पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६२ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १६७ वीरबाहुः सुबाहुश्च नलश्च वैनगोचरः । निपीड्योपनिविष्टास्ते प्राकारं हरियूथपाः । एतस्मिन्नन्तरे चक्रुः स्कन्धावारनिवेशनम् ॥ २२ ॥ पूर्वद्वारं तु कुमुदः कोटीभिर्दशभिर्युतः ॥ आवृत्य बलवांस्तस्थौ हरिभिर्जितकाशिभिः ॥ २३ ॥ सौहाय्यार्थं तु' तथैव निविष्टः प्रघसो हरिः । पनसश्च महाबाहुर्वानरैर्बहुभिर्युतः ॥ २४ ॥ दैक्षिणं द्वारमागम्य वीरः शतबलिः कपिः ॥ आवृत्य बलवांस्तस्थौ विंशत्या कोटिभिर्युतः ॥२५॥ सुषेणः पश्चिमद्वारं गतैस्तारापिता हरिः ॥ आवृत्य बलवांस्तस्थौ धैष्टिकोटिभिरावृतः ॥ २६ ॥ उत्तरं द्वारर्केसाद्य रामः सौमित्रिणा सह ॥ आवृत्य बलवांस्तस्थौ सुग्रीवश्च हरीश्वरः ॥ २७ ॥ । गोलाशैलो महाकायो गवाक्षो भीमदर्शनः । वृतः कोव्या महावीर्यस्तस्थौ रामस्य पार्श्वतः ॥२८॥ कक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः । वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः॥ २९॥ सन्नद्धस्तु महावीर्यो गदापाणिर्विभीषणः । वृतो यत्तैस्तु सचिवैस्तस्थौ तंत्र महाबलः ॥ ३० ॥ गजो गवाक्षो गवयः शरभो गन्धमादनः॥ समन्तात्परिधावन्तो ररक्षुर्हरिवाहिनीम् ॥ ३१ ॥ ततः कोपपरीतात्मा रावणो राक्षसेश्वरः । निर्याणं सर्वसैन्यानां द्रुतमाज्ञापयत्तदा ॥ ३२ ॥ एतच्छुत्वा तैतो वाक्यं रावणस्य श्रृंखोदतम् ॥ सहसा भीमनिशंषष्ठ्डुष्टं रजनीचरैः ॥ ३३ ॥ ततः प्रचोदिता भेर्यश्चन्द्रपाण्डुरपुष्कराः ॥ हेमकोणाहता भीमा राक्षसानां समन्ततः ॥ ३४ ॥ विनेदुश्च महाघोषाः शङ्काः शतसहस्रशः। राक्षसानां सुघोराणां मुखमारुतपूरिताः ॥ ३५ ॥ ते बभुः भ्रूभनीलाङ्गाः सशर्वो रजनीचराः । विद्युन्मण्डलसन्नद्धाः सबलाका इवाम्बुदाः ।। ३६॥ गर्जन्तः सिंहनादं कुर्वन्तः ॥२१॥ वीरबाहुरियादि- | सुग्रीवस्य उत्तरद्वारनिरोधकत्वाभिधानादेतदनुसारेण सार्धश्लोक एकान्वयः । एतस्मिन्नन्तरे प्रसिद्धा कुमुदादीनां तत्तत्कोणावस्थितत्वेन तत्तद्दरनिरोधक- वीरबाह्मादयः प्राकारं निपीड्योपनिविष्टाः सन्तः । | त्वमिति व्याख्यातं ।। २७–३० । गजो गवाक्ष स्कन्धावारस्य शिबिरस्य । निवेशनं निर्माणं । चक्रुःइति ।। रामपार्श्वस्थात् गवाक्षान्यो ज्ञेयः ।।३१। ततः युद्धेन्तरान्तरा विश्रमार्थं वासस्थानं स्कन्धावारः वानरसेनासन्निवेशाद्धेतोः । तदा तस्मिन्सन्निवेश यद्वा व्यूहीभावेन सेनास्थापनं स्कन्धावारः ॥ २२ ॥ | काले ।।३२॥ भीमनिर्घोषं यथा भवतितथा उद्धष्टं । निवेशनप्रकारमेवाह-पूर्वद्वारमित्यादिना । कुमुदः । उच्चैः सिंहनादःकृत इत्यर्थः ॥३३॥ प्रचोदिताः सेनाग्रे पूर्वद्वारमावृत्य तस्थौ । ईशानकोणे स्थित्वा पूर्वद्वारमा- | प्रेरिताः । चन्द्रपाण्डुरपुष्कराः चन्द्रशुभ्रमुखः । क्रम्य स्थितवानित्यर्थः । २३--२४ ॥ शतबलिः | संमार्जनसंस्कारविशेषेण तासां शुभ्रत्वं । “ पुष्करं दक्षिणद्वारमावृत्य तस्थौ । आग्नेयकोणे स्थित्वा दक्षि- | करिहस्ताने बाद्यभाण्डमुखे जले' इत्यमरः । कोणो णद्वारमाक्रम्य स्थितवानित्यर्थः ॥ २५ ॥ सुषेणः | वाद्यताडनदण्डः । विनेदुरित्यनुकर्षः । अथवा प्रचो- पश्चिमद्वारं गतः आवृत्य तस्थौ । नैतकोणे स्थित्वा | दिताः सस्वनुरित्यर्थः ।। ३४-३५॥ शुभनीलाङ्गाः पश्चिमद्वारमाक्रम्य स्थितवानित्यर्थः ॥ २६ ॥ सुग्रीव- आभरणप्रभामिः शोभमानानि नीलानि चाङ्गानि श्रोत्तरं द्वारमावृत्य तस्थौ । “ पश्चिमेन तु रामस्य । येषां ते । अतएव विद्युन्मण्डलसन्नद्धा इति नाधि सुग्रीवः सहजाम्बवान् । अदूरान्मध्यमे गुल्मे तस्थौ | कोपमा । विद्युन्मण्डलसन्नद्धा इत्युपमानविशेषणेनो बहुबलानुगः ” इत्युक्तप्रकारेण वायव्यकोणे स्थितस्य । पमेयेषु राक्षसेषु सभूषणत्वं गम्यत इत्यप्याहुः।३६॥ [ पा०] १ ङ.-ट. पनसस्तथा. २ घ. च.-ड. सहायाथैतु. ३ ख. ङ.--ट. वानरैरभिसंवृतः ४ ख. ङ.--ट. दक्षिणद्वारमासाद्य ५ ड. झ. अ. ट. गत्वातारापिताबली. ६ च. झ. कोटिकोटिभिः ७ ग. च. झ. झ. ट. मागम्य. ८ ङ. झ. ध. ट. भीमकोपानां. ९ ड. छ. झ. ट. यत्र. १० ङ. च. झ. ट, तदा→ ११ क. -घ. च. झ. ट. मुखेरितं. १२ ग. ङ.-ट, शुकनीलाङ्गःघ. शुकनीलाभाः