सर्गः ६० ॥ श्रीमद्रोविन्दराजीयन्यारल्यासमलंकृतम् । १८९ भ्रातुः पुत्रेण मे तेन दुष्पुत्रेण दुरात्मना ॥ राक्षस्या जिह्मया बुद्ध्या चालितावृजुविक्रमौ ॥ १६ ॥ शरैरिमवलं विद्धौ रुधिरेण समुक्षितौ ॥ वसुधायामिमौ सुप्तौ दृश्येते शल्यकाविव ॥ १७ ॥ ययोर्वीर्यमुपाश्रित्य प्रतिष्ठा काङ्किता मया । तेंवुभौ देहनाशाय प्रसुप्तों पुरुषर्षभौ ॥ १८ ॥ जीवनद्य विपन्नोस्मि नष्टराज्यमनोरथः । प्राप्तप्रतिज्ञश्च रिपुः सकामो रावणः कृतः॥ १९ ॥ एवं विलपमानं तं परिष्वज्य विभीषणम् । सुग्रीवः सैवसंपन्नो हरिराजोऽब्रवीदिदम् ॥ २० ॥ राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नेत्र संशयः ॥ रावणः सह पुत्रेण स कामं नेह लप्स्यते ॥ २१ ॥ नै रुजापीडितावेतावुभौ राघवलक्ष्मणौ ॥ त्यक्त्वा मोहं वधिष्येते सगणं रावणं रणे ॥ २२ ॥ तमेनं सान्त्वयित्वा तु समाश्वास्य च राक्षसम् । सुषेणं श्वशुरं पावें सुग्रीवस्तमुवाच ह ॥ २३ ॥ सह हरिगणैर्लब्धसंज्ञावरिन्दमौ । गच्छ त्वं भ्रातरौ गृह्य किष्किन्धां रामलक्ष्मणौ ॥ २४ ॥ अहं तु रावणं हत्वा सपुत्रं सहबान्धवम् ॥ मैथिलीमानयिष्यामि शक्रो नष्टामिव श्रियम् ॥ २५ ॥ श्रुत्वैतद्वानरेन्द्रस्य सुषेणो वाक्यमब्रवीत् । दैवासुरं महद्युद्धमनुभूतं क्षुदारुणम् ॥ २६ ॥ तद स्मृ दानवा देवाञ्शरसंस्पर्शकोविदाः ॥ निजध्रुः शस्त्रविदुषश्छादयन्तो मुहुर्मुहुः॥ २७ ॥ तानार्तानष्टसंज्ञांश्च परामृश्च बृहस्पतिः ।। विद्याभिमंत्रयुक्ताभिरोषधीभिश्चिकित्सति ॥ २८ ॥ तान् पलायमानान् ॥ ०१५ । दुष्पुत्रेण कपट १८—२१ । न रुजापीडितौ इयं रुजा अनयो युद्धेन पितुरवद्यावहेन । चालितौ वञ्चितैौ । त्रजु- | रात्यन्तिकहानिकरी न भवति । किंतु मोहमात्रकारि विक्रमौ अकपटविक्रमौ ।। १६ ॥ सुप्तौ सुप्तसदृशौ। णीत्यर्थः । २२-२५ । अनुभूतं मया ज्ञातं । शर शल्यकौ कण्टकिबराहौ ।। १७ ॥ ययोरित्यादिचतुः- संस्पर्शकोविदाः शरप्रयोगसमर्थाः। स्पशं दानमिति श्लोकी ॥ अत्र वक्तव्यं सर्वमभयप्रदाने दर्शितं । पर्यायः ॥ २६-२७॥ मत्रयुक्ताभिः मत्रप्रचुराभिः । स० भ्रातुः रावणस्य पुत्रेण । नोभयोः पितापुत्रयोरेवैतादृकूटयोधिवं किंतु परंपरैवेदृशीत्याह--दुष्पुत्रेणेति । दुर्घछपुत्रो यस्यासतथा १६ ॥ स० इमैौ अलं विद्धौइमौसुप्तावित्यन्वयः पृथक्पृथगितिनान्यतरवैयथ्यै यद्वा इःकामः तस्यापिमाशोभा याभ्यांतौ । एवमपिशोभागतानेतिभावः । छत्रिन्यायेनेमावितिवा कामकामपालस्योत्तमत्वात्तत्वाल्लक्ष्मणस्यवा इमावितिसं. भवति । ‘इःकामदेवेयनव्ययम्’ इति विश्वः १७ ॥ स० देहनाशाय स्खदेहनाशाय । यद्वा मद्देहनाशाय । एतयोरियाननद्या यदितहिं ममराज्याशंकत्र तिष्ठतु रावणोपितुप्राक्तनकोपेन मारयेदितिद्योतयत्यनेनेतिीयम् ॥ १८ ॥ स० प्रतिज्ञायतइतिप्रतिज्ञा प्रतिज्ञातोर्थःसीतापरित्यागाभावरूपः प्राप्तोयेनसतथा सकामः मन्नाशेन निष्कण्टकराज्यप्राध्या । कृतः अनयोरेवंस्पेनेति शेषः १९ ॥ स० विलपमानं विलपन्ते । पदव्यत्यासेनविलापफलकस्यविभीषणोत्प्रेक्षितस्यव्यत्यासंकविरवगमयामासेतिीयं ॥ स० गरुडाधिष्ठितौ गरुडेअधिष्ठितोगरुडवाहनोरामश्च । अधिष्ठानमधिष्ठितं गरुडस्येवाधिष्ठानंयस्येतिचान्यथेति गरुडाधिष्ठितौरामलक्ष्मणौ । मोहं नागपाशासादनी । अयमेवपाठोन्याय्यः । गरुडागमनेननागपाशवियोगस्यात्रोत्तरवबहुपुरा णेषुश्रवणात् । तानिचखावसरेवक्ष्यामः । ‘नरुजापीडितावितिपठिखा’ इतितीर्थपाठस्यतदुत्प्रेक्षितयंसूचयन्नागोजिभः स्वयंपाङ्ग ‘गरुडाधिष्ठितौ’ इतिपठितु ‘गरुडोपासकतयाविदितौ’ इतिनिर्मलमयैवदंस्तादृशएवेति संतोष्टव्यं । २२ स० उत्तरश्लोक द्वयमेकान्वयि । राक्षसं विभीषणं सान्वयित्वा सुषेणंचसमाश्वास्यच गच्छेत्यब्रवीदिति संबन्धः एतेनान्यतरातिरेकशङ्कया ‘सान्वयित्वेत्यस्यैवार्थकथनं समाश्वास्यखिति’ इतिवदनागोजिभट्टस्य बहुस्थलेषु द्वित्रादीनांलोकानामेकान्वयब्रुवतोऽन्वयज्ञान- दारिद्यद्योत्यते ‘सान्त्वयित्वा गरुडानुग्रहसंभावनयेत्यर्थः अनेनसुग्रीववाक्येनरामविषयेस्खस्यभगवदवतारत्वज्ञानंसूचितं इतितद्वचनं ‘गरुडोपासकतयाविदितौ’ इति ‘गरुडानुग्रहसंभावनया’ इतिस्खवचनव्याहतमित्युपेक्ष्यं । तेनाभगवदवतारत्वहेतो रुपासकखस्यतदनुग्रहपात्रवस्यैवचप्रतीतेः ॥ २३. -२४ शि० राक्षसंतविभीषणमेवमाश्वास्य बोधयित्वा सान्खयित्वा तापं निरस्य सुषेणमुवाच ॥ ति० यात्रलब्धसंज्ञौभविष्यतः तावदनयोरक्षार्थं एतौहीत्वाशूरैर्हरिगणैःसह किष्किन्धगच्छ २४ ॥ स० आगमनप्रयोजनस्यानिष्पत्तेःकथं कथय गन्तव्यमित्यतआह-अहंविति । नष्टां बल्यादिभिरदर्शनंप्रापितां श्रियं [ पा० ] १ ङ. च. झ. अ. ट. भ्रातृपुत्रेणचैतेन २ क. ख. च. छ. ट. चालितौम्राज्यविक्रमौ ग. ङ. झ. वञ्चितादृजु विक्रमौ. ३ ङ. -ट. ताविमौ. ४ ट. सत्वमापन्नः. ५ ङ. च. झ. ज. ट. नेह. ६ ड. झ. ट. गरुडाधिष्ठितावेतौ ७ क. ख. ग. च~~ट. तमेवं, ८ क. घ. विभीषणं, ९ घ.-ट. पुरातनं. १० ग, घ, ङ. झ. च, ट, संस्पर्शकोविदान्.
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१९३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति