पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । विभीषणो गतः पूर्वमेभिस्तत्र गतैध्रुवम् ॥ संधिं करिष्यति व्यक्तं राघवं प्रणिपत्य ह । संमान्य मैथिलीं चास्मै प्रदस्यति विभीषणः ॥ ३६ ॥ माल्यवांश्च महामायो राक्षसानां हिते रतः ॥ राघवं याच्य शिरसा संधिं कुर्वन्तु रावण ॥ ३७ ॥ सान्त्वं भेदं तथा दानं राज्ञामेतत्रयं शुभम् ॥ अशुभं तु स वै युद्धे तस्माद्युद्धं विसर्जयेत् ॥ त्रिभिर्नयैर्जितं मन्ये सहितं विक्रमेण तु ॥ ३८ ॥ स्खजनस्य वधं कृत्वा पुत्रभ्रातृवधं तथा । संशयं चात्मनः कृत्वा किं जयेन करिष्यसि ॥ ३९ ॥ चञ्चला युद्धसिद्धिस्तु हन्यते तेजसापि वा । तस्माद्युद्धं न रोचेत संधिं कुरु दशानन ॥ ४० ॥ प्रणिपत्य महाबाहो राघवं प्रतिनन्दनम् । दीयतामद्य सा सीता संधिस्ते तेन रोचताम् ।४१ ॥ सांप्रतं संशयो राजन्पुरस्य सह बान्धवैः ॥ आत्मनो राक्षसश्रेष्ठ वर्तते नात्र संशयः ॥ ४२ ॥ तस्माद्राजन्ब्रवीम्येवं पुरस्याथ कुलस्य च ॥ रक्षणीयस्तवात्मा च सर्वमात्मन्यधिष्ठितम् ॥ ४३ ॥ क्षमाशीलस्तथा रामः सत्यवादी च राघवः । धर्मनित्यो महराजः शरणागतवत्सलः ॥ ४४ ॥ कुरु तेनैदितः सन्धि रामे दशरथात्मजे । लक्ष्मणश्च महाबाहो नित्यं भ्रातृ हिते रतः ॥ ४५ ।। प्रहरतेन कृतं किं नु युध्यता रक्षसा बले ॥ धूम्राक्षेण च राजेन्द्र नित्यं समरष्टद्धिना ॥ ४६ ॥ महाकायेन च तथा महामायेन रक्षसा ॥ अकंपनेन वीरेण युध्यता राक्षसेश्वर ॥ ४७ ॥ तथान्यैर्युध्यमानैश्च किं कृतं राक्षसे बले । न हतो यूथपः कश्चिद्धलोद्देशोपि रावण ॥ ४८ ॥ तेषां वीर्याद्धिभेतीन्द्रः कुचेरवरुणावपि । यमो वैबखतो येषां तथाऽन्ये देवदानवाः॥ ४९ ॥ येषां नास्ति समो वीर्यं ते हता वानरैयुधि ।। न चापि वानराः शक्या हन्तुं पादपयोधिनः ॥५॥ रक्ष्यमाणास्तु रामेण सुग्रीवेण च पालिताः । तत्र ते रोचतां सन्धिः सह रामेण रावण ॥ ५१ ॥ योग्यश्च राघवो मित्रं कार्तवीर्यार्जुनो यथा ॥ मा कृथा मोघमानित्वं मा कृथाः कुलसंक्षयम् ।५२ मा कृथाः पुरनाशं तु मा कृथाः पुत्रसंक्षयम् ।। हितं सर्वं ब्रवीम्येषां कुरुष्ष वचनं मम ॥ ५३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे प्रक्षिप्तः सर्गः प्रथमः ॥ १ ॥ प्रक्षिप्तसर्गः ॥ २ ॥ रावणेनमन्दोदरींप्रति स्वपराक्रमप्रशंसनपूर्वकं रामादिवधप्रतिज्ञ नेनसपरिष्वङ्गतस्य अन्तःपुरंप्रतिप्रेषणम् ॥ १ ॥ तथा- भटान्प्रतियुद्धयरथादिसीकरणचोदना ॥ २ ॥ ९५ तस्यास्तद्वचनं श्रुत्वा प्रियाया राक्षसेश्वरः ॥ उष्णं दीर्घ विनिश्वस्य निरीक्ष्य च सभासदः॥ हरते मन्दोदरीं गृह्य वाक्यमेतदुवाच ह ॥ १ ॥ त्वया न युद्धकाङ्गिण्या वचो यद्ध भाषितम् । न तन्मनसि मे देवि प्रविवेशाप्रियं प्रिये ॥ २ ॥ देवाञ्जित्वा रणे पूर्वे ससुरासुरमानुषान् । प्रणमे मानुषं रामं वानरान्यः समाश्रितः ॥ ३ ॥ प्रणम्य रामं काकुत्स्थं किं वक्ष्ये सर्वदेवताः । कीदृशं वा भवेन्मठं जीवितं हततेजसः ॥ ४ ॥ हृत्वा तस्य पुरा भार्या मानं कृत्वा सुदारुणम् । राक्षसान्मारयित्वा तु लङ्कां संपीड्य सर्वतः । राघवं प्रणमे कसीनवीर्यं इवापरः ॥ ५ ॥ राघवं प्रणिपत्याहं कथं जीवितुमुत्सहे ॥ एष मे सहजो भावो नित्यं मनसि वर्तते ॥ ६ ॥ १ तेन कारणेन । आदितः प्रथमं रामेसंधिंकुर्वित्यन्वयः ॥ ४५ ॥ प्रणमे कथमितिशेषः ॥ ३ ॥