पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ विशल्यौ तु महात्मानौ तावुभौ रामलक्ष्मणौ ॥ असंभ्रान्तौ जगृहतुस्तदोभे धनुषी वरे ॥ ३३ ॥ ततो विष्फारयानस्य रामस्य धनुरुत्तमम् ॥ बभूव तुमुलः शब्दो राक्षसानां भयावहः ॥ ३४ ॥ अशोभत तदा रामो धनुर्विष्फारयन्महत् । भगवानिव संक्रुद्धो भवो वेदमयं धनुः ॥ ३५॥ उडुष्टं वानराणां च राक्षसानां च निस्वनम्। ज्याशब्दस्तावुभौ शब्दावति रामस्य शुश्रुवे ॥३६॥ वानरोद्धष्टघोषश्च राक्षसानां च निस्खनः ॥ ज्याशब्दश्चापि रामस्य त्रयं व्याप दिशो दश ॥ ३७ ॥ तस्य कार्मुकमुक्तैश्च शरैस्तत्पुरगोपुरम् ॥ कैलासशृङ्गप्रतिमं विकीर्णमपतद्भुवि ॥ ३८॥ ततो रामशरान्दृष्ट्वा विमानेषु गृहेषु च ॥ सनाहो राक्षसेन्द्राणां तुमुलः समपद्यत ॥ ३९ ॥ तेषां सन्नह्यमानानां सिंहनादं च कुर्वताम् ॥ शर्वरी राक्षसेन्द्राणां रौद्रीव समपद्यत ॥ ४० ॥ आदिष्टा वानरेन्द्रास्तु सुग्रीवेण महात्मना ॥ आसनद्वारमासाद्य युध्यध्वं प्लवगर्षभाः ॥ ४१ ॥ यश्च वो वितथं कुर्यात्तत्रतत्र छुपस्थितः। स हन्तव्यो हि संप्लुत्य राजशासनदूषकः॥ ४२ ॥ तेषु वानरमुख्येषु दीप्तोल्कोज्ज्वलपाणिषु ॥ स्थितेषु द्वारमासाद्य रावणं मन्युराविशत् ॥ ४३ ॥ तस्य “म्भितविक्षेपाद्यामिश्रा वै दिशो दश ॥ रूपवानिव रुद्रस्य मन्युर्गात्रेष्घदृश्यत ॥ ४४ ॥ स निकुम्भं च कुम्भं च कुम्भकर्णात्मजावुभौ । प्रेषयामास संक्रुद्धो राक्षसैर्बहुभिः सह ॥ ४५ ॥ यूपाक्षः शोणिताक्षश्च प्रजहुः कम्पनस्तथा ।। निर्ययुः कौम्भकर्णिभ्यां सह रावणशासनात् ॥४६॥ शशास चैव तान्सर्वांत्राक्षसान्सुमहाबलान् ॥ नादयन्गच्छताऽत्रैव जयध्वं शीघ्रमेव च ॥ ४७ ॥ ततस्तु चोदितास्तेन राक्षसा ज्वलितायुधाः । लझाया निर्ययुर्वीराः प्रणदन्तः पुनः पुनः॥ ४८॥ रक्षसां भूषणस्थाभिर्भाभिः खाभिश्च सर्वशः ॥ चक्रुस्ते सप्रभं व्योम हरयश्चाग्निभिः सह ॥ ४९ ॥ A% विशल्यौ निर्गलितशरीरनिमग्नशरफलकौ । तदोभे | षष्ठी । वितथं कुर्यात् । मच्छासनमितिशेषः। आस धेनुषी वरे इति पाठः ॥ ३३ ॥ विष्फारयानस्य | नद्वारं रावणान्तःपुरासन्नमध्यकक्ष्याद्वारं । तत्रतत्र ध्वनयतः। विष्फारो धनुषः स्वानः ” इत्यमरः । युद्धभूमौ उपस्थितः ॥ ४१–४३ ॥ जूम्भितविक्षे- स्फुरतिस्फुलत्योर्निर्निविभ्यः ” इति षत्वं । मुग- पात् गात्रविनामविस्तारात् । व्यामिश्राः व्याकुलाः। भाव आर्षः ॥ ३४ ॥ वेदमयं धनुः वेदोक्तलक्षणं | अभवन्निति शेषः । दिशः दिस्थिताः । रुद्रस्य धनुः । “ कृत्तिवासाः पिनाकी ” इति श्रुत्या प्रति- | कालाग्निरुद्रस्य गात्रे योरूपवान् मन्युः स इव राव पादितमहिमेति वाऽर्थः ।। ३५ ॥ रामस्य ज्याशब्दः णोऽलक्ष्यत ।। ४४-४६ । अत्रैव अस्मिन्गृह एवा- वानराणामुद्धृष्टं राक्षसानां निस्स्खनं च तावुभावतीत्य रभ्य । सिंहनादं नादयन् नादयन्तः कुर्वन्तः । शुश्रुवे ॥ ३६ ॥ वानरोद्धृष्टघोषः वानरोत्पादितघोषः गच्छत । नादयन्नित्यत्र ‘‘ यत्ययो बहुलं ’ इति ॥ ३७–३८ ॥ तुमुलः अधिकः ॥ ३९ । सन्नह्य- | बहुवचनविषये एकवचनं । ४७ ॥ ज्वलितेति । मानानां कक्ष्याबन्धनादियुद्धसन्नाहं कुर्वतां । रौद्री | आयुधानां ज्वलितत्वं युद्धयात्रासु शिक्षाविशेषप्रदर्शन प्रलयरात्रिः । । ४० ॥ आदिष्टा इत्यादिश्लोकद्वयमेका- नात् । लङ्काया इति पञ्चमी ॥ ४८ ॥ स्वाभिः न्वयं । अन्ते इतिकरणं बोध्यं । व इति निर्धारणे 'स्वासाधारणीभिः । रक्षसां भूषणस्थाभिः भाभिश्च । स० वेदमयं वेदामकं तदभिमान्यभिमानिकं। भारतेकर्णपर्वान्तर्गतशल्यदुर्योधनसंवादे ¢ संवत्सरोधनुस्तदै ” “ तस्यसंव सरोधनुः ” इत्युक्तिस्त्वेकस्यानेकेऽभिमानिनोभवन्तीतिनविरुणद्धि ॥ ३५ ॥ स० वानरोद्धृष्टशब्दः वानरकृतशब्दजशब्दः। राक्षसानांचनिस्स्खनः रामस्यज्याशब्दश्चेत्येतत्रितयं दशदिशोव्याप व्यापत् । एतच्छब्दद्वयाधरीकरणंचद्वयोस्तस्यचसमव्यापनाभा वेऽसंभावितं । तितस्मिनौकट्यानौकट्येविदितेभवतइत्यतिक्रमणव्यापनेसंभवतइतिनपूवतरविरोधः ॥ ३७ ॥ [ पा०] १ ठ. वानरोद्धृष्टशब्द. २ क. ख. ङ. ज. --ट, राक्षसागच्छतायैवसिंहनादंचनादयन्.