पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६

  • ~*

~*~*~*~~*~*~*~AJAJ*~*~*~*~******* ते वध्यमानाः समरे वानराः पादपायुधाः।। अभ्यद्रवन्त सहिता रावणिं रणकर्कशम् ॥ ३५ ॥ इन्द्रजितु ततः क्रुद्धो महातेजा महाबलः ।। वानराणां शरीराणि व्यधमद्रावणात्मजः॥ ३६ ॥ शरेणैकेन च हीनव पञ्च च सप्त च ॥ चिउँछेद समरे क्रुद्धो राक्षसान्संप्रहर्षयन् ॥ ३७॥ स शरैः सूर्यसंकाशैः शातकुम्भविभूषितैः ॥ वानरान्समरे वीरः प्रममाथ सुदुर्जयः॥ ३८॥ ते भिनगात्राः समरे वानराः शरपीडिताः पेतुर्मथितसङ्कल्पाः सुरैरिव महासुराः ॥ ३९ ॥ तं तपन्तमिवादित्यं घोरैर्बाणगभस्तिभिः॥ अभ्यधावन्त संक्रुद्धाः संयुगे वानरर्षभाः ॥ ४० ॥ ततस्तु वानराः सर्वे भिन्नदेहा विचेतसः ॥ व्यथिता विद्रवन्ति स रुधिरेण समुक्षिताः ॥ ४१ ॥ रामस्यार्थे पराक्रम्य वानरास्त्यक्तजीविताः॥ नर्दन्तेऽभिवृत्तास्तु समरे सशिलायुधाः॥ ४२ ॥ ते दुमैः पर्वतागैश्च शिलाभिश्च प्लवङ्गमाः॥ अभ्यवर्षन्त समरे रावणिं पर्यवस्थिताः ॥ ४३ ॥ तद्रुमाणां शिलानां च वर्षे श्रेणहरं महत् ॥ व्यपोहत महातेजा रावणिः समितिञ्जयः ॥ ४४ ॥ ततः पावकसंकाशैः शरैराशीविषोपमैः ॥ वानराणामनीकानि बिभेद समरे प्रभुः ॥ ४५ ॥ अष्टादशशरैस्तीक्ष्णैः स विद्ध गन्धमादनम् । विव्याध नवभिश्चैव नलं दूरादवस्थितम् ॥ ४६ ॥ सप्तभिस्तु महावीर्यो मैन्दं मर्मविदारणैः पञ्चभिर्विशिखैश्चैव गजं विव्याध संयुगे ॥ ४७ ॥ जाम्बवन्तं तु दशभिर्नालं त्रिंशद्भिरेव च ॥ सुग्रीवमृषभं चैव सोङ्गदं द्विविदं तथा ॥ घोरैर्दत्तवरैस्तीक्ष्णैर्निष्प्राणानकरोत्तदा ॥ ४८॥ अन्यानपि तदा मुख्यान्वानरान्बहुभिः शरैः॥ अर्दयामास संक्रुद्धः कालाग्निरिव मूर्चिछतः ॥४९॥ स शरैः स्रर्यसंकाशैः सुमुक्तैः शीघ्रगामिभिः ॥ वानराणामनीकानि निर्ममन्थ महारणे ॥ ५० ॥ आकुलां वान सेनां शरजालेन मोहिताम् ॥ हृष्टः स परया प्रीत्या ददर्श क्षतजोक्षिताम्। ५१॥ पुनरेव महातेजा राक्षसेन्द्रात्मजो बली ॥ संसृज्य बाणवर्ष च शत्रवर्षे च दारुणम् । ममर्द वानरानीकमिन्द्रजिचरितो बली ॥ ५२ ॥ खसैन्यमुत्सृज्य समेत्य तूर्णं महारणे वानरवाहिनीषु ॥ अदृश्यमानः शरजालमुग्रं ववर्ष नीलाम्बुधरो यथाऽम्बु ॥ ५३ ॥ ते शक्रजिद्धाणविशीर्णदेहा मायाहता विखरमुन्नदन्तः ॥ रणे निपेतुर्हरयोद्रिकल्पा यथेन्द्रवज्ञाभिहता नगेन्द्राः॥५४॥ खेन्तर्दध इति पूर्वोक्तं विरुध्येत । विचकर्त हिंसित- | अष्टादशेत्यादिसार्धश्लोकत्रयमेकान्वयं । दत्तवरैः वर वान् ॥ ३४ ॥ रावणिं रावणिमुक्तायुधागमनप्रदेशं | दत्तैः ॥ ४६-४८। अन्यानिति । मूर्चिछतः प्रवृद्धः ॥ ३५-३८ । मथितसंकल्पाः नाशितमनोरथाः ॥ ४९-५० ॥ परया प्रीत्या हृष्टः उद्धतः ॥ ५१ ॥ ॥ ३९-४१ ॥ त्यक्तजीविताः त्यक्तजीवितेच्छाः। पुनरेवेत्यादिसार्धश्लोकमेकं वाक्यं । खङ्गादीनि अभिवृत्ताः अभिमुखं प्रवृत्ताः। तुरवधारणे।। ४२. – | शस्त्राणि । अत्र द्वितीयबलिशब्दो वरदानबलवत्ता- ४३ ॥ व्यपोहत वारयामास ॥ ४४-४५ । । वचकः । प्रथमो वीर्यवत्तावाचकः ।। ५२॥ स्वसैन्यं रामानु० रावणिं रावणिमुक्तायुधागमनप्रदेशं । वेन्तर्दधेइत्यभिधानात् । स० अथवापरीक्षाकृतेमत्राणांतदान्तर्धानं । यथायथंखेच्छानुसारेणप्रत्यक्षीभवनमप्रत्यक्षीभवनंचसंभवीतिरावणिमित्याद्युक्तिःसंभवतीतिवाज्ञेयं ॥ ३५ ॥ शि० निवृत्ताः इहलोकमुखेच्छारहिताः ॥ ४२ ॥ ती० रावणिमभ्यवर्षन्त रावणिसंचारप्रदेशमभ्यवर्षन्तेत्यर्थः । तस्यादर्शनात् ॥ ४३ ॥ [ पा० ] १ ड. झ. अ. ट. अभ्यवर्षन्तसहसारावर्णिशैलपादपैः. २ क. ङ. झ. ध. ट. बिभेद. ३ इ, झ. ट. तेपतन्तमिवा. अ. प्रपतन्तमिवाने ४ ट. स्ते निवृत्तावु५ ख. ग. प्रहरतांमहत्. ६ ङ. झ. झ. ट. पीडितां