पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ सप्ततितमः सर्गः ॥ ७० ॥ हनुमनीलाभ्यांक्रमेणदेवान्तकयुद्धोन्मत्तयोर्वधः ॥ १ ॥ त्रिशिरसामुट्यभिहतेनहनुमतातदीयखङ्गाक्षेपेणतचिछस्त्रयक- र्तनम् ॥ २ ॥ ऋषभनान्नावानरवरेणमत्तनाम्नोराक्षसस्यवधः ॥ ३ ॥ नरान्तकं हतं दृष्ट्वा चुक्रुशुर्नेत्रतर्षभाः॥ देवान्तकस्त्रिमूर्धा च पौलस्त्यश्च महोदरः १ ॥ आरूढो मेघसंकाशं वारणेन्द्रं महोदरः । वालिपुत्रं महावीर्यमभिदुद्राव वीर्यवान् ॥ २॥ भ्रातृव्यसनसंतप्तस्तथा देवान्तको बली ॥ आदाय परिघं दीप्तमङ्गदं समभिद्रवत् ॥ ३॥ रथमादित्यसंकाशं युक्तं परमवाजिभिः । आथाय त्रिशिरा वीरो वालिपुत्रमथाभ्ययात् ॥ ४॥ स त्रिभिर्देवदर्पघ्नैर्नमतेन्द्रभिद्रुतः ॥ वृक्षमुत्पाटयामास महाविटपमङ्गदः ॥ ५॥ देवान्तकाय तं वीरश्चिक्षेप सहसाऽङ्गदः। महावृक्षे महाशाखं शक्रो दीप्तमिवाशनिम् ॥ ६ ॥ त्रिशिरास्तं प्रचिच्छेद शरैराशीविषोपमैः ॥ स वृक्षे कुत्तमालोक्य उत्पपात तदाऽङ्गदः ॥ ७ ॥ स ववर्ष ततो वृक्षाशैलांश्च कपिकुञ्जरः । तान्प्रचिच्छेद संक्रुद्धस्त्रिशिरा निशितैः शरैः ॥ ८॥ परिघाग्रेण तान्वृक्षान्बभञ्ज च सुरान्तकः । त्रिशिराश्चाङ्गदं वीरमभिदुद्राव सायकैः ॥ ९ ॥ गजेन समभिद्रुत्य वालिपुत्रं महोदरः । जघानोरसि संक्रुद्धस्तोमरैर्वध्रसन्निभैः ॥ १० ॥ देवान्तकश्च संक्रुद्धः परिघेण तदाऽङ्गदम् । उपगम्याभिहत्याशु व्यपचक्राम वेगवान् ॥ ११ ॥ स त्रिभित्रैततश्रेष्ठंयुगपत्समभिद्रुतः ॥ न विव्यथे महातेजा वालिपुत्रः प्रतापवान् ॥ १२ ॥ स वेगवान्महावेगं कृत्वा परमदुर्जयः॥ तलेन भृशमुत्पत्य जघानास्य महागजम् ॥ १३ ॥ तस्य तेन प्रहारेण नागराजस्य संयुगे । पेततुलोचने तस्य विननाद स वारणः ॥ १४ ॥ विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलः॥ देवान्तकमंभिप्लुत्य ताडयामास संयुगे ॥ १५॥ स विह्वलितसर्वाङ्गे वातोदूत इव द्रुमः। लाक्षारससवर्णा च सुस्राव रुधिरं त्रुखात् ॥ १६ ॥ अथाश्वास्य महातेजाः कृच्छाद्देवान्तको बली ॥ आविध्य परिघं घोरंमाजघान तदाऽङ्गदम् ॥ १७ ॥ परिघाभिहतश्चापि वानरेन्द्रमजस्त । जानुभ्यां पतितो भूमौ पुनरेखोत्पपात ह ॥ १८ ॥ । १९ ।। ततोऽब्रदं परिक्षिप्तं त्रिभिर्नानंतपुङ्गवैः ॥ हनुमानपि विज्ञाय नीलश्चापि प्रतस्थतुः ॥ २० ॥ ततश्चिक्षेप शैलाग्रं नीलस्त्रिशिरसे तदा ॥ तद्रावणसुतो धीमान्बिभेद निशितैः शरैः ॥ २१ ।। तद्भाणशतनिर्भिन्नं विदारितशिलातलम् ॥ सविस्फुलिङ्गं सज्वालं निपपात गिरेः शिरः ॥ ॥ २२ तंतो बृम्भितमालोक्य हर्षाद्देवान्तकस्तदा ॥ परिघेणाभिदुद्राव मारुतात्मजमाहवे ॥ २३ ॥ पौलस्य इति त्रिमूर्धविशेषणं । न तु महोदरस्य । न्वयः ॥ १४ ॥ महाबलः वालिपुत्रः अस्य महोदर देवान्तकादयस्त्रयश्चक्रुशुरिति संबन्धः ॥ १–२ ॥ समभिद्रवत् समभ्यद्रवत् ।। ३-१० ॥ "व्यपचक्रम | वाहनस्य गजस्य विषाणं निष्कृष्य अभिप्लुत्य वेगेन पश्चाजगाम ॥११--१२। अस्य महोदरस्य।।१३। सन्निपत्य । देवान्तकं ताडयामासेति संबन्धः ।।१५ तस्य अङ्गदस्य । तस्य नागराजस्येति द्वितीयतच्छब्दा- | २२ ॥ जूम्भितं भग्नमिति यावत् । गृम्भितं तद्ध- [ पा० ] १ ङ. ज. ट. समभिद्रुत्य. २ क, ख. ङ. झ. ट. मभिद्रुत्य ३ ङ. झ. अ. ट. महत्. ४ क. च.-ट. वेगादाजघान. ५ ङ. च. झ. झ, ट , सत्रिचूंभित. ६ क.-च. झ. अ. ट. देवान्तकोबली.