१९४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ तच्छुत्वा वचनं तेषां राक्षसेन्द्रो महाबलः ॥ चिन्ताशोकसमाक्रान्तो विषण्णवदनोऽब्रवीत् ॥१४ घोरैर्दत्तवरैर्बद्धौ शरैराशीविषोपमैः ॥ अमोचैः सूर्यसंकाशैः प्रमथ्येन्द्रजिता युधि ॥ १५ ॥ तदस्त्रबन्धमासाद्य यदि मुक्तौ रिपू मम ॥ संशयथामिदं सर्वमनुपश्याम्यहं बलम् ॥ १६ ॥ निष्फलाः खलु संवृत्ताः क्षीरा वासुकितेजसः ॥ आदत्तं यैः सुसंग्रामे रिपूणां मम जीवितम् ॥ १७॥ एवमुक्त्वा तु संक्रुद्धो निःश्वसनुरगो यथा ॥ अब्रवीद्रक्षसां मध्ये धूम्राक्षी नाम राक्षसम् ॥ १८॥ बलेन महता युक्तो ऍक्षसां भीमविक्रम । त्वं वधायाभिनिर्याहि रामस्य सह वानरैः ॥ १९ ॥ एवमुक्तस्तु धूम्राक्षो राक्षसेन्द्रेण धीमता ॥ —त्वा प्रणामं संहर्षो निर्जगाम नृपालयात् ॥ २० ॥ अभिनिष्क्रम्य तद्वरं बलाध्यक्षमुवाच ह । त्वरयस्ख बलं तूर्णं किं चिरेण युयुत्सतः ॥ २१ ॥ धूम्राक्षवचनं श्रुत्वा बलाध्यक्षो बलानुगः॥.बलमुद्योजयामास रावणस्याज्ञया द्रुतम् ॥ २२ ॥ ते बद्धघण्टा बलिनो घोररूपा निशाचराः । विगर्जमानाः संहृष्टा धूम्राक्षे पर्यवारयन् । विविधायुधहस्ताश्च शूलमुद्गरपाणयः॥ २३ ॥ गदाभिः पट्टिशैर्दण्डैरायसैर्मुसलैर्मुशम् । पश्चैिभिन्दिपालैश्च भल्लैः प्रासैः परश्वधैः ॥ निर्ययू राक्षसा दिगर्भयो नर्दन्तो जलदा यथा । २४ ॥ रथैः कवचिनस्वन्ये ध्वजैश्च समलङ्कतैः ॥ सुवर्णजालविहितैः खरैश्च विविधाननैः ॥ २५ ॥ हयैः परमशीलैश्च गजेन्दैश्च मदोत्कटैः॥ निर्यय् राक्षसच्याम्रा व्याघ्रा इव दुरासदाः ॥ २६ ॥ वृकसिंहमुखैर्युक्तं खरैः कनकभूषणैः ॥ आरुरोह रथं दिव्यं धूम्राक्षः खरनिःखनः॥ २७ ॥ स निर्यातो महावीर्यो धूम्राक्षो राक्षसैर्युतः ॥ ऑहसन्पश्चिमद्वारे हनूमान्यत्र यूथपः । रथप्रवरमास्थाय खरयुक्तं खरस्खनम् ॥ २८ ॥ प्रयान्तं तु महाघोरं राक्षसं भीमॅविक्रमम् । अन्तरिक्षगता घोराः शकुनाः प्रीत्यवारयन् ॥ २९ ॥ रथशीर्षे महान्भीमो गृध्रश्च निपपात ह ॥ ध्वजाग्रे ग्रथितायैव निपेतुः कुणपाशनाः ॥ ३० ॥ मानावित्यर्थः ॥ १३-१४ ॥ दत्तवरैः वरदत्तैः । आयुधानि शूलादिभिन्नानि । अस्यार्धस्य पूर्वेणान्वयः प्रमथ्य बलात्कृत्य । बद्धौ अभूतामिति शेषः ॥ १५|॥ २३ ॥ गदाभिरित्यादि । गदा प्रसिद्धा । पट्टिशः । ॥ संशयस्थं प्राणसंशयस्थं ॥ १६ ॥ आदत्तं आत्तं दण्डविशेषः । परिघः भिन्दिपालः। भलः अयोमयः १७-१८ त्वं वधायाभिनिर्याहीत्यमङ्गलसूचकं शरः । प्रासैः परश्वधैः। दिग्भ्यो जलदा इवेत्यन्वयः वचः॥ १९-२०॥ द्वारमभिनिष्क्रम्य द्वारान्निष्क्रम्य। युयुत्सतः ममेतिशेषः । किं चिरेण किं विलम्बेन |॥ २४ । अन्ये कवचिनः । ध्वजैः विविधाननैः ॥ २१ ॥ रावणस्याज्ञया रावणाज्ञाकृतं धूम्राक्षवचनं | खरैश्च समलङ्कतै रथैर्निर्ययुः । अन्ये हयैः अन्ये श्रुत्वेत्यर्थः । २२ । बद्धघण्टाः शूरत्वज्ञापनाय कटि- | गजैश्च निर्ययुरित्यन्वयः ॥ २५-२८ । शकुनाः बद्धघण्टा इत्यर्थः । ते पूर्वोक्तसेनास्थाः। विविधेति । निमित्तसूचकाः पक्षिणः ॥२९॥ कुणपाशनाः गृध्राः । स७ जीवितमादत्तं युद्धान्तरे ॥ १७ ॥ ती० बलेनेत्यस्यप्रकृतार्थःस्पष्टः । वस्तुतस्तुबलेनयुक्तस्सन् । रक्षसांच तवचेत्यध्याहार्यं एकदैवरामस्यवानरैः रामसंबन्धिवानरैःवधायखमभिनिर्याहीतिसंबन्धः ॥ १९ ॥ [ पा० ] १ ड. झ. ट. चिन्ताशेष. २ ख. ङ. च. झ. अ. विवर्णवदनोभवत्• ३ ङ. झ. शराःपावकतेजसः ४ झ. राक्षसैर्भामविक्रमः. ङ. राक्षसैर्भामविक्रमैः . ५ ङ. -ट. परिक्रम्यततःशीघ्रनिर्जगाम . ६ उ. झ. ट. भृशै. ७ ङ. गुडैरपि. ८ ङ.-ट. घोरानर्दन्तो. ९ च. जालरचितैः . १० ङ. -ट. कनकभूषितैः. ११ ङ. झ. ट. हसन्वैपश्चिमद्वाराद्धनूमान्यत्र- तिष्ठति. चः प्रययौपश्चिमद्वारात्, १२ क. ख. ग. ङ. छ. झ. ज. ट, भीमदर्शनं. १३ इ. -ट• प्रत्यषेधयन्.
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१९८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति