पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ एवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम् ॥ द्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम् ॥ ३० ॥ कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा । न स्थानकालो गच्छामो दयितं जीवितं हि नः॥ ३१॥ एतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशः ॥ भीमं भीमाक्षमायान्तं दृष्ट्वा वानरयूथपाः ॥ ३२ ॥ द्रवमाणास्तु ते वीरा अङ्गदेन वलीमुखाः ॥ सन्वैचैवानुमानैश्च ततः सर्वे निवर्तिताः॥ ३३ ॥ प्रहर्षमुपनीताश्च वालिपुत्रेण धीमता । आज्ञाप्रतीक्षास्तस्थुश्च सर्वे वानरयूथपाः ॥ ३४ ॥ अषभशरभमैन्दधूम्रनीलाः कुमुदसुषेणगवाक्षरम्भताराः ॥ द्विविदपनसवायुपुत्रमुख्यास्त्वरिततराभिमुखं रणं प्रयाताः ॥ ३५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षट्क्षष्टितमः सर्गः ॥ ६६ ॥ सप्तषष्टितमः सर्गः ॥ ६७ ॥ कुंभकर्णं वानरसेनामध्येकेषांचिद्वक्षणेनकेषांचिदापाणितलाभिघातेन विक्षोभपूर्वकंसंचरमाणे हनुमता शैलनेणतत्ताड नम् ॥ १ ॥ तप्रहारक्षुभितेनकुंभकर्णेन हनुमतोवक्षसि शूलाभिघातेनविह्वलताप्रापणपूर्वकं नीलादिभिरायोधनम् ॥ २ ॥ तेषु कुंभकर्णपीडामसहमानेष्वङ्गदेन गिरिशिखरेणकुंभकर्णशिरस्ताडनम् ॥ ३ ॥ तेन मुष्टिघातेनाङ्गदस्यमोहप्रापणपूर्वकं सुग्रीवंप्रत्यभियानम् ॥ ४ ॥ सुग्रीवेण शैलङ्गताडितेनकुंभकर्णेन तद्वधायलेसमुत्सृष्टे हनुमता तच्छूलस्यनिजजानुस मारोपणेनभञ्जनम् ॥ ५ ॥ कुंभकर्णेन स्वपातितशैलङ्गप्रहारेणपतितमूर्चिछतस्यसुग्रीवस्यग्रहणेन लङ्काप्रवेशः ॥ ६ ॥ कट्ठाजनैः कुंभकर्णंपरिहर्षेणपुष्पगन्धोदादिवर्षणे तसेकेनप्रबुद्धाप्यायितेन सुग्रीवेण खरनखरकराणैर्दन्तैश्च कुंभकर्णकर्णना सच्छेदनपूर्वकं वियतिसमुत्पतनेन रामपार्श्वगमनम् ॥ ७ ॥ ततःक्रोधास्परावृत्यरणाङ्गणमागतेनकुंभकर्णेन मध्येस्वेनसहयो धितवतोलक्ष्मणस्यलाघनेन रामंप्रत्यभियानम् ॥ ८ ॥ रामकुंभकर्णयोर्वीरवादपूर्वकंमहायुद्धम् ॥ ९ ॥ रामेण बाणचतुष्ट- येनकुंभकर्णस्यबाहुपादच्छेदपूर्वकं शरान्तरेणशिरश्छेदनम् ॥ १० ॥ कुंभकर्णवधानन्तरं देवर्यादि भिस्सह वानरैः सहर्षे श्रीरामपूजनम् ॥ ११ ॥ ते निवृत्ता महाकायाः श्रुत्वाऽङ्गदवचस्तदा । नैष्ठिकीं बुद्धेिमासाद्य सर्वे संग्रामकाङ्किणः ॥१॥ समुदीरितेंवीणैश्च समारोपितविक्रमाः । पर्यवस्थापिता वाक्यैरङ्गदेन वैलीमुखाः ॥२॥ प्रयाताश्च गता हर्षे मरणे कृतनिश्चयाः ॥ चक्रुः सुतुमुलं युद्धं वानरास्त्यक्तजीविताः ॥ ३ ॥ अथ वृक्षान्महाकायाः सानूनि सुमहान्ति च ॥ वानरास्तूर्णमुद्यम्य कुम्भकर्णमॅभिद्रुताः ॥ ४ ॥ यदि ततो यशो नाशं गमिष्यतीति योजना ।। २९ ॥ [॥ ३५ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय शरं पराक्रमवन्तं । कनकाङ्गदं उत्साहातिशयेन प्रका- णभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षट् शितस्वर्णाङ्गदं ।। ३० ॥ कदनं मर्दनं । दयितमिष्टं । षष्ठितमः सर्गः ।। ६६ ॥ ॥ ३१-३२॥ अनुमानैः सालगिरिभेदनादिदृष्टा न्तपुरस्कृतैर्युक्तिविशेषेः ॥ ३३ ॥ आज्ञाप्रतीक्षाः | ते निवृत्ता इत्यादिवानरास्त्यक्तजीविता इत्यन्त सुग्रीवाद्याज्ञाप्रतीक्षाः ॥ ३४ ॥ त्वरिततराभिमुखं | मेकं वाक्यं । नैष्ठिकीं निष्ठा नाशः तत्संबन्धिनीं । त्वरिततरं अभिमुखं चेति क्रियाविशेषणं । अत्र वायु- | मरणव्यवसायिनीमित्यर्थः। समुदीरितवीर्याः कथि पुत्रस्तु न पळाय्य निवृत्तः । किंतु नषभादिभिर्म- | तामपराक्रमाः। समारोपितविक्रमाः समवलम्बितप- लित्वा । कुम्भकर्णेन सह युद्धार्थं निवृत्त इति ज्ञेयं राक्रमाः । मरणनिश्चयहेतुमाह--त्यक्तजीविता इति । कतक० अत्रसर्गविच्छेदोऽसांप्रदायिकः । एकप्रकरणखावृत्तभेदाभावाच्च ॥ १ ॥ स० समारोपितविक्रमाः समारोपितः [ पा० ] १ ङ. च. झ. अ. ट. सान्वनैश्चनुमानैश्व. घ. सान्वनैरनुमानैश्च २ क. ख. ग. ङ.-ट. मास्थाय३ क ग-ट. वीर्यास्ते. ४ ङ. झ, ठ, बलीयसा. ५ ख, ग घ, छ. -ट. मभिद्रवन्.