श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ १७० हरिराक्षसदेहेभ्यः पुंभूताः केशशाद्वलाः । शरीरसंघाटवहाः प्रसत्रुः शोणितापगाः॥ १७ ॥ आजघानेन्द्रजित्क्रुद्धो वीणेव शतक्रतुः । अङ्गदं गदया वीरं शत्रुसैन्यविदारणम् ॥ १८ ॥ तस्य काञ्चनचित्राङ्गं रथं साधं ससारथिम् ॥ जघान समरे श्रीमानद्भदो वेगवान्कपिः ॥ १९ ॥ संपातिस्तु त्रिभिर्बाणैः प्रजन समाहतः ॥ निजघानाश्वकर्णेन प्रजहुँ रणमूर्धनि ॥ २० ॥ जम्बुमाली रथस्थस्तु रथशक्त्या महाबलः॥ बिभेद समरे क्रुद्धो हनूमन्तं स्तनान्तरे ॥ २१ ॥ तस्य तं रथमास्थाय हनूमान्मारुतात्मजः॥ प्रममाथ तलेनाशु सह तेनैव रक्षसा ॥ २२ ॥ नदन्प्रतं पॅनो घोरो नलं सोप्यन्वधावत ॥ २३ ॥ नलः प्रतपनस्याशु पातयामास चक्षुषी ॥ भिन्नगात्रः शरैस्तीक्ष्णैः क्षिप्रहस्तेन रक्षसा ॥ २४ ॥ ग्रसन्तमिव सैन्यानि प्रघसं वानराधिपः ॥ सुग्रीवः सप्तपर्णेन निर्बिभेदं जघान च ॥ २५ ॥ [ पुंपीड्य शरवर्षेण राक्षसं भीमदर्शनम् ॥ निजघान विरूपाक्षी शरेणैकेन लक्ष्मणः ॥ २६ ॥] अनिकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः ।। सृप्तनो यज्ञकोपश्च रैमं निर्बिभिदुः शरैः ॥ २७ ॥ तेषां चतुर्णा रामस्तु शिरांसि ‘निशितैः शरैः॥ क्रुद्धश्चतुर्भिश्चिच्छेद घोरैरैग्निशिखोपमैः॥ २८ ॥ वजमुष्टिस्तु मैन्देन मुष्टिना निहतो रणे ॥ पपात सरथः साश्वः पॅराह इव भूतले ॥ २९ ॥ निकुम्भस्तु रणे नीलं नीलाञ्जनचयप्रभम् ॥ निर्बिभेद शरैस्तीक्ष्णैः करैर्मेघमिवांशुमान् ॥ ३० ॥ पुनः शरशतेनाथ क्षिप्रहस्तो निशाचरः । बिभेद समरे नीलं निकुम्भः प्रजहास च ॥ ३१ ॥ तस्यैव रथचक्रेण नीलो विष्णुरिवाहवे । शिरश्चिच्छेद समरे निकुम्भस्य च सारथेः ॥ ३२ ॥ वब्राशनिसमस्पर्शी द्विविदोष्यशनिप्रभम् ॥ जघान गिरिशङ्कण मिषतां सर्वरक्षसाम् ॥ ३३ ॥ द्विविदं वानरेन्द्रं तु नगयोधिनमाहवे । शरैरशनिसंकाशैः स विव्याधाशनिप्रभः ॥ ३४ ॥ स शरैरेंतिविद्धाङ्गो द्विविदः क्रोधमूर्चिछतः ॥ सालेन सरथं साश्वं निजघानाशनिप्रभम् ॥ ३५ ॥ विद्युन्माली रथस्थस्तु शरैः काञ्चनभूषणैः । सुषेणं ताडयामास ननाद च मुहुर्मुहुः ॥ ३६ ॥ तं रथस्थमथो दृष्ट्वा सुषेणो वानरोत्तमः । गिरिशङ्केण महता रथमाशु न्यपातयत् ॥ ३७ ॥ लाघवेन तु संयुक्तो विद्युन्माली निशाचरः। ॥ अपक्रम्य रथात्तूर्णं गदापाणिः क्षितौ स्थितः॥३८॥ ततः क्रोधसमाविष्टः सुषेणो हरिपुङ्गवः। शिलां सुमहतीं गृह्य निशाचरमभिद्रवत् ॥ ३९ ॥ तमापतन्तं गदया विद्युन्माली निशाचरः । वक्षस्यभिजघानाशु सुषेणं हरिसत्तमम् ।। ४० ।। व्याकुलं ॥ १६ ॥ केशशाद्वलाः केशैः शाद्वलवत्यः । ॥ २८ ॥ पुराटुः पुरवलभिः ॥ २९-३ ॥ संघटः काष्ठसंचयः ॥ १७ ॥ आजघान ताड्रयामास | क्षिप्रहस्तः क्षिप्रकारिहस्तः। निकुम्भः प्रजहास चेति ॥ १८-२० ।। रथशक्त्या रथ एव सदा वतमानया | पाठः सम्यक् ॥ ३१ ॥ शिरश्चिच्छेद सारथेरित्यनन्तरं शक्त्या ।। २१ । आस्थाय आरुह्य ।। २२ ॥ नदन्नि वत्राशनिसमस्पर्श इति श्लोकः। ततो द्विविदं वान त्यर्धमेकं वाक्यं ।।२३। रक्षसा प्रतपनेन । भिन्नगात्र इत्यस्य पूर्वेणान्वयः ॥ २४॥। सप्तपर्णीन सप्तपर्णवृक्षेण रेन्द्रं त्विति श्लोकः ॥ ३२-३७ । अपक्रम्य अव- ॥ २५-२७ ।। अग्निशिखोपमैः अग्निज्वालोपमैः | श्रुत्य ।। ३८ ॥ अभिद्रवत् अभ्यद्रवत् ॥ ३९-४० ॥ ति० अष्टः क्षौममितिकतकः । विमानमित्यन्ये । स० सुराष्टदेवदत्तोदैतेयविमानः ॥ २९ ॥ स० आहवेचीणविष्णुरिव समरे निकुंभस्यसारथेः शिरश्चिच्छेदेत्यन्वयः ॥ ३२ ॥ [ प० ] १ क. ग. ङ. च. झ. ब. ट. प्रसृताः. २ ङ, झ. ट. गदाश्रीमन्. ३ ङ. छ. झ. ज. ट. निजघानजवेनच ४ अयंलोकः ङ.--ड, पाठेषुदृश्यते. ५ ख. ग. ङ. ज. झ. मित्रश्न. ६ . झ. ट. राममादीपयच्छरैः. ७ ङ. च. झ . ब. समरेशः, ८ झ. ज. सुराङइव, ९ ङ. छ• झ. रभिविद्धझो. |
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१७४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति