पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ पञ्चाशः सर्गेः ॥ ५० ॥ सुग्रीवचोदितेन जांबवता रामसमीपमागच्छतिगदापणौविभीषणे इन्द्रजिद्धमेणविद्रवतांवानराणां तस्यविभीषणस्वभाष णेनसमाश्वासनपूर्वकं प्रतिनिवर्तनम् ॥ १ ॥ रामलक्ष्मणसमीपमेत्य सलिलेनतन्नयनपरिमार्जनपूर्वकंविलपतोविभीषणस्य सुग्रीवेणसमाश्वासनम् ॥ २ ॥ सुग्रीवेण स्वयंरावणवधप्रतिज्ञानपूर्वकं राघवयोः किष्किन्धाप्रापणंचोदितेन सुषेणेन तंप्रति संजीवकरण्यादिमहौषधिसमानयनाय क्षीरोदंप्रतिहनुमचोदनचोदना ॥ ३ ॥ अत्रान्तरेस्वयमेव सस्वरसमागतेन गरुडेन रामलक्ष्मणयोर्नागपाशविध्वंसनपूर्वकं परिष्वङ्गः ॥ ४ ॥ रामप्रश्नेननिजस्वरूपनिवेदनपूर्वकं सप्रदक्षिणंगतेगरुडे वानरैर्हप- दुच्चैरुद्धोषणम् ॥ ५ अथोवाच महातेजा हरिराजो महाबलः । किमियं व्यथिता सेना मूढवातेव नौर्जले ॥ १ ॥ सुग्रीवस्य वचः श्रुत्वा वालिपुत्रोऽङ्गदोऽब्रवीत् ॥ २ ॥ नै त्वं पश्यसि रामं च लक्ष्मणं च महाबलम् । शरजालाचितौ वीरावुभौ दशरथात्मजौ । शरतल्पे महात्मानौ शयानौ रुधिरोक्षितौ ॥ ३ ॥ अथाब्रवीद्वानरेन्द्रः सुग्रीवः पुत्रमङ्गदम् । नानिमित्तमिदं मन्ये भवितव्यं भयेन तु ॥ ४ ॥ विषण्णवदना वेते त्यक्तप्रहरणा दिशः॥ फ्रेपलायन्ति हरयस्त्रासादुत्फुललोचनाः ॥ ५॥ अन्योन्यस्य न चेज्जन्ते न निरीक्षन्ति पृष्ठतः । विप्रकर्षन्ति चान्योन्यं पतितं लङ्घयन्ति च ॥६॥ एतसिन्नन्तरे वीरो गदापाणिर्विभीषणः सुग्रीवं वर्धयामास रौघवं च निरैक्षत ॥ ७ ॥ विभीषणं तं सुग्रीवो दृष्ट्वा वनरभीषणम् । अक्षराजं समीपस्थं जाम्बवन्तमुवाच ह ॥ ८ ॥ विभीषणोऽयं संप्राप्तो यं दृष्ट्वा वानरर्षभाः॥ विद्रवन्ति परित्रस्ता रावणात्मजशङ्कया ॥ ९ ॥ शीघ्रमेतान्सुसंत्रस्तान्बहुधा विप्रधावितान् । पर्यवस्थापयाख्याहि विभीषणमुपस्थितम् ॥ सुग्रीवेणैवमुक्तस्तु जाम्बवानृक्षपार्थिवः॥ वेंनरान्सान्त्वयामास सैंनिरुध्य प्रधावतः ॥ ११ ॥ ते निवृत्ताः पुनः सर्वे वनरास्त्यक्तसंभ्रमाः ॥ ऋक्षराजवचः श्रुत्वा तं च दृष्ट्वा विभीषणम् ॥१२॥ } विभीषणस्तु रामस्य दृष्ट्वा गात्रं शरैश्चितम् । लक्ष्मणस्य च धर्मात्मा बभूव यथितेन्द्रियः ॥ १३ ॥ जलक्लिन्नेन हस्तेन तयोर्नेत्रे पुंमृज्य च ॥ शोकसंपीडितमना रुरोद विललाप च ॥ १४ ॥ इमौ तौ सत्वसंपन्नौ विक्रान्तौ प्रियसंयुगौ ॥ इमामवस्थां गमितौ राक्षसैः कूटयोधिभिः ॥ १५ ॥ अथ रामस्य नागपाशविमोचनं पञ्चशे-अथो- | पश्यसि किमित्यर्थः। रामं लक्ष्मणं चेत्युभावित्यन्वयः वाचेत्यादि । तादात्विकसेनापलायननिमित्तमजानानः |॥ ३॥ स्वयमुद्धाटयति-अथेत्यादिना । इद रघु- पृच्छति--किमिति । किं किमर्थं । उवाच बानरा- सिंहयोः शरतल्पशयनं । अनिमित्तं न भवतीति निति शेषः । मूढः मूर्चछतः । विरुद्धदिग्वाय्वन्तरा- मन्ये । अन्येन भयनिमित्तेन भवितव्यमित्यर्थः । भिहत इत्यर्थः । वात्याहतेति यावत् । १। सुग्रीव- | तत्र हेतुमाह--विषण्णेत्यादिना । त्यक्तप्रहरणाः स्येत्यर्थं ।। २॥ रामव्यथां विना किमन्यन्निमित्तमि- | त्यक्तशिलाद्यायुधाः । अन्योन्यस्य अन्योन्यं । विप्र त्युत्तरयति--न त्वमिति । अत्र काकुः । त्वं न कर्षन्ति द्रुतगमनार्थमाकर्षन्ति ॥ । ४-९ ॥ विप्रधावि- स० इदं कपिपलायनं अनिमित्तं अकारणकंनमन्ये । पलायनप्रयोजकेनभयेन बदुक्तरेणभवितव्यमित्यह्नदमब्रवीत् ॥ ४ ॥ स० त्रासात् नूतनभीतेः ॥ ५ ॥ स० वानरभीषणं इन्द्रजिद्मजनकतया ॥ ८ ॥ [ पा० ] १ ख, प्रौढवातेव. २ ख. किंनुपश्यसि. ३ ख. ङ. -ट. पलायन्तेत्रहरयः , ४ छ. जल्पन्ति. ५ ड . झ. अ. ट. राघवंचजयाशिषा. ६ क. ख. घ.-ट. द्रवन्त्यागतसंत्रासारावणात्मजशङ्कया. ७ क. वानरान्वारयामासनिवर्यप्रतिधावतः ८ ख. ड. -टः संनिवर्यं. ९ ङ, वानरामुक्तसाध्वसाःच, छ. झ. बटवानरास्त्यक्तसाध्वसाः१० घर-८. व्यथितस्तदा। ११ ङ.-ट, विमृज्यचक