्रिंशःसर्गः ॥ ३८ ॥ [ पा० ] १ ख. ग. घ. करंभश्चमहाद्युतिः . २ इदंलकद्वयं क. ध. च. छ. पाठेषुदृश्यते, ३ घ, छ. झ. ट. प्राकारवर. ४ ङ, झ. ट. तंदृष्टा. ५ ङ. च. छ. झ. ट. यूथसंयुतः,